भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 796, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 796

॥ काशिका ॥ ८ ॥ ३ ॥ ७९५ कस्क इत्येवमादिषु च विसर्जनीयस्य सकारः षकारो वा यथायोगमा- देशो भवति कुप्वोः परतः । कस्कः । कौतस्कुतः । कुत आगत इत्यण् । भ्रातु- ष्पुत्रः । शुनस्कर्णः । सद्यस्कालः । सद्यस्क्रीः । क्रीणातेरयं संपदादित्वात्क्विप्प्र- त्ययः । तत्र भवः क्रतुः । साद्यस्क्रः । कांस्कान् । कानाम्रेडितइति रुत्वमत्र । सर्पिष्कुण्डिका । धनुष्कपालम् । बर्हिष्षूलम् । यजुष्पात्रमित्येषां पाठ उत्तरप- दस्थस्यापि षत्वं यथा स्यादिति । परमसर्पिः फलमित्येवमादिप्रत्युदाहरणा- दिति पारायणिका आहुः । भाष्ये वृत्तौ च नित्यं समासे ऽनुत्तरपदस्थेत्यत्र परमसर्पिःकुण्डिकेत्येतदेव प्रत्युदाहरणम् । अयस्काण्डः । मेदस्पिण्डः । अवि- हितलक्षण उपचारः कस्कादिषु द्रष्टव्यः ॥ छन्दसि वा ऽप्राम्रेडितयोः ॥ ४९ ॥ छन्दसि विषये विसर्जनीयस्य वा सकारादेशो भवति कुप्वोः परतः प्रशब्दं आम्रेडितं वर्जयित्वा । अयःपात्रम् । अयस्पात्रम् । विश्वतः पात्रम् । विश्वतस्पात्रम् । उरुणःकारः । उरुणस्कारः । अप्राम्रेडितयोरिति किम् । अग्नीःप्र विद्धान् । परुषः परुषः परि ॥ सूर्यरश्मिर्हरिकेशः पुरस्तात् । स नः पावक इत्येवमादिषु सर्वे विधयश्छन्दसि विकल्प्यन्तइति सत्वं न भवति ॥ कःकरत्करतिकृधिकृतेष्वनदितेः ॥ ५० ॥ कः करत् करति कृधि कृत इत्येतेषु परतः अनदितेर्विसर्जनीयस्य सका- रादेशो भवति छन्दसि विषये । कः । विश्वतस्कः । करत् । विश्वतस्करत् । करति । पयस्करति । कृधि । उरुणस्कृधि । कृत । सदस्कृतम् । अनदितेरिति किम् । यथा नो अदितिः करत् ॥ पञ्चम्याः परावध्यर्थे ॥ ५१ ॥ छन्दसीत्येव । पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतः आध्यर्थे । दिवस्परि प्रथमं जज्ञे । अग्निरिहमवतस्परि । दिवस्परि । महस्परि । पञ्चम्या इति किम् । अहिरिव भोगैः पर्येति बाहुम् । पराविति किम् । इभ्यो वा एतल्लोकेभ्यः प्रजापतिः समैरयत् । अध्यर्थेइति किम् । दिवः पृथिव्याः पर्योज उद्भृतम् । अत्र परिः सर्वतोभावे चाध्यर्थः उपरिभावः ॥ पातौ च बहुलम् ॥ ५२ ॥ पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकार आदेशो भवति छन्दसि विषये । दिवस्पातु । राज्ञस्पातु । न च भवति । परिषदः पातु ॥ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ॥ ५३ ॥ षष्ठीविसर्जनीयस्य सकारादेशो भवति पति पुत्र पृष्ठ पार पद पयस्