काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 773, कुल 828 में से
संदर्भ में पढ़ें७७२ ॥ काशिका ॥ ८ ॥ २ ॥ न चेद्वाताधिकरणो वात्यर्थो भवति । निर्वाणोऽग्निः । निर्वाणः प्रदीपः । निर्वाणो भिक्षुः । अवात इति किम् । निर्वातो वातः । निर्वातं वातेन । निर्वाणः प्रदीपो वातेनेत्यत्र तु प्रदीपाधिकरणे वात्यर्थो वातस्तु तस्य करणमिति भवत्येव नत्वम् ॥ शुषः कः ॥ ५१ ॥ शुषेर्द्धातोरुत्तरस्य निष्ठातकारस्य ककारादेशो भवति । शुष्कः । शुष्कवान् ॥ पचो वः ॥ ५२ ॥ पचेर्द्धातोरुत्तरस्य निष्ठातकारस्य वकारादेशो भवति । पक्वः । पक्ववान् ॥ क्षायो मः ॥ ५३ ॥ क्षैधातोरुत्तरस्य निष्ठातकारस्य मकारादेशो भवति । क्षामः । क्षामवान् ॥ प्रस्त्योऽन्यतरस्याम् ॥ ५४ ॥ प्रपूर्वात् स्त्यायतेरुत्तरस्य निष्ठातकारस्यान्यतरस्यां मकारादेशो भवति । प्रस्तोमः । प्रस्तोमवान् । प्रस्तीतः । प्रस्तीतवान् । यदा मत्वं नास्ति तदा संयो- गादेरातो धातोर्र्यङ्वन इत्यस्य पूर्वत्रासिद्धत्वात् संप्रसारणं प्रथमं क्रियते । तत्र कृते निमित्तव्याघातान्नत्वं न भवति ॥ अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ॥ ५५ ॥ फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते न चेदुपसर्गादुत्तरा भवन्ति । फुल्ल इति जिफला विशरणइत्येतस्माद्धातोरुत्तरस्य निष्ठातकारस्य लकारो निपा- त्यते । उत्वमिड्भावश्च सिद्ध एव ॥ क्तवत्वन्तस्याप्येतल्लत्वमिष्यते ॥ फुल्लः । फुल्लवान् इति । क्षीबकृशोल्लाघा इति क्षीबकृशिभ्यामुत्पूर्वाच्च लाघेः क्तप्रत्ययस्य तलोप इडागमाभावश्च निपात्यते । कृते वा दृटि इच्छब्दलोपः । क्षीबः । कृशः । उल्लाघः । अनुपसर्गादिति किम् । प्रफुल्लाः सुमनसः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । लाघेरदन्त उपसर्गेः प्रतिषिध्यते ॥ उत्फुल्लसंफुल्लयोरिति वक्तव्य- म् ॥ * ॥ उत्फुल्लः । संफुल्लः । परिकृश इत्यत्र यः परिशब्दः स क्रियान्तरयो- गात्कृशं प्रत्यनुपसर्ग एव । परिगतः कृशः । परिकृश इति ॥ नुदविदोन्दत्राघ्राह्रीभ्यो ऽन्यतरस्याम् ॥ ५६ ॥ नुद विद उन्द् त्रा घ्रा ह्री इत्येतेभ्य उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम् । नुद । नुन्नः । नुत्तः । विद । विन्नः । वित्तः । उन्द् । समुन्नः । समुत्तः । त्रा । त्राणः । त्रातः । घ्रा । घ्राणः । घ्रातः । ह्री । ह्रीणः । ह्रीतः । ह्री इत्येतस्मादप्राप्तं नत्वमितरेषां नित्यं प्राप्तं विकल्प्यते ॥ विद्विचारणार्थस्य विदेरिह ग्रहणमिष्यते ॥ एवमुक्तम् ॥