काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 783, कुल 828 में से
संदर्भ में पढ़ें७८२ ॥ काशिका ॥ ८ ॥ २ ॥ शामाइन् अग्निभूत ३ इ । पटा ३ उ । अग्निभूते पटो इत्येतयोः प्रश्नान्ते वर्त- मानयोरनुदात्तः प्लुतो भवति । अगम इत्येवमादीनां तु अनन्त्यस्यापि प्रश्नाख्या- नयोरिति स्वरितः प्लुतो भवति । अभिपूजिते । शोभनः खल्वसि माणवक ३ । चिदिति चोपमार्थे प्रयुज्यमाने ॥ १०१ ॥ अनुदात्तमिति वर्तते । चिदित्येतस्मिन्निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेरनुदात्तः प्लुतो भवति । प्लुतोऽप्यत्र विधीयते न गुणमात्रम् । अग्निचिद्भाया ३ त् । राजचिद्भायात् ३ । अग्निरिव भायात् । राजेव भायादित्यर्थः । उपमार्थेति किम् । कथं चिदाहुः । प्रयुज्यमानइति किम् । अग्निर्मााणवको भायात् ॥ उपरिस्विदासीदिति च ॥ १०२ ॥ अनुदात्तमिति वर्तते । उपरिस्विदासीत्येतस्य टेरनुदात्तः प्लुतो भवति । अधः स्विदासी ३ त् । उपरि स्विदासी ३ त् । अधः स्विदासीदित्यत्र विचा- र्यमाणानामित्युदात्तः प्लुतः । उपरिस्विदासीदित्यत्र तु अनेनानुदात्तः ॥ स्वरितमाम्रेडितेसूयासंतिकोपकुत्सनेषु ॥ १०३ ॥ स्वरितः प्लुतो भवति आम्रेडिते परतः असूयायां संमतौ कोपे कुत्सने च गम्यमाने । वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेष्विति द्विर्व- चनमुक्तं तत्रायं प्लुतविधिः । असूयायां तावत् । माणवक ३ माणवक । अभिरू- पक ३ अभिरूपक रिक्तं तत्राभिरूप्यम् । संमतौ । माणवक ३ माणवक अभि- रूपक ३ अभिरूपक शोभनः खल्वसि । कोपे । माणवक ३ माणवक अविनीत- क ३ अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक ३ शाक्तीक याष्टी- क ३ याष्टीक रिक्ता ते शक्तिः ॥ असूयादिषु वावचनं कर्तव्यम् ॥ * ॥ माण- वक माणवकेत्येवमाद्यपि यथा स्यात् ॥ क्रियाशीः प्रैषेषु तिङाकाङ्क्षम् ॥ १०४ ॥ स्वरित इति वर्तते । क्रिया चाचारभेदः । आशीः प्रार्थनाविशेषः । [L