काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 794, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ ३ ॥ ७९३ पुम्मुहुसोः प्रतिषेधोवक्तव्यः ॥ * ॥ पुंस्कामा । मुहुस् कामा । * नैष्कुल्यम् । दौष्कुल्यम् । नि ३ ष्कुलम् । दु ३ ष्कुलम् । दु ३ ष्पुरुषः । बहिरङ्गलक्षणयोर्वृद्ध्यु- तयोरसिद्धत्वात्षत्वं प्रवर्त्तते ॥ तिरसोन्यतरस्याम् ॥ ४२ ॥ तिरसो विसर्जनीयस्यान्यतरस्यां सकारादेशो भवति कुप्वोः परतः । तिरस्कर्त्ता । तिरस्कर्त्तव्यम् । तिरःकर्त्ता । तिरःकर्त्तुम् । तिरःकर्त्तव्यम् । गतेरित्- येव । तिरः कृत्वा काण्डं गतः ॥ द्वित्रिश्चतुरिति कृत्वोर्थे ॥ ४३ ॥ ष इति संबद्धयते । द्विस ् त्रिस ् चतुर ् इत्येतेषां कृत्वोर्थे वर्त्तमानानां विसर्जनीयस्य षकार आदेशो भवति अन्यतरस्यां कुप्वोः परतः । द्विः करोति । द्विष्करोति । त्रिः करोति । त्रिष्करोति । चतुष्करोति । चतुः करोति । द्विः पचति । द्विष्पचति । त्रिः पचति । त्रिष्पचति । चतुः पचति । चतुष्पचति । कृत्वोर्थेइति किम् । चतुष्कपालम् । चतुष्काटकम् । पूर्वेण नित्यं षत्वं भवति । इदुदुपधस्येत्यस्यानुवृत्तौ सत्यां कृत्वोर्थविशेषेण च पदेन विसर्जनीये विशेष्य- माणे द्वित्रिश्चतुरिति शक्यमकर्त्तुम् । कृत्वसुजर्थे षत्वं ब्रवीति कस्माच्चतुष्कपाले मा । षत्वं विभाषया भून्ननु सिद्धं तच्च पूर्वेण ॥ सिद्धे ह्ययं विधत्ते चतुरः षत्वं यदापि कृत्वोर्थे । लुप्ते कृत्वोर्थीये रेफस्य विसर्जनीयो हि ॥ एवं सति त्विदानीं द्वित्रिश्चतुरित्यनेन किं कार्यम् । अन्यो हि नेदुदुपधः कृत्वोर्थः कश्चिदप्यस्ति ॥ अक्रियमाणे ग्रहणे विसर्जनी यस्तदा विशेष्येत । चतुरो न सिध्यति तथा रेफस्य विसर्जनीयो हि ॥ तस्मिंस्तु क्रियमाणे युक्तं चतुरो विशेषणं भवति । प्रकृतं पदं तदन्तं तस्यापि विशेषणं न्याय्यम् ॥ एवं च क्रियमाणे द्वित्रिश्चतुर्ग्रहणे चतुःशब्दस्य कृत्वोर्थे ऽपि वर्त्तमा- नस्य पूर्वेणैव नित्यं षत्वं स्यात् । पूर्वत्रासिद्धे नास्ति प्रतिषेधो ऽभावादुत्तरस्य ॥
- पुस्तकान्तरे मुहुःकामेति पाठः, स एव च युक्तः, अत एव पदमञ्जर्यां मुहुःकामे- ति प्रतीकमुपादाय कुप्वो ॱकॱपौ चेत्येष एव विधिर्भं गति क्व चित्तु मुहुस्कामेति पठ्यते, सोऽपाठः, नह्यत्र सत्यसंभवः सूत्रवार्तिकयोरनिबद्धत्वादित्युक्तम् ।