काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 778, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ २ ॥ ४०७ उपधायां च ॥ ७८ ॥ हलीत्यनुवर्त्तते । धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति । हूर्च्छा । मूर्च्छिता । मूर्च्छा । मूर्च्छिता । ऊर्वी । ऊर्विता । धूर्वी । धूर्विता । हलीत्येव । चिरि, जिरि । चिरिणोति । जिरिणोति । इह कस्मान्न भवति । री गतौ । रियतुः । रियुः । वी गत्यादिषु । विव्यतुः । विव्युरिति । यणादेशस्य स्थानिवत्त्वाद् असिद्धत्वाच्च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः । चतुरित्यत्रापि बहिरङ्गलक्षणत्वादतो लोपस्य धातोरुपधाभूतो रेफो न भवति । प्रतिदीव्नेत्यत्र तु हलि चेति दीर्घत्वम् । दीर्घविधौ लोपा- जादेशस्य स्थानिवद्भावप्रतिषेधात् । असिद्धं बहिरङ्गमन्तरङ्गे इत्येतत्तु नाश्रीयित- व्यम् । उणादयो