भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 807, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 807

८०६ ॥ काशिका ॥ ८ ॥ ३ ॥ मूर्द्धन्यादेशो भवति । अर्चिर्भिष्ट्वम् । अर्चिर्भिस्त्वम् । अग्निष्टेयम् । यम् । अग्निष्टत् । अग्निस्तत् । अर्चिर्भिष्टतत्तुः । अर्चिर्भिस्तत्तुः ॥ स्तुतस्तोमयोश्छन्दसि ॥ १०५ ॥ एकेषामिति वर्त्तते । स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्द्धन्यादेशो भवति एकेषामाचार्याणां मतेन । त्रिभिष्टुतस्य । त्रिभिस्तुतस्य । गोष्टोमं षोडशिनम् । गोस्तोमं षोडशिनम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थ- मिदम् ॥ पूर्वपदात् ॥ १०६ ॥ छन्दसीति वर्त्तते एकेषामिति च । पूर्वपदस्थान्निमित्तादुत्तरस्य सकारस्य मूर्द्धन्यादेशो भवति छन्दसि विषये एकेषामाचार्याणां मतेन । द्विषन्धिः । त्रिषन्धिः । द्विसन्धिः । त्रिसन्धिः । मधुष्ठानम् । मधुस्थानम्