काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 806, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ ३ ॥ ८०५ एकारपरस्य सकारस्य मूर्द्धन्यादेशो भवति इण्कोरुत्तरस्यागकारात्परस्य संज्ञायां विषये । हरिषेणः । वारिषेणः । जानुषेणः । एतीति किम् । हरिसे- क्यम् । संज्ञायामिति किम् । पृथ्वी सेना यस्य स पृथुसेनो राजा । अगादिति किम् । विष्वक्सेनः । इण्कोरित्येव । सर्वसेनः ॥ नक्षत्राद्वा ॥ १०० ॥ नक्षत्रवाचिनः शब्दादुत्तरस्य सकारस्य वा एति संज्ञायामगकाराद् मूर्द्धन्यो भवति । रोहिणीषेणः । रोहिणीसेनः । भरणीषेणः । भरणीसेनः । अगकारादित्येव । शतभिषक्सेनः । अविहितलक्षणो मूर्द्धन्यः सुषामादिषु द्रष्टव्यः ॥ ह्रस्वात्तादौ तद्धिते ॥ १०१ ॥ ह्रस्वादुत्तरस्य सकारस्य मूर्द्धन्यादेशो भवति तादौ तद्धिते परतः । तर तम तय त्व तल् तस् त्यप् एतानि प्रयोजयन्ति । तर । सर्पिष्टरम् । यजुष्ट- रम् । तम । सर्पिष्टमम् । यजुष्टमम् । तय । चतुष्टये ब्राह्मणानां निकेताः । त्व । सर्पिष्ट्वम् । यजुष्ट्वम् । तल् । सर्पिष्टा । यजुष्टा । तस् । सर्पिष्टो यजुष्टः । त्यप् । आविष्ट्यो वर्तते । ह्रस्वादिति किम् । गीस्तरः । धूस्तरः । तादाविति किम् । सर्पिस्साद्भवति । प्रत्ययसकारस्य स्यात्पदाद्योरिति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात् । तद्धितइति किम् । सर्पिस्तरति ॥ तिङन्तस्य प्रतिषेधो वक्तव्यः ॥ * ॥ भिन्दुस्तराम् । छिन्दुस्तराम् ॥ निसस्तपतावनासेवने ॥ १०२ ॥ निसः सकारस्य मूर्द्धन्यादेशो भवति तपतौ परतोऽनासेवनेऽर्थे । आसेवनं पुनःपुनःकरणम् । निष्टपति सुवर्णम् । सकृदग्निं स्पर्शयतीत्यर्थः । अनासेवनइति किम् । निस्तपति सुवर्णं सुवर्णकारः । पुनः पुनरग्निं स्पर्शयतीत्यर्थः । विष्टप्तं रक्षो निष्टप्ता अरातय इत्यत्र सदप्यासेवनं न विवक्ष्यते । छान्दसो वा वर्णविकारः ॥ युष्मत्तत्तत्तुःष्वन्तःपादम् ॥ १०३ ॥ युष्मत् तत् तततुस् इत्येतेषु तकारादिषु परतः सकारस्य मूर्द्धन्यादेशो भवति स चेत्सकारोन्तःपादं भवति । युष्मदादेशास्त्वं त्वां ते तव । अग्निष्ट्वं नामासीत् । त्वा । अग्निष्ट्वा वर्द्धयामसि । ते अग्निष्टे विश्वमानय । तव । अप्स्वग्ने सधिष्टव । तत् । अग्निष्टद्विश्वमापृणाति । तततुस् । द्यावापृथिवी निष्टततुःषु । अन्तःपादमिति किम् । नित्यमात्मनो विदाभूदग्निस्तत्पुनराह जातवेदा विचर्षणिः ॥ यजुष्येकेषाम् ॥ १०४ ॥ यजुषि विषये युष्मत्तत्ततुःषु परतः एकेषामाचार्याणां मतेन सकारस्य