काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 820, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ ४ ॥ ८१६ अच इति वर्तते । यर इति च । अच उत्तरस्य यरो द्वे भवतो ऽनचि परतः । दद्ध्यत्र । मध्वत्र । अच इत्येव । स्मितम् । स्मातम् ॥ यणो मयो द्वे भवत इति वक्तव्यम् ॥ * ॥ के चिदत्र यण इति पञ्चमी मय इति षष्ठीति व्याचक्षते । तेषामुल्ल्का वाल्मीक इत्युदाहरणम् । अपरे तु यण इति षष्ठी मय इति पञ्चमीति तेषां दध्य्यत्र मध्व्वत्रेत्युदाहरणम् ॥ शरः खयो द्वे भवत इति वक्तव्यम् ॥ * ॥ अत्रापि यदि शर इति पञ्चमी खय इति षष्ठी स्यात् स्यादित्युदाहरणम् । अथ वा खय उत्तरस्य शरो द्वे भवतः । वत्त्सरः । आप्सराः ॥ अवसाने च यरो द्वे भवत इति वक्तव्यम् ॥ * ॥ वाक्क् । वाक् । त्वक्क् । त्वक् । षट््ट् । षट् । तत्त् । तत् ॥ नादिन्याक्रोशे पुत्रस्य ॥ ४८ ॥ आदिनौ परत आक्रोशे गम्यमाने पुत्रशब्दस्य न द्वे भवतः । अनचि चेति प्राप्तिः प्रतिषिध्यते । पुत्रादिनी त्वमसि पापे । आक्रोशेति किम् । तत्त्वकथने द्विवचनं भवत्येव । पुत्रानत्तीति पुत्रादिनी । शिशुमारी व्याघ्री ॥ तत्परे चेति वक्तव्यम् ॥ * ॥ पुत्रपुत्रादिनि त्वमसि पापे ॥ वा हतजग्धपरइति वक्तव्यम् ॥ * ॥ पुत्रहती । पुत्र्रहती । पुत्रजग्धी । पुत्र्रजग्धी ॥ चयो द्वितीयाः शरि पौष्करसादे ॥ * ॥ चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचा- र्यस्य मतेन । तकारस्य थकारः । वथ्सः । ककारस्य । खकारः । वाख्शरम् । पकारस्य फकारः । आफ्सराः ॥ शरोचि ॥ ४९ ॥ नेति वर्तते । शरोचि परतो न द्वे भवतः । अचो रहाभ्यामिति प्राप्तिः प्रतिषिध्यते । कर्षति । वर्षति । आकर्षः । आवर्षः । अचीति किम् । दर्श्यते ॥ त्रिप्रभृतिषु शाकटायनस्य ॥ ५० ॥ त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्याचार्यस्य मतेन न भवति । इन्द्रः । चन्द्रः । उष्ट्रः । राष्ट्रम् । आष्ट्रम् ॥ सर्वत्र शाकल्यस्य ॥ ५१ ॥ शाकल्याचार्यस्य मतेन सर्वत्र द्विवचनं न भवति । अर्कः । मर्कः । ब्रह्मा । आप्नुते ॥ दीर्घादाचार्याणाम् ॥ ५२ ॥ दीर्घादुत्तरस्याचार्याणां मतेन न द्वित्वं भवति । दात्रम् । पात्रम् । मूत्रम् । सूत्रम् ॥