काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 784, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ । २ ॥ ७८३ अनन्त्यस्यापि प्रश्नाख्यानयोः ॥ १०५ ॥ पदस्येति वर्तते स्वरितमिति च । अनन्त्यस्यापि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्ने आख्याने च । आगम ३: ३ पूर्वा ३ न्यामा ३ न् । अग्निभूत ३ इ । पट ३ उ । सर्वेषामेव पदानामेष स्वरितः प्लुतः । अन्त्यस्य 'अनुदात्तं प्रश्ना- न्ताभिपूजितयोरिति' । अनुदात्तोऽपि पक्षे भवति । आख्याने । आगम ३: पूर्वा ३- न्यामा ३ न्भोः ३ ॥ प्लुतावैच इदुतौ ॥ १०६ ॥ दूराद्धूतादिषु प्लुतो विहितः तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूताविदुतौ प्लुतौ । ऐ ३ तिकायन । औ ३ पगव । अत्र यदैवर्णौवर्णयोरवर्णस्य च समवि- भागस्तदा इदुतौ द्विमात्रत्वेन प्लुतौ क्रियेते । प्लुताविति हि क्रियानिमित्तोऽयं व्यपदेशः इदुतौ प्लवेते वृद्धिं गच्छत इत्यर्थः । तावती च स प्रतिर्भवति । यया तावैचौ द्विमात्रौ संपद्येते । यदा त्वर्धमात्रावर्णस्याध्यर्धमात्रा इवर्णोवर्णयोस्तदा तावर्धतृतीयमात्रौ क्रियेते इति । भाष्ये तूक्तमिष्यते चतुर्मात्रः प्लुत इति । तत्कथं, समप्रविभागपक्षे इदुतोरनेन द्विमात्रः प्लुतो विधीयते ॥ एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ ॥ १०७ ॥ एचो ऽप्रगृह्यस्यादूराद्धूते प्लुतविषयस्यार्द्धस्याकार आदेशो भवति च स प्लुतः, उत्तरस्येकारोकारौवादेशौ भवतः । विषयपरिगणनं कर्त्तव्यम् ॥ प्रश्नान्ताभि- पूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम् ॥ * ॥ प्रश्नान्ते । अग- म३: पूर्वा३न् यामा३न् अग्निभूता३इ । पटा३उ । अभिपूजिते । भद्रं करोषि माणवक३ अग्निभूता३इ । पट३उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह३इ । प्रत्यभिवादे । आयुष्मान्नेधि अग्निभूता३इ । पट३उ । याज्यान्ते । उक्षानाय वशानाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमानाय३इ । सोयमाकारः प्लुतो यथा- विषयमुदात्तो ऽनुदात्तः स्वरितो वेदितव्यः । इदुतौ पुनरुदात्तावेवं भवतः । परिगणनं किम् । विष्णुभूते विष्णुभूते३ घातयिष्यामि त्वा । आगच्छ भो माणवक विष्णुभूते । परिगणने च सत्यदूराद्धूतइति न वक्तव्यम् । पदान्तग्रहणं तु कर्त्त- व्यम् । इह मा भूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्येति किम् । शोभने खलु स्याःखट्वे३ ॥ चामन्त्रिते छन्दसि प्लुतविकारोयं वक्तव्यः ॥ * ॥ अग्न३,२ पत्नीव३ः ॥ तयोर्खावचि संहितायाम् ॥ १०८ ॥ तयोरिवुतौर्यकारवकारादेशौ भवतो ऽचि संहितायां विषये । संहि- तायामित्येतच्चाधिकृतमिति उत्तरमाध्यायपरिसमाप्तेर्यद्वक्ष्यामः संहितायामि-