काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 758, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ २ ॥ ७५७
॥ अथ अष्टमस्याध्यायस्य द्वितीयः पादः ॥
पूर्वत्रासिद्धम् ॥ १ ॥
पूर्वत्रासिद्धमित्यधिकार आ अध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमि- ष्यामः पूर्वत्रासिद्धमित्येवं तद्वेदितव्यम् । तत्र येयं सपादसप्ताध्याय्यनुक्रान्ता एतस्यामयं पादोनो ऽध्यायो ऽसिद्धो भवति । इत उत्तरं चोत्तरोत्तरो योगः पूर्वेञ्पूर्वत्रासिद्धो भवति । असिद्धवद्भवति * । सिद्धकार्यं न करोतीत्यर्थः । तदे- तदसिद्धत्ववचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च । अस्माउदुरु । द्वावत्र । द्वावानय । असावादित्यः । इत्यत्र व्यलोपस्यासिद्धत्वाद् चादुव्य. इत्यकः सवर्णे दीर्घ इति च न भवति । अमुष्मै । अमुष्मात् । अमुष्मिन् । इति उत्वस्यासिद्धत्वात् स्मायादयो भवन्ति । शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा । मतो