काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 98, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ ॥ १ ॥ २१ राजस्नातम्। अवयवग्रहणं किम्*। अहनि भुक्तम्। रात्रौ वृत्तम्। बहुसदृश- त्त्वाद् रात्रिवृत्तम्, संध्यावर्जितमित्यादयः ॥ तत्र ॥ ४६ ॥ तत्रेत्येतत् सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। तत्रभुक्तम्। तत्रहतम्। तत्रपीतम्। एकपद्ममैकस्वर्यं च समासत्वादद्भवति ॥ क्षेपे ॥ ४७ ॥ क्षेपो निन्दा। क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरु- षश्च समासो भवति। अवतप्तेनकुलस्थितं तवैतत्। चापलमेतत्, अनवस्थि- तत्वं तवैतदित्यर्थः। उदकेविशीर्णम्। प्रवाहेमूत्रितम्। भस्मनिहुतम्। निष्फलं यत्क्रियते तदेवमुच्यते। तत्पुरुषे कृति बहुलमित्यलुक् ॥ पात्रेसमितादयश्च ॥ ४८ ॥ समुदाया एव निपात्यन्ते। पात्रेसमितादयः शब्दास्तत्पुरुषसंज्ञा भवन्ति क्षेपे गम्यमाने। ये चात्र क्तान्तेन सह समासास्तेषां पूर्वेणैव सिद्धे पुनः पाठो युक्त्तारोह्यादिपरिसंख्यार्थः। पूर्वपदाद्युदात्तत्वं यथा स्यादिति। युक्त्तारोह्यादिषु हि पात्रेसमितादयश्चेति पठ्यन्ते। पात्रेसमिताः। पात्रेबहुलाः। अवधारणेन क्षेपो गम्यते। पात्रएव संमिता न पुनः क्व चित्कार्येइति। उदुम्बरमशकादिषु उपमया क्षेपः। मातरिपुरुष इति प्रतिषिद्धसेवनेन। पिण्डीशूरादिषु निरीह- तया। अव्यक्तत्वाच्चाकृतिकृत्तिगणोयम्†। पात्रेसमिताः। पात्रेबहुलाः। उदर- क्रिमिः। कूपकच्छपः। कूपचूर्णकः। अवटऋक्षपः। कूपमण्डूकः। कुम्भमण्डूकः। उदपानमण्डूकः। नगरकाकः। नगरवायसः। मातरिपुरुषः। पिण्डशूरः। गेहे- शूरः। गेहेनर्दी। गेहेक्ष्वेडी। गेहेविजिती। गेहेव्याडः। गेहेतृप्तः। गेहेधृष्टः। गर्भेतृप्तः। शाखनिकम्बकः। गोष्ठेशूरः। गोष्ठेविजिती। गोष्ठेक्ष्वेडी। गेहेमेही। गोष्ठेपटुः। गोष्ठेपण्डितः। गोष्ठेप्रगल्भः। कर्णेतिटिभः। कर्णेचुरचुरा। चकारो ऽवधारणार्थः तेन समासान्तरं न भवति, परमपात्रेसंमिता इति। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधि- करणेन ॥ ४९ ॥ सुप् सुपेति वर्तते, तस्य विशेषणमेतत्। पूर्वकाल एक सर्व जरत् पुराण
- अवयवग्रहणं किम्। उलूखलेराभरण्योः पिशाचो यदभाषत। इतनु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि ॥ इति पाठान्तरम्। † प्रयुक्तत्वाच्चाकृतिकृत्तिगणोयम्। इति पाठः।