भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 763, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 763

७६२ ॥ काशिका ॥ ८ । २ ॥ णोति रेफहत्वयोरसिद्धत्वाद् नलोपः प्राप्नोति । सावकाशं तदुभयं संबुद्धौ । हे ऽहः । हे दीर्घाहो निदाघेति । तत्र समाधिमाहुः । अहन्निति हविधौ यदु- पादीयते प्रथमैकवचनान्तमकृतनलोपं तदावर्त्यते, तत्रैकया ऽऽवृत्त्या तदेवंरूपं नलोपाभावार्थमन्वाख्यायते, द्वितीययापि तस्य रुर्विधीयते ॥ न ङिसंबुद्ध्योः ॥ ८ ॥ ङौ परतः संबुद्धौ च नकारलोपो न भवति । आर्द्रं चर्मन् । लोहिते चर्मन् । सुपां सुलुगिति डेलुक् । संबुद्धौ । हे राजन् । हे तक्षन् । अस्मादेव नलोपप्रतिषेधवचनादप्रत्यय इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा न प्रतिषि- ध्यते इति ज्ञायते । भसंज्ञा च न भवतीति । तथा हि राज्ञः पुरुषो राजपुरुष इति । अत्र नलोपश्च भवति । अल्लोपश्च न भवति ॥ डावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः ॥ * ॥ चर्मणि तिला अस्य चर्मतिलः । हे राजन्वन्दारक इत्यत्र समुदायार्थ संबोधनं न पूर्वपदार्थसंबोधनं प्रतीयतइति संबुद्ध्यन्तं पूर्वपदं नैव समस्यते ॥ वा नपुंसकानामिति वक्तव्यम् ॥ * ॥ हे चर्मन् । हे चर्म ॥ मादुपधायाश्च मतोर्वो ऽयवादिभ्यः ॥ ९ ॥ मतोरिह कार्यित्वेनोपादानात् सामर्थ्य लब्धं प्रातिपदिकं तन्मादिति मकारावर्णाभ्यां विशिष्यते । मकारावर्णविशिष्टया चोपधया इत्ययमर्थो भवति । मकारान्ताद् मकारोपधादवर्णान्तादवर्णोपधाच्चोत्तरस्य मतोर्व इत्ययमादेशो भवति, यवादिभ्यस्तु परतो न भवति । मकारान्तात् । किंवान् । शंवान् । मका- रोपधात् । शमीवान् । दाडिमीवान् । अवर्णान्तात् । वृत्तवान् । प्रत्तवान् । खट्वा- वान् । मालावान् । अवर्णोपधात् । पयस्वान् । यशस्वान् । भास्वान् । मादुपधा- याश्चेति किम् । अग्निमान् । वायुमान् । अयवादिभ्य इति किम् । यवमान् । दल्मिमान् । ऊर्मिमान् । यव । दल्मि । ऊर्मि । भूमि । कृमि । क्रुञ्चा । वशा । द्राक्षा * एतेषां मादुपधायाश्चेति प्राप्नोति । भ्रजि । ध्वजि । सञ्जि † इत्येतेषां छन्दसीर इति । हरित् । ककुत् गरुत् इत्येतेषां झय इति । इक्षु मधु द्रुम मघउ धूम इत्येतेषां संज्ञायामिति । आकृतिगणश्च यवादिः । अकृतवत्वो मतुब् यवा- दिषु द्रष्टव्यः । यस्य सति निमित्ते मतुपो वत्वं न दृश्यते स यवादिषु द्रष्टव्यः ‡ । इह नुमत इदं नार्मतमिति बहिरङ्गलक्षणत्वादवर्णोपधस्य मतुपो वत्वं न भवति ॥ झयः ॥ १० ॥

  • वृक्षा । वेशा । इत्यधिकं पुस्तकान्तरं । † यजि । व्रजि । भ्राजि । क्षिपि । इत्यधिकमन्यस्मिन्पुस्तके । ‡ यस्य सति निमित्ते मतुपो वत्वं न दृश्यते स यवादिषु द्रष्टव्य इति नास्त्येकस्मि- न्पुस्तके ।