काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 775, कुल 828 में से
संदर्भ में पढ़ें७७४ ॥ काशिका ॥ ८ ॥ २ ॥ क्विन्प्रत्ययस्य कुः ॥ ६२ ॥ पदस्येति वर्त्तते । क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते । क्विन्प्रत्ययो यस्माद्धातोः स क्विन्प्रत्ययः । तस्य पदस्यालोन्त्यस्य कवर्गादेशो भवति । स्पृशो ऽनुदके क्विन् । घृतस्पृक् । हलस्पृक् । मन्त्रस्पृक् । क्विनः कुरिति वक्तव्ये प्रत्य- यग्रहणं कृतं बहुव्रीहिविज्ञानार्थं, क्विन्प्रत्ययो यस्माद्विहितस्तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात् । मा नो ऽस्राक् । मा नो ऽद्राक् । सृजिदृशिभ्यां हि क्विन्विहितः तयोर्लुङि कुत्वमेतत् । माङ्योगेपि छान्दसत्वादडागमः ईडपि न भवति । बहुलं छन्दसीति । तथा दृग्भ्यां दृग्भिरिति । क्विबन्तस्यापि दृशेः कुत्वं भवति । एवं च सति रज्जुसद्भ्यामित्यत्रापि कुत्वं प्राप्नोति । अथ तु नेष्यते । ततस्तत्प्रतिविधातव्यमिति ॥ नशोर्वा ॥ ६३ ॥ पदस्येति वर्त्तते । नशः पदस्य वा कवर्गादेशो भवति । सा वै जीवन- गाहुतिः । सा वै जीवनडाहुतिः । नशेरयं संपदादित्वाद् भावे क्विप् । जीवस्य नाशो जीवनक् । जीवनट् । षत्वे प्राप्ते कुत्वविकल्पः ॥ मो नो धातोः ॥ ६४ ॥ मकारान्तस्य धातोः पदस्य नकारादेशो भवति । प्रशान् । प्रतान् । प्रदान् । शमितामिदमादीनां क्विप् । अनुनासिकस्य क्विझलोः क्ङितीति दीर्घत्व- म् * । नत्वस्यासिद्धत्वाच्चलोपो न भवति । म इति किम् । भित् । कित् । धातोरिति किम् । इदम् । किम् । पदस्येत्येव प्रतामौ । प्रतामः ॥ म्वोश्च ॥ ६५ ॥ मकारवकारयोश्च परतः मकारान्तस्य धातोर्नकारादेशो भवति । अगन्म तमसः पारम् । अगन्व । गमेर्लङि बहुलं छन्दसीति शपो लुक् । जगन्वान् । वि- भाषा गमहनजनविदविशामिति क्वसाविडागमस्याभावः । अपदान्तार्थ आरम्भः ॥ ससजुषो रुः ॥ ६६ ॥ सकारान्तस्य पदस्य सजुष् इत्येतस्य च रुर्भवति । सकारान्तस्य । अग्निरत्र । वायुरत्र । सजुषः । सजूर्ऋषिभिः । सजूर्द्देवेभिः । जुषेः क्विपि सपूर्वस्य रूपमेतत् ॥ अवयाः श्वेतवाः पुरोडाश्च ॥ ६७ ॥ अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते । अवपूर्वस्य यजेः श्वेतपूर्वस्य वहेः पुरस्पूर्वस्य दाशतेः मन्त्रे श्वेतवहोक्थशस्पुरोडाशो क्विन् । अव यज इति
- शमितादीनामित्यारभ्य दीर्घत्वमित्यन्तः पाठः पुस्तकान्तरे नास्ति ।