काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 789, कुल 828 में से
संदर्भ में पढ़ेंभो भगो अघो इत्येवंपूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परतः । भो अत्र । भगो अत्र । अघो अत्र । भो ददाति । भगो ददाति । अघो ददाति । अवर्णपूर्वस्य । क आस्ते । कय् आस्ते । ब्राह्मणा ददति । पुरुषा ददति । भोभगोअघोअपूर्वस्येति किम् । अग्निरत्र । वायुरत्र । अश्ग्रहणं किम् । वृक्षः । प्लक्षः । नैतदस्ति । संहिता यामित्यनुवर्त्तते । तर्हि अश्ग्रहणं मुत्तरार्थम् । हलि सर्वेषामित्ययं लोपो ऽशि हलि यथा स्यात् । इह मा भूत् । वृक्षं वृश्चतीति वृक्षवृट्, तमाचष्टे यः स वृक्षव्रयति । वृक्षव्रयतेरप्रत्ययः, वृक्षव् करोति । अथ तत्रैव अश्ग्रहणं कस्मान् न कृतम् । उत्तरार्थम् । मोनुस्वार इति हल्मात्रेयथा स्यात् । व्योर्लघुप्रयत्नतरः । शाकटायनस्य लोपः शाकल्यस्येत्येतच्च वृक्षव् करोतीत्यत्र मा भूदित्यश्ग्रहणम् । रोरित्येव । प्रातरत्र । पुनरत्र ॥ व्योर्लघुप्रयत्नतरः शाकटायनस्य ॥ १८ ॥ वकारयकारयोर्भोभगोअघोअवर्णपूर्व्वयोः पदान्तयोर्लघुप्रयत्नतर आदेशो भवति अशि परतः शकटायनस्याचार्य्यस्य मतेन । भगोयत्र । अघोयत्र । क आस्ते । कयास्ते । अस्मायुड्डुर । अस्मा उड्डुर । असावादित्यः । असा बादित्यः । द्वावत्र । द्वा अत्र । द्वावानय । द्वा आनय । लघुप्रयत्नतरत्व- मुच्चारणे स्थानकरणशैथिल्यम् । स्थानं ताल्वादि । करणं जिह्वामूलादि । तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता ॥ लोपः शाकल्यस्य ॥ १९ ॥ वकारयकारयोः पदान्तयोरवर्णपूर्वयोर्लोपो भवति शाकल्यस्याचार्य्यस्य मतेनाशि परतः । क आस्ते । कयास्ते । काक आस्ते । काकयास्ते । अस्मा उड्डुर । अस्मायुड्डुर । द्वावत्र । द्वा अत्र । असावादित्यः । असा आदित्यः । शाकल्यग्रहणं विभाषार्थम् । तेन यदापि लघुप्रयत्नतरो न भवत्यादेशस्तदापि व्योः पक्षे श्रवणं भवति ॥ ओतो गार्ग्यस्य ॥ २० ॥ ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्याचार्य्यस्य मतेन अशि परतः । भो अत्र । भगो अत्र । भो इदम् । भगो इदम् । नित्यार्थेयमारम्भः । गार्ग्यग्रहणं पूजार्थम् । योयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सोनेन निव- र्त्त्यते । लघुप्रयत्नतरस्तु भवत्येव यकारः । भो अत्र । भोयत्र । भगो अत्र । भगोयत्र । अघो अत्र । अघोयत्र । के चित्तु सर्वमेव यकारमत्र नेच्छन्ति ॥ उञि च पदे ॥ २१ ॥ अवर्णपूर्वयोः व्योः पादान्तयोर्लोपो भवति उञि च पदे परतः । स