काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 808, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ ३ ॥ ८०९ रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्द्धन्यो न भवति । रपर । विसंसिकायाः काण्डं जुहोति । विस्रब्धः कथयति । सृपि । पुरा क्रूरस्य विसृपः । सृजि । वाचो विसर्जनम् । स्पृशि । दिविस्पृशम् । स्पृहि । निस्पृहं कथयति । सवनादीनाम् । सवने २ । सूते २ । सामे २ । सवनमुखे २ । किं स्यतीति किंसः । अनुसवनम् २ । गोसनिम् । अश्वसनिम् । पूर्वपदादिति प्राप्तेः प्रतिषेधः । अश्वसनिग्रहणमनिणोपि षत्वमस्तीति ज्ञापनार्थम् । तेन जलाषाहमश्वषाहमित्येतत्सिद्धं भवति । क्वचिदेवं गणपाठः । सवनेसवने । अनुसवने २ । संज्ञायां बृहस्पतिसत्रः । शकुनिसवनम् । सोमे २ । सूते २ । संवत्सरे २ । कंसम् २ । मुसलम् २ । गोसनिमश्वसनिम् ॥ सात्पदाद्योः ॥ १११ ॥ सादिति चैतस्य पदादेश्च मूर्द्धन्यादेशो न भवति * । विभाषा साति कार्त्स्न्ये । प्रत्ययसकारत्वात्प्राप्तिः । पदादेश्चादेशसकारात् । सात् । अग्नि- सात् । दधिसात् । मधुसात् । पदादेः । दधि सिञ्चति । मधु सिञ्चति ॥ सिचो यङि ॥ ११२ ॥ सिचः सकारस्य यङि परतो मूर्द्धन्यादेशो न भवति । सेसिच्यते । अभिसे- सिच्यते । उपसर्गादिति या प्राप्तिः सा पदादिलक्षणमेव प्रतिषेधं बाधते न सिचो यङीति । तस्मादयं प्रतिषेधः सर्वत्र भवति । यङीति किम् । अभिषिषिञ्चति ॥ सेधतेर्गत्तौ ॥ ११३ ॥ गत्तौ वर्त्तमानस्य सेधतेः सकारस्य मूर्द्धन्यादेशो न भवति । अभिसेधयति गाः । परिसेधयति गाः । गताविति किम् । शिष्यमकार्यात्प्रतिषेधयति ॥ प्रतिस्तब्धनिस्तब्धौ च ॥ ११४ ॥ प्रतिस्तब्ध निस्तब्ध इत्येतौ मूर्द्धन्यप्रतिषेधाय निपात्येते । स्तम्भेरिति प्राप्तं षत्वं प्रतिषिध्यते । प्रतिस्तब्धः । निस्तब्धः ॥ सोढः ॥ ११५ ॥ सहिरयं सोड्भूतो गृह्यते तस्य सकारस्य मूर्द्धन्यादेशो न भवति । परि- सोढः । परिसोढुम् । परिसोढव्यम् । सोड्भूतग्रहणं किम् । परिषहते ॥ स्तम्भुसिवुसहां चङि ॥ ११६ ॥ स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्द्धन्यादेशो न भवति । स्तम्भेरिति प्राप्तः परिनिविभ्य इति च मूर्द्धन्यः प्रतिषिध्यते । स्तम्भु ।
- इत आरभ्यादेशसकारादित्यन्तं पुस्तकान्तरे नास्ति ।