काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 779, कुल 828 में से
संदर्भ में पढ़ेंभवितव्यम् । अदद्ध्यङ् । अदद्ध्यञ्चौ । अदद्ध्यञ्च इति । दादिति किम् । अलोन्त्यस्य मा भूत् । अमुया । अमुयोः ॥ एत ईद्बहुवचने ॥ ८१ ॥ अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति दकारस्य च मकारः बहुवचने बहूनामर्थानामुक्तौ । अमी । अमीभिः । अमीभ्यः । अमीषाम् । अमीषु । बहुवचनइत्यर्थनिर्देशोऽयं, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे ऽमी इत्यत्र न स्यात् ॥ वाक्यस्य टेः प्लुत उदात्तः ॥ ८२ ॥ अधिकारोयम् । वाक्यस्य टेरिति प्लुत इति च उदात्त इति च एतत्त्रय- मप्यधिकृतं वेदितव्यमापादपरिसमाप्ते, र्यदित ऊर्ध्वमनुक्रमिष्यामो वाक्यस्य टेः प्लुत उदात्त इत्येवं तद्वेदितव्यम् । वक्ष्यति । प्रत्यभिवादेऽशूद्रे । अभिवादये देव- दत्तोऽहं, भो आयुष्मानेधि देवदत्त ३ । पदाधिकारोनुवर्त्ततएव । वाक्यग्रहणम- ऽनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम् । टिग्रहणं व्यञ्जनान्तस्यापि टेरचः प्लुतो यथा स्यात् । अग्निचि ३ दिति ॥ प्रत्यभिवादे ऽशूद्रे ॥ ८३ ॥ प्रत्यभिवादो नाम यदत्राभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते तत्राशूद्रवि- षये यद्वाक्यं वर्त्तते तस्य टेः प्लुत उदात्तो भवति । अभिवादये देवदत्तोऽहं, भो आयुष्मानेधि देवदत्त ३ । अशूद्रइति किम् । अभिवादये तुषजकोऽहं, भो आयुष्मानेधि तुषजक ॥ स्त्रियामपि प्रतिषेधो वक्तव्यः ॥ * ॥ अभिवादये गार्ग्यहं, भो आयुष्मती भव गार्गि । असूयकेऽपि के चित् प्रतिषेधमिच्छन्ति । अभिवादये स्थाल्यहं भोः । आयुष्मानेधि स्थालिन् । यावच्च तस्यासूयकत्वं न ज्ञायते तावदेव प्रत्यभिवादवाक्यम् । तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवाद एव नास्ति कुतः प्लुतः तथा चोक्तम्, असूयकस्त्वं जाल्म न त्वं प्रत्यभिवादन- मर्हसि । भिद्धास्व वृषल स्थालिचिरिति ॥ अभिवादवाक्ये यत् संकीर्त्तितं नाम गोत्रं वा तद् यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुत इष्यते ॥ इह न भवति । देवदत्त कुशल्यसि । देवदत्त आयुष्मानेधीति ॥ भोराजन्यविशां चेति वक्तव्यम् ॥ * ॥ भो अभिवादये देवदत्तोऽहम्, आयुष्मानेधि देवदत्त भोः ३ । आयुष्मानेधि देवदत्त भोः । राजन्य । अभिवादये इन्द्रवर्म्मोऽहं भोः । आयुष्मा- नेधीन्द्रवर्म्म ३ न् । आयुष्मानेधीन्द्रवर्म्मन् । विश् । अभिवादये इन्द्रपालितोऽहं भोः । आयुष्मानेधीन्द्रपालित ३ । आयुष्मानेधीन्द्रपालित ॥ दूराद्धूते च ॥ ८४ ॥