काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 772, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ २ ॥ ७०१ ओदितश्च ॥ ४५ ॥ ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । ओलस्जी । लग्नः । लग्नवान् । ओविजी । उद्विग्नः । उद्विग्नवान् । ओप्यायी वृद्धौ । आपीनः । आपीनवान् । स्वादय ओदितः । षूङ् । सूनः । सूनवान् । दूङ् । दूनः । दूनवान् । दीङ् । दीनः । दीनवान् । डीङ् । डीनः । डीनवान् । धीङ् । धीनः । धीनवान् । मीङ् । मीनः । मीनवान् । रीङ् । रीणः । रीण- वान् । लीङ् । लीनः । लीनवान् । व्रीङ् । व्रीणः । व्रीणवान् ॥ क्षियो दीर्घात् ॥ ४६ ॥ क्षियो धातोर्दीर्घादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । क्षीणाः केशाः । क्षीणो जाल्मः । क्षीणस्तपस्वी । क्षियो निष्ठायामण्यदर्थे वा क्रोशदे- न्ययोरिति दीर्घत्वं भवति । दीर्घादिति किम् । क्षित्तमसि मामेतेष्ठाः । क्षित्तमिति क्तप्रत्ययो भावे । भावश्च ण्यदर्थ इति दीर्घाभावः । ह्रस्वान्त- स्यापि धात्वनुकरणस्य दृष्ट इयङा निर्देशः । क्षियो निष्ठायामण्यदर्थेत्यत्र दीर्घग्रहणं क्रियते विपराभ्यां जेरित्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यवि- वक्षितत्वाद् जिरूपसामान्यानुकरणं द्रष्टव्यम् ॥ श्यो ऽस्पर्शे ॥ ४७ ॥ श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवति । शीनं घृतम् । शीनं मेदः । शीना वसा । अस्पर्शइति किम् । शीतं वर्तते । शीतो वायुः । शीतमुकमित्यत्र गुणभूतोपि स्पर्शो नत्वप्रतिषेधस्य संप्रसारणस्य च निमित्तं भवति । गुणे च स्पर्शप्रतिषेधोयं न रोगे, तेन प्रतिशीन इत्यत्र नत्वं भवत्येव ॥ अञ्चो ऽनपादाने ॥ ४८ ॥ अञ्चतेरुत्तरपदस्य निष्ठातकारस्य नकारादेशो भवति न चेदपादानं तत्र भवति । समञ्चौ शकुनेः पादौ । तस्मात्पशवो न्यञ्चाः । अनपादानइति किम् । उदक्तमुदकं कूपात् । व्यक्तमित्येतदङ्गे रूपम् ॥ दिवो ऽविजिगीषायाम् ॥ ४९ ॥ दिव उत्तरस्य निष्ठातकारस्य नकारादेशो भवति अविजिगीषायामर्थे । प्रद्यूनः । परिद्यूनः । अविजिगीषायामिति किम् । द्यूतं वर्तते । विजिगीषया हि तत्राक्षपातनादि क्रियते ॥ निर्वाणो ऽवाते ॥ ५० ॥ निर्वाण इति निस्पूर्वाद्वातेरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते ।