काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 797, कुल 828 में से
संदर्भ में पढ़ेंपोष इत्येतेषु परतः छन्दसि विषये । वाचस्पतिं विश्वकर्माणमूतये । पुत्र । दिवस्पुत्राय सूर्याय । पृष्ठ । दिवस्पृष्ठे धावमानं सुपर्णम् । पार । अगन्म तमस- स्पारम् । पद । इडस्पदे समिध्यसे । पयस् । सूर्ये चक्षुर्द्दिवस्पयः पोष । राय- स्पोषं यजमानेषु धत्तम् । षष्ठ्य इति किम् । मनुः पुत्रेभ्यो दायं व्यभजत् ॥ इडाया वा ॥ ५४ ॥ इडायाः षष्ठीविसर्जनीयस्य वा सकार आदेशो भवति पत्यादिषु परत- श्छन्दसि विषये । इडायास्पतिः । इडायाः पतिः । इडायास्पुत्रः । इडायाः पुत्रः । इडायास्पृष्ठम् । इडायाः पृष्ठम् । इडायास्पारम् । इडायाः पारम् । इडायास्पदम् । इडायाः पदम् । इडायास्पयः । इडायाः पयः । इडायाः पोषम् । इडायास्पोषम् ॥ अपदान्तस्य मूर्द्धन्यः ॥ ५५ ॥ पदाधिकारो निवृत्तः । अपदान्तस्येति मूर्द्धन्य इति चैतदधिकृतं वेदि- तव्यम् । आपादपरिसमाप्तेः । वक्ष्यति । आदेशप्रत्यययोः । सिषेव । सुष्वाप । अग्निषु । वायुषु । अपदान्तस्येति किम् । अग्निस्तत्र । वायुस्तत्र । ष इत्येवं सिद्धे मूर्द्धन्यग्रहणं ठकारार्थम् । अक्रुष्ठम् । चक्रुष्ठे ॥ सहेः साढः सः ॥ ५६ ॥ सहेर्धातोः साड्रूपस्य यः सकारस्तस्य मूर्द्धन्य आदेशो भवति । जला- षाट् । तुराषाट् । पृतनाषाट् । सहेरिति किम् । सह डेन वर्तते सडस्संस्था- पत्यं साढिः । साड्ग्रहणं किम् । यत्रास्यैतद्रूपं तत्र यथा स्यात् । इह मा भूत् । जलासाहम् । तुरासाहम् । स इति किम् । आकारस्य मा भूत् ॥ इण्कोः ॥ ५७ ॥ इण्कोरित्येतदधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः इणः कवँर्गाच्चे- त्येवं तद्वेदितव्यम् । वक्ष्यति । आदेशप्रत्यययोः । सिषेव । सुष्वाप । अग्निषु । वायुषु । कर्तृषु । हर्तृषु । गीर्षु । धूर्षु । वाक्षु । त्वक्षु । इण्कोरिति किम् । दास्यति । असौ ॥ नुम्विसर्जनीयशर्व्यवायेपि ॥ ५८ ॥ नुम्व्यवायेपि विसर्जनीयव्यवायेपि शर्व्यवायेपि इण्कोरुत्तरस्य सकारस्य मूर्द्धन्यादेशो भवति । व्यवायशब्दः प्रत्येकमभिसंबद्ध्यते । नुम्व्यवाये तावत् । सर्पींषि । यजूंषि । हवींषि । विसर्जनीयव्यवाये । सर्पिःषु । यजुःषु । हविःषु । शर्व्यवाये । सर्पिष्षु । यजुष्षु । हविष्षु । नुमादिभिः प्रत्येकं व्यवाये षत्वमि- ष्यते न समस्तैः ॥ तेनेह न भवति । निंस्से । निंस्व इति । णिंसि चुम्बन- इत्येतस्यैतद्रूपम् । अत्र हि नुमा सकारेण च शरा व्यवधानम् ॥