काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 749, कुल 828 में से
संदर्भ में पढ़ें७४८ ॥ काशिका ॥ ८ ॥ १ ॥ यावत्पचति शोभनम् । यथा प्रपचति शोभनम् । यावत्करोति चारु । यथा प्रकरोति चारु । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति । यथा विष्णुमित्रः प्रकरोति चारु ॥ तुपश्यपश्यताहैः पूजायाम् ॥ ३९ ॥ तु पश्य पश्यत अह इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये । तु । माणवकस्तु भुङ्क्ते शोभनम् । पश्य । पश्य माणवको भुङ्क्ते शोभनम् । पश्य- त । पश्यत माणवको भुङ्क्ते शोभनम् । अह । अह माणवको भुङ्क्ते शोभनम् । पूजायामिति किम् । पश्य मृगो धावति । पूजायामिति वर्तमाने पुनः पूजाया- मित्यतदुच्यते निघातप्रतिषेधार्थम् । तद्धि प्रतिषेधस्य प्रतिषेधेन संबद्धमिति ॥ अहो च ॥ ४० ॥ अहो इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये । अहो देव- दत्तः पचति शोभनम् । अहो विष्णुमित्रः करोति चारु । पृथग्योगकरणमुत्तरार्थम् ॥ शेषे विभाषा ॥ ४१ ॥ अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति । कश्चशेषः यदन्यत्पूजायाः । कटमहो करिष्यसि । मम गेहमेष्यसि । असूयावचनमेतत् । पूजायामित्यस्य पूर्वत्र चानुकृष्टत्वादनाधिकारे सिद्धे शेषवचनं विस्पष्टार्थम् ॥ पुरा च परीप्सायाम् ॥ ४२ ॥ पुरा इत्यनेन युक्तं तिङन्तं परीप्सायामर्थे विभाषा नानुदात्तं भवति । परीप्सा त्वरा । अधीष्व माणवक । पुरा विद्योतते विद्युत् । पुरा स्तनयति स्तनयित्नुः । पुराशब्दोऽत्र भविष्यदासत्तिं द्योतयति । परीप्सायामिति किम् । नडेन स्म पुराधीयते । अत्र भूतकालविप्रकर्षं पुराशब्दो द्योतयति । ऊर्ष्णा स्म पुराधीयते ॥ नन्वित्यनुज्ञैषणायाम् ॥ ४३ ॥ ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति अनुज्ञैषणायां विषये । अनु- ज्ञा या एषणा प्रार्थना, अनुज्ञैषणा । अनुज्ञाप्रार्थनेत्यर्थः । ननु करोमि भोः । अनुजानीष्व मां, गमनं प्रतीत्यर्थः । अनुज्ञैषणायामिति किम् । अकार्षीः कटं देवदत्त । ननु करोमि भोः । पृष्टप्रतिवचनमेत्वानुनैषणा ॥ किं क्रियाप्रश्नेनुपसर्गमप्रतिषिद्धम् ॥ ४४ ॥ किमित्येतत्क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तम्रनुपसर्गमप्रति- षिद्धं नानुदात्तं भवति । किं देवदत्तः पचति आहोस्वद्भुङ्क्ते । किं देवदत्तः