काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
॥ काशिका ॥ ८ ॥ ४ ॥ ८२१ पदान्तस्यानुस्वारस्य ययि परतः वा परसवर्णोऽदेशो भवति । तङ् कथ- ञ्चित्पत्तण्डयमानन् नभःस्वम्पुषुषो वधीत् । तं कथं चित्पचं डयमानं नभःस्वं पुरुषवधीत् ॥ तोर्लि ॥ ६० ॥ तवर्गस्य लकारे परतः परसवर्णोऽदेशो भवति । अग्निचिल्लुनाति । सोमसुल्लुनाति । भवाँल्लुनाति । महाँल्लुनाति ॥ उदः स्थास्तम्भोः पूर्वस्य ॥ ६१ ॥ सवर्णे इति वर्तते । उद उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णोऽदेशो भवति । उत्थाता । उत्थातुम् । उत्थातव्यम् । स्तम्भेः खल्वपि । उत्तम्भिता । उत्तम्भितुम् । उत्तम्भितव्यम् । स्थास्तम्भोरिति किम् । उत्स्रातः ॥ उदः पूर्व- सवर्णत्वे स्कन्देश्छन्दस्युपसंख्यानम् ॥ * ॥ अये दूरमुत्कन्दः ॥ रोगे चेति वक्त- व्यम् ॥ * ॥ उत्कन्दको नाम रोगः । कन्द्तेर्वा धात्वन्तरस्यैतद्रूपम् ॥ झयो होऽन्यतरस्याम् ॥ ६२ ॥ झय उत्तरस्य हकारस्य पूर्वसवर्णोऽदेशो भवति अन्यतरस्याम् । वाग्घ- सति । वाग् हसति । स्वालट् ढसति । स्वालिड् हसति । अग्निचिद्धसति । अग्निचित् हसति । सोमसुद्धसति । सोमसुत् हसति । त्रिष्टुब्भसति । त्रिष्टुब् हसति । झय इति किम् । प्राङ् हसति । भवान्हसति ॥ शश्छोऽटि ॥ ६३ ॥ झय इति वर्तते । अन्यतरस्यामिति च । झय उत्तरस्य शकारस्याटि परतश्छकारादेशो भवति अन्यतरस्याम् । वाक्छेते । वाक् शेते । अग्निचि- च्छेते । अग्निचित् शेते । सोमसुच्छेते । सोमसुत् शेते । खलिट् छेते । खलिड् शेते । त्रिष्टुप्छेते । त्रिष्टुप् शेते ॥ छत्वममीति वक्तव्यम् ॥ * ॥ किं प्रयोज- नम् । तच्छ्लोकेन तच्छ्मश्रुणेत्येवमर्थम् ॥ हलो यमां यमि लोपः ॥ ६४ ॥ अन्यतरस्यामिति वर्तते । हल उत्तराणां यमां यमि परतो लोपो भवति अन्यतरस्याम् । शय्या इत्यत्र द्वौ यकारौ क्रमजस्तृतीयस्तत्र मध्यमस्य वा लोपो भवति । शय्या । शय्य्या । अदितेरपत्यमादित्य इत्यत्र तकारात्पर एको यकारो यणो मय इति क्रमजो द्वितीयः । तत्र मध्यमस्य वा लोपो भव- ति । आदित्यो देवता अस्य स्थालीपाकस्येति चादित्यः । आदित्य इत्यत्रापि
८२२ ॥ काशिका ॥ ८ ॥ ४ ॥ द्वौ यकारौ क्रमजस्तृतीयः । तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति । हल इति किम् । अवम् । यमामिति किम् । अग्निः । यमोति किम् । शार्ङ्गम् ॥ झरो झरि सवर्णे ॥ ६५ ॥ हल इति वर्तते हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति वान्यतरस्याम् । प्रतङ्मवत्त्समित्यत्र त्रयस्तकाराः । क्रमजश्चतुर्थः । तत्र मध्य- मस्य मध्यमयोर्वा लोपो भवति । महत्छत्त्र इत्यत्र चत्वारस्तकाराः क्रमजः पञ्च- मस्तत्र । मध्यमस्य मध्यमयोर्मध्यमानां वा लोपो भवति । महच्छब्दस्य ह्युप- संख्यानसामर्थ्यादेव उपसर्गात्त इति तत्वं भवति । झर इति किम् । शार्ङ्गम् । झरीति किम् । प्रियपञ्च्चः । अल्लोपस्य च पूर्वत्रासिद्धे न स्थानिवदिति स्थानि- वद्भावप्रतिषेधादत्र चकारस्य अकारे लोपः स्यात् । सवर्णेइति किम् । तर्त्ता । तर्तुम् । तर्त्तव्यम् । सवर्णग्रहणसामर्थ्यादिह संख्यातानुदेशो न भवति । सव- र्णमात्रे लोपो विज्ञायते । तेन शिण्ठि पिण्ठि इति ठकारे ढकारस्य लोपो भवति ॥ उदात्तादनुदात्तस्य स्वरितः ॥ ६६ ॥ उदात्तादुत्तरस्यानुदात्तस्य स्वरितादेशो भवति । गार्ग्यः । वात्स्यः । पचति । पठति । चास्य स्वरितस्यासिद्धत्त्वादनुदात्तं पदमेकवर्जमित्येतच्च प्रव- र्तते । तेनोदात्तस्वरितावुभावपि श्रूयेते ॥ नोदात्तस्वरितोदयमगार्य्यकाश्यपगालवानाम् ॥ ६७ ॥ उदात्तोदयस्य स्वरितोदयस्य चानुदात्तस्य स्वरितो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । अगार्य्यकाश्यपगालवानां मतेन । उदात्त उदयो यस्मात्स उदात्तोदयः । उदात्तपर इत्यर्थः । एवं स्वरितोदयः । उदात्तोदयस्तावत् । गार्ग्यस्तत्र । वात्स्यस्तत्र । तत्रशब्द आद्युदात्तः । तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति । स्वरितोदयः । गार्ग्यः क्व । वात्स्यः क्व । क्वशब्दः स्वरितः तस्मिन्परतो ऽनुदात्तः स्वरितो न भवति । अगा- र्य्यकाश्यपगालवानामिति किम् । गार्ग्यस्तत्र । गार्ग्यः क्व । तेषां हि मतेन स्वरितो भवत्येव । उदात्तपरस्येति वक्तव्यउदयग्रहणं मङ्गलार्थम् । अनेका- चार्य्यसंकीर्त्तनं पूजार्थम् ॥ अ अ इति ॥ ६८ ॥ एकोऽत्र विवृतो ऽपरः संवृतस्तत्र विवृतस्य संवृतः क्रियते । आकारो विवृतः संवृतो भवति । वृक्षः । प्लक्षः । इह शास्त्रे कार्यार्थमकारो विवृतः
॥ काशिका ॥ ८ ॥ ४ ॥ ८२३ प्रतिज्ञातस्तस्य तथाभूतस्यैव प्रयोगे मा भूदिति संवृतप्रत्यापत्तिरियं क्रियते ॥ दीर्घप्लुतयोश्चानेन विवृतेनाकारेण ग्रहणं नेष्यते ॥ तेन तयोः संवृता न भवति ॥ संवृतेन च सर्वगुणस्य मात्रिकस्य ग्रहणमिष्यते ॥ तेन सर्वगुणः प्रत्यापद्यते ॥ इष्ट्युपसंख्यानवति शुद्धगणा विवृतगूढसूत्रार्था । व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ॥ व्याकरणस्य शरीरं परिनिष्ठितशास्त्रकार्यमेतावत् । शिष्टः परिकरबन्धः क्रियते ऽस्य ग्रन्थकारेण ॥ इति श्रीवामनकृतकाशिकावृत्तावष्टमाध्यायस्य तुरीयः पादः ॥ समाप्तश्चायमध्यायो ग्रन्थश्च ॥ Printed and published by E. J. LAZARUS & Co. at the Medical Hall Press, Benares.
- پشت Vyākaraṇa Sanskrit - Vyākaraṇa " — Grammar
प्रस्तुत पृष्ठ रिक्त (blank) है। इसमें केवल स्कैनिंग के दाग/चिह्न (artifacts) दिखाई दे रहे हैं, कोई पाठ्य सामग्री (text) उपलब्ध नहीं है।
Cel- N2/2/76
Central Archaeological Library, NEW DELHI. 27200 Call No. Sa 4V/ V.J/ Bal. Author— Vamana and Jaya- ditya. Title— Kasika; A Commentary of Panini's Grammatical Aphorisms. | Borrower No. | Date of Issue | Date of Return |