काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 761, कुल 828 में से
संदर्भ में पढ़ें७६० ॥ काशिका ॥ ८ ॥ २ ॥ सकारादिः पठ्यते तस्य श्चुत्वस्यासिद्धत्वाद् ऋट्श्च्योतति रट्श्च्योतति इति ङः सि धुट् इति प्राप्नोति । ऋटतीत्य्ऋङ् । रटतीति रङ् । क्विबन्तोयम् । किमर्थं पुनः सकारादिः पठ्यते । इह मधु श्च्योततीति मधुश्च्युत् क्विबन्तः । मधुश्च्युतमाचष्टे इति णिच् । मधुश्च्ययति । मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात्सलोपः संयोगान्तत्वाद यलोपः चकारस्य कुत्वं मधुगिति सिद्धम् । शकारादौ पुनरेतस्मिन्संयोगान्तलोपेन यकारचकारयोर्लुप्तयोः शका- रस्य षत्वे सति मधुडिति स्यात् ॥ अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये ॥ * ॥ बभणतुः । बभणुः । अभ्यासजश्त्वस्यासिद्धत्वादनादेशादेरि- त्येत्वं प्राप्नोति । छिदेः, चिच्छित्सति, उच्छेः, उच्चिच्छिषतीति अभ्यासादेश- स्यासिद्धत्वात् छे चेति तुक् प्राप्नोति । द्विवेचने परसवर्णत्वं सिद्धं वक्त- व्यम् ॥ * ॥ सय्यन्ता, सव्वत्सरः यल्ल्लोकम्, तल्लोकमिति परसवर्ण- स्यासिद्धत्वाद्वर इति द्विवेचनं न स्यात् ॥ पदाधिकारश्चेल्लत्वढत्वघत्वनत्व- रुत्वषत्वणत्वानुनासिककुत्वानि सिद्धानिवक्तव्यानि ॥ * ॥ लत्वम् । गलो गलः । गरो गरः । घत्वं, द्रोग्धा २ । ढत्वं, द्रोढा २ । नत्वं, नुन्नो नुत्तः । रुत्वम्, अभिनोभिनः । अभिनदभिनत् । षत्वम् । मातृष्वसा २ । मातृः- स्वसा २ । णत्वं माषवापाणि २ । माषवापानि २ । अनुनासिक । वाङ्नय- नम् २ । वाग्नयनम् २ । कुत्वं । वाक्श्यनम् २ । वाक्शयनम् २ । लत्वा- दीनां विकल्पितानामसिद्धत्वात् कृते द्विवेचने सत्युपरिष्टाद्विकल्पे सति गरो- गलः गलोगरः इत्येवं रूपमपि द्विरुक्तं स्यात् । तदेतत्सर्वं न मु ने इति योग- विभागेन साध्यते । न इत्येतावदनिष्टे विषये पूर्वत्रासिद्धस्य प्रतिषेधार्थम् । ततो मु ने इति । नेत्येतदनुवर्त्तते ॥ उदात्तस्वरितयोर्यणः स्वरितो ऽनुदात्तस्य ॥ ४ ॥ उदात्तयणः स्वरितयणश्च परस्यानुदात्तस्य स्वरित आदेशो भवति । उदात्तयणः । कुमार्यै । कुमार्यः । उदात्तानिवृत्तिस्वरेणायमीकार उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात्परस्यानुदात्तस्य स्वरित आदेशो भवति । स्वरितयणः । सङ्कल्याशा । खलप्वाशा । सङ्कलूँः, खलपूरिति कृत्स्वरेणान्तोदात्तौ, तयो रोः सुपीति यणादेशः स उदात्तयण् ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात्स्वरितयणः परस्याशाशब्दाकारस्यानुदात्तस्य स्वरितो भवति । ननु च सप्तम्येकवचनस्य यदुदात्तयण इति स्वरितत्वं तदसिद्धं यणादेशे । तत्कथमयं स्वरितयण् भवति । आश्रयात् सिद्धत्वं भविष्यति । यद्येवमुदात्तादनुदात्तस्य स्वरित इति एतस्याप्याश्रयात्सिद्धत्वं प्राप्नोति । ततश्च दध्याशेत्यत्रापि स्वरितः स्यात् ।