काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 759, कुल 828 में से
संदर्भ में पढ़ें४५८ ॥ काशिका ॥ ८ । २ ॥ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ॥ २ ॥ नलोपः पूर्वत्रासिद्धो भवति सुब्विधौ स्वरविधौ संज्ञाविधौ तुग्विधौ च कृति। विधिशब्दोऽयं प्रत्येकमभिसंबध्यमानः स्वरसंज्ञातुकानां विधेयत्वात्तैः कर्म- षष्ठीयुक्तैर्भावसाधनो ऽभिसंबध्यते। सुपा तु संबन्धसामान्यवचनषष्ठ्यन्तेन कर्म्म- साधनः। तेन सुपः स्थाने यो विधिः सुपि च परभूते सर्वोसौ सुब्विधिरिति सर्वत्रासिद्धत्वं भवति। सुब्विधौ तावत्। राजभिः, तक्षभिरित्यत्र नलोपस्या- सिद्धत्वादतोभिस ऐसिति न भवति। राजभ्याम्, तक्षभ्याम्, राजसु, तक्षस्विति, सुपि चेति बहुवचने झल्ये दिति दीर्घत्वमेत्वं च न भवति। स्वरविधौ। राज- वतीत्यत्र नलोपस्यासिद्धत्वादन्तोवत्या इति न भवति। पञ्चारं, दशारममिति। अत्र नलोपस्यासिद्धत्वाद् अर्मे चावर्णे द्वयजिति पूर्वपदस्यानुदात्तत्वं न भवति। पञ्चबीजीत्यत्र नलोपस्यासिद्धत्वादिगन्ते द्विगाविति पूर्वपदप्रकृतिस्वरो न भव- ति। संज्ञाविधौ। पञ्च ब्राह्मण्या दश ब्राह्मराय इति नलोपस्यासिद्धत्वाद् ष्णा- न्ताषडिति षट्संज्ञा भवति। ततश्च न षट्स्वस्रादिभ्य इति टापः प्रतिषेधो भवति। तदेतत्कथं प्रयोजनं भवति। यदि प्रतिकार्यं संज्ञाप्रवृत्तिरित्येतद्दर्श- नम्। या हि जश्शसोलुगर्था षट्संज्ञा प्रवृत्ता तया स्त्रीप्रत्ययप्रतिषेधो न क्रियतइति सा पुनः प्रवर्त्तयितव्येति। तुग्विधौ। वृत्रहभ्यां, वृत्रहभिरिति नलोपस्यासिद्धत्वाद् ह्रस्वस्य पिति कृति तुगिति तुङ् न भवति। अत्र के चित्सं- निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति तुकं प्रति नलोपस्यानिमित्तत्वा- द्वहिरङ्गलक्षणेन वा ऽसिद्धत्वात्तुग्विधिग्रहणमनर्थकमिति प्रतिपन्नाः, तत्तु क्रियतेपरिभाषाद्वयस्यानित्यत्वं ज्ञापयितुम्। कृतीति किम्। वृत्रहच्छत्रम्। वृत्रहच्छाया। छे चेति तुग्भवति। अत्र सिद्धे सत्यारम्भो नियमार्थः। एते- ष्वेव नलोपो ऽसिद्धो भवति नान्यत्र। तेन राजीयति राजायते राजाश्व इति ईत्वं दीर्घत्वमेकादेशश्च सिद्धो भवति ॥ न मु ने ॥ ३ ॥ मुभावो नाभावे कर्त्तव्ये नासिद्धो भवति। किं तर्हि सिद्ध एव। अमुना। मुभावस्यासिद्धत्वात् घिल्लक्षणो नाभावो न स्यात्। कृते तु नाभावे मुभावस्यासिद्धत्वात्सुपि चेति दीर्घत्वं यत्प्राप्नोति तत्सन्निपातलक्षणो विधिर- निमित्तं तद्विघातस्येति न भवति। अथ वा योमदयमिदमुभयार्थे तन्त्रेणोच्चा- रितम्। अथ वा ने परतो यत्प्राप्नोति तस्मिन्कर्त्तव्ये मुभावो नासिद्ध इत्येवं रूपोत्र सूत्रार्थः। ने तु कर्त्तव्ये मुभावस्य यत्सिद्धत्वं तदर्थतो गृहीतम्। तेनात्र मुभावस्य सिद्धत्वाचाभावश्च भवति। दीर्घत्वं च भवति ॥ एकादेशस्वरान्त- रङ्गः सिद्धो वक्तव्यः ॥ * ॥ किं प्रयोजनम्। अयायावेकादेशप्रवृत्तस्वरैकाननुदा-