काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 782, कुल 828 में से
संदर्भ में पढ़ेंइति केन चित्प्रतिज्ञातं तमुपालिप्सुरुपपत्तिभिर्निगृह्य साध्यसूयमनुयुङ्क्ते । अनित्यः शब्द इत्यात्थ ३ । अनित्यः शब्द इत्यात्थ । अद्य श्राद्धमित्यात्थ३ । अद्य श्राद्धमित्यात्थ । अद्यामावास्येत्यात्थ३ । अद्यामावास्येत्यात्थ । अद्य अमावास्येत्येवं वादी युक्त्या प्रत्याय्य स्वमतादेवमनुयुज्यते ॥ आम्रेडितं भर्त्सने ॥ ९५ ॥ वाक्यादेरामन्त्रितस्यैत भर्त्सने द्विर्वचनमुक्तं तस्याम्रेडितं प्लवते । चौर- चौर ३, वृषलवृषल ३, दस्योदस्यो ३, घातयिष्यामि त्वा बन्धयिष्यामि त्वा ॥ भर्त्सने पर्यायेणेति वक्तव्यम् ॥ * ॥ चौर ३ चौर । चौरचौर ३ । तदर्थमाम्रे- डितग्रहणं द्विरुक्तोपलक्षणार्थं वर्णयन्ति ॥ अङ्गयुक्तं तिङाकाङ्क्षम् ॥ ९६ ॥ अङ्गेत्यनेन युक्तं तिङन्तमाकाङ्क्षतं भर्त्सने प्लवते । अङ्ग कूज ३ । अङ्ग व्याहर ३ । इदानीं ज्ञास्यसि जाल्म । तिङिति किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षमिति किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सनइत्येव । अङ्गाधीष्व ओदनं ते दास्यामि ॥ विचार्यमाणानाम् ॥ ९७ ॥ प्रमाणेन वस्तूपरीक्षणं विचारः । तस्य विषये विचार्यमाणानां वाक्यानां टेः प्लुतो भवति । होतव्यं दीक्षितस्य गृहा३इ । होतव्यं न होतव्यमिति विचा- र्यते । तिष्ठेद्यूपा ३ इ । अनुप्रहरेद्यूपा ३ इ । यूपे तिष्ठेद्यूपे अनुप्रहरेदिति विचार्यते ॥ पूर्वं तु भाषायाम् ॥ ९८ ॥ भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु ३ । रज्जुर्नु । लोष्टो नु ३ । कपोतो नु * । प्रयोगायत्तं पूर्वत्वम् । इह भाषाग्रहणात्पूर्वयो- गश्छन्दसि विज्ञायते ॥ प्रतिश्रवणे च ॥ ९९ ॥ प्रतिश्रवणमभ्युपगमः प्रतिज्ञानम् । श्रवणाभिमुख्यं च तत्राविशेषात्स- र्वस्य ग्रहणम् । प्रतिश्रवणे यद्वाक्यं वर्त्तते तस्य टेः प्लुतो भवति । गां देहि भोः, अहं ते ददामि ३ । नित्यः शब्दो भवितुमर्हति । देवदत्त भोः किमात्थ ३ ॥ अनुदात्तं प्रश्नान्ताभिपूजितयोः ॥ १०० ॥ अनुदात्तः प्लुतो भवति प्रश्नान्ते अभिपूजिते च † । अगम३ः पूर्वा३म्
- स्थाणुर्नु३ । पुरुषो नु३ । इत्याधिकं पुस्तकान्तरे । † नानेन प्लुतो विधीयते किं तु दूराद्धूतादिषु विहितस्यानन्त्यस्यापि प्रश्नाख्यानयो- रिति स्वरितप्लुतस्यानुदात्तत्वं गुणमात्रं विधीयते इत्याधिकं पुस्तकान्तरे ।