काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 762, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ २ ॥ ७६१
तस्मादयमेव यण्स्र्वरो यणादेशे सिद्धो वक्तव्यः । के चित्तु ब्रुवते उदात्तात्स्व- रितयणेापि परस्यानुदात्तस्य स्वरितत्वं दृश्यते । तथा च तैत्तिरीयके शाखा- न्तरे पठ्यते । यास्ते विश्वाः समिधः सन्त्यग्ने इति । अग्ने इत्ययमकारः स्वरितः पठ्यते । तथा ब्राह्मणेपि दध्याशयतीत्याकारः स्वरितः पठ्यते इति । यथा तु वार्त्तिकं भाष्यं च तथा उदात्तात्स्वरितयणः परस्यानुदात्तस्यानेन स्वरितत्वं न भवतीति स्थितम् । तथा च भाष्ये स्वरितयण्ग्रहणमिदं प्रत्या- ख्यायते । सङ्कल्न्याशेत्युदात्तयण इत्येव स्वरितस्य सिद्धत्वात् । स्वरितयण- व्यवधानमव्यवधानमेव । स्वरविधौ व्यञ्जनमविद्यमानवदिति । तत्तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावाद् व्यवधानमस्ति । स्वरदीर्घयलोपेषु च लोपा-