भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 795, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 795

७६४ ॥ काशिका ॥ ८ ॥ ३ ॥ इसुसोः सामर्थ्ये ॥ ४४ ॥ ष इति संबद्धयते । इस् उस् इत्येतयोर्विसर्जनीयस्यान्यतरस्यां षकारा- देशो भवति सामर्थ्ये कुप्वोः परतः । सर्पिष्करोति । सर्पिः करोति । यजु- करोति । यजुष्करोति । सामर्थ्य इति किम् । तिष्ठतु सर्पिः पिबत्वमुदकम् । सामर्थ्यमिह व्यपेक्षा । न पुनरेकार्थीभावः उभयं वा ॥ नित्यं समासे ऽनुत्तरपदस्थस्य ॥ ४५ ॥ इसुसोरिति वर्त्तते । समासविषये इसुसोर्विसर्जनीयस्यानुत्तरपदस्थस्य नित्यं षत्वं भवति कुप्वोः परतः । सर्पिष्कुण्डिका । धनुष्कपालम् । सर्पिष्पा- नम् । धनुष्फलम् । अनुत्तरपदस्थस्येति किम् । परमसर्पिःकुण्डिका । परमधनुःक- पालम् । पूर्वसूत्रेण विकल्पोऽप्यत्र न भवति । एतदेवानुत्तरपदस्थस्येति वचनं ज्ञापकमिपुसोः प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरित्ययं नियमो न भवति । तेन वाक्येऽपि । परमसर्पिष्करोति । परमसर्पिः करोति । इसुसोः सामर्थ्य इत्ये- तद्वर्त्तते । व्यपेक्षा च तत्र सामर्थ्यमाश्रितमिति समासे न भवति ॥ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ॥ ४६ ॥ चकारादुत्तरस्य अनव्ययविसर्जनीयस्य समासेऽनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः । कृ । अयस्कारः । पयस्कारः । कमि । अयस्कामः । पयस्कामः । कंस । अयस्कंसः । पयस्कंसः । कुम्भ । अयस्कुम्भः । पयस्कुम्भः । अयस्कुम्भी पयस्कुम्भीत्यत्रापि भवति प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीति । पात्र । अय- स्पात्रम् । पयस्पात्रम् । अयस्पात्री । पयस्पात्री । कुशा । अयस्कुशा । पयस्कुशा । कर्णी । अयस्कर्णी । पयस्कर्णी । शुनस्कर्ण इत्ययं तु कस्कादिषु द्रष्टव्यः । अत इति किम् । गीः कारः । धूःकारः । तपरकरणं किम् । भाःकरणम् । भास्कर इत्ययं तु कस्कादिषु द्रष्टव्यः । अनव्ययस्येति किम् । स्वःकारः । पुनःकारः । समास इत्येव । यशः करोति । पयः करोति । यशः कामयते । अनुत्तरपदस्थस्येत्येव । परमपयःकारः । परमपयःकामः ॥ अधःशिरसी पदे ॥ ४७ ॥ अधस् शिरस् इत्येतयोर्विसर्जनीयस्य समासेऽनुत्तरपदस्थस्य सकार आदेशो भवति पदशब्दे परतः । अधस्पदम् । शिरस्पदम् । अधस्पदी । शिर- स्पदी । समास इत्येव । अधः पदम् । अनुत्तरपदस्थस्येत्येव । परमशिरःपदम् । अधस्पदमिति मयूरव्यंसकादित्वात्समासः ॥ कस्कादिषु च ॥ ४८ ॥

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 795, कुल 828 में से · BharatKosha