काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 757, कुल 828 में से
संदर्भ में पढ़ें७५६ ॥ काशिका ॥ ८ । १ ॥ आमन्त्रितं पूर्वमविद्यमानवद्भवति, तस्मिन्सति यत्कार्यं तच्च भवति । असति यत्तद्भवति । कानि पुनरविद्यमानवत्त्वे प्रयोजनानि । आमन्त्रिततिङ्घा- तयुष्मदस्मदादेशाभावाः । देवदत्त यज्ञदत्तेत्यामन्त्रितस्य पदात्परस्येति निघातो न भवति । षाष्ठिकामन्त्रिताद्युदात्तत्वं भवति । देवदत्त पचसीत्यत्र तिङ्ङतिङ इति निघातो न भवति । देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वमि- त्येवमादिषु युष्मदस्मदादेशा न भवन्ति । पूजायामन्तरप्रतिषेधः प्रयोजनम् । यावद्देवदत्त पचसीत्यत्रापि पूजायां नानन्तरमित्येव प्रतिषेधो भवति । जात्व- पूर्वमित्येतद् देवदत्त जातु पचसीत्यत्रापि भवति । आहो उताहो चानन्तर- मिति आहो देवदत्त पचसि उताहो देवदत्त पचसीत्यत्रापि भवति । आम् एकान्तरमामन्त्रितमनन्तिकइति आम् भो पचसि देवदत्त इत्यत्रापि भवति । आमन्त्रितमिति किम् । देवदत्तः पचति । पूर्वमिति किम् । देवदत्त इत्येतस्या- मन्त्रिताद्युदात्तत्वे कर्तव्ये नाविद्यमानवद्भवति । पूर्वत्वं च परापेक्षं भवतीति परस्यैव कार्ये स्वनिमित्ते ऽन्यनिमित्ते वा तदविद्यमानवद्भवति, न तु स्वकार्ये । देवदत्त पचसीत्यत्रापि ह्यामन्त्रिताद्युदात्तत्वं भवत्येव । इह दमं मे गङ्गे यमुने इति गङ्गे शब्दः पूर्वमामन्त्रितं ततः परस्य यमुनेशब्दस्यानुदात्तत्वे कर्तव्ये स्वयम- विद्यमानवत्त्वान्निमित्तं न भवति । मेशब्दस्य निमित्तभावं न प्रतिबध्नाति ॥ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ॥ ७३ ॥ अविद्यमानवत्त्वस्य प्रतिषेधः । आमन्त्रितान्ते समानाधिकरणे परतः पूर्व- मामन्त्रितं सामान्यवचनं नाविद्यमानवद्भवति । किं तर्हि विद्यमानवदेव । अग्नेगृहपते । माणवक जटिलकाध्यापक । पूर्वस्य विद्यमानवत्त्वात्परमनुदात्तमेव भवति । आमन्त्रितमिति किम् । देवदत्त पचसि । समानाधिकरणइति किम् । देवदत्त पण्डित यज्ञदत्त । अत्र यज्ञदत्त विशेषणं पण्डित शब्दः । न पूर्वेण समाना- धिकरणः । सामान्यवचनमिति किम् । पर्यायेषु मा भूत् । अघ्न्ये देवि सरस्वति इंडे काव्ये विहव्ये । पर्यायशब्दा एते । एवं ह्युक्तमेतानि ह्यघ्न्ये नामानीति ॥ विभाषितं विशेषवचने बहुवचनम् ॥ ७४ ॥ पूर्वस्याविद्यमानवत्त्वे प्रतिषिद्धे विकल्प उच्यते । विशेषवचने समाना- धिकरणे आमन्त्रितान्ते परतः पूर्वमामन्त्रितं बहुवचनान्तं विभाषितमविद्यमा- नवद्भवति । देवाः शरण्याः २ । ब्राह्मणा वैयाकरणाः २ । सामान्यवचनाधि- कारादेव विशेषवचनइति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम् । बहुवचनमिति किम् । माणवक जटिलक । नित्यमेतद्विद्यमानवदेव ॥ इति श्रीकाशिकायां वृत्तावष्टमस्याध्यायस्य प्रथमः पादः ॥