काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 96, कुल 828 में से
संदर्भ में पढ़ेंगुडेन मिश्रा धानाः, गुडधानाः । गुडपृथुकाः । कृत्तौ क्रियाया अन्तर्भावात्पूर्वा- परपदयोः सामर्थ्यम् ॥ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ॥ ३६ ॥ सुप् सुपेति वर्तते, तस्य विशेषणमेतत् । तदिति सर्वनाम्ना चतुर्थ्यन्त- स्यैवार्थः परामृश्यते। तस्मै इदं तदर्थम्। तदर्थे अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति । तदर्थेन प्रकृतिविकारभावे समासोऽयमिष्यते । यूपाय दारु, यूपदारु । कुण्डलाय हिरण्यम्, कुण्डलहिर- ण्यम् । इह न भवति । रन्धनाय स्थाली, अवहननायोलूखलमिति । चतुर्थी चास्मादेव ज्ञापकातादर्थ्ये भवति ॥ अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या ॥ * ॥ ब्राह्मणार्थं पयः । ब्राह्मणार्था यवागूः । बलि । कुबेराय बलिः । कुबेरबलिः । महाराजबलिः । हित । गोहितम् । अश्वहितम् । सुख । गोसु- खम् । अश्वसुखम् । रक्षित । गोरक्षितम् । अश्वरक्षितम् ॥ पञ्चमी भयेन ॥ ३७ ॥ सुप् सुपेति वर्तते, तस्य विशेषणमेतत् । पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति । वृकेभ्यो भयम्, वृकभयम् । चौरभयम् । दस्युभयम् ॥ भयभीतभीतिभीभिरिति वक्तव्यम् ॥ * ॥ वृकेभ्यो भीतः, वृकभीतः । वृकभीतिः । वृकभीः । पूर्वस्यैवायं बहुलग्रहणस्य प्रपञ्चः । तथा च ग्रामन्निर्गतः, अधर्मजुगुप्सुरित्येवमादि सिद्धं भवति ॥ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ॥ ३८ ॥ अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पञ्चम्यन्तं समस्यते, तत्पु- रुषश्च समासो भवति । अपेत । सुखापेतः । अपोढ । कल्पनापोढः । मुक्त । चक्र- मुक्तः । पतित । स्वर्गपतितः । अपत्रस्त । तरङ्गापत्रस्तः । अल्पश इति समास- स्याल्पविषयतामाचष्टे । अल्पा पञ्चमी समस्यते न सर्वा । प्रासादात्पतितः, भोजना- दापत्रस्तः, इत्येवमादौ न भवति । कर्तृकरणे कृता बहुलमित्यस्यैवायं प्रपञ्चः ॥ स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ॥ ३९ ॥ स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृच्छ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति । स्तोक । स्तोकान्मुक्तः । अन्तिक । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रान्मुक्तः । कृच्छ्राल्लब्धः । पञ्चम्याः स्तोकादिभ्य इत्यलुक् ॥ शतसहस्रो परेवेति वक्तव्यम् ॥ * ॥ शतात्परे, परशताः । सहस्रात्परे, परसहस्राः । राजदन्तादित्वात्परनिपातः । निपातनात्सुडभावः ॥