काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 765, कुल 828 में से
संदर्भ में पढ़ें७६४ ॥ काशिका ॥ ८ ॥ २ ॥ छन्दसि विषये इवर्णान्ताद्रेफान्ताच्चोत्तरस्य मतोर्वत्वं भवति । इव- र्णान्तात्तावत् । त्रिवती याज्यानुवाक्या भवति । हरिवो मेदिनं त्वा । अधि- पतिवती जुहोति । चरुमग्निवानिव । आरेवानेतु मा विशत् । रथेर्मेताविति संप्रसारणम् । सरस्वतीवान् । भारतीवान् । दधीवांश्चरुः । छन्दसि सर्वे विधयो विकल्प्यन्तइतीह न भवति । सप्तर्षिमन्तम् । ऋषिमान् । ऋतीमान् । सूर्ये ते द्यावापृथिवी मन्तमिति । रेफान्तात् । गीर्वान् । धूर्वान् । आशीर्वान् ॥ अनो नुट् ॥ १६ ॥ छन्दसीति वर्तते ऽनन्तादुत्तरस्य मतोर्नुडागमो भवति छन्दसि विषये । अक्षन्वन्तः कर्णवन्तः सखायः । अस्थन्वन्तं यदनस्था बिभर्ति । अक्षन्वता लाङ्गलेन । शीर्षन्वती । मूर्धन्वती । नुटोऽसिद्धत्वान्नस्य च वत्वं न भव