काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 104, कुल 942 में से
संदर्भ में पढ़ें१० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
एषां पूर्वैषामार्षग्रन्थानां निबन्धनस्यालोचने शारीरेन्द्रियविमानसिद्ध्यादिस्थानीयविषयविशेषाणां स्थानान्तरे विषयानुप्रवेश्य क्वचन सुश्रुते तत्स्थानविशेषस्य पृथगनुपादानेऽपि अन्येष्विव तत्रापि अष्टस्थानीयविषयाणामुपादानेन अवान्तराध्यायानां क्वचनैकत्र वैषम्येऽपि बहुत्र साम्यं, समष्ट्यध्यायसंख्यासु सर्वत्रैकरूप्यं, प्रतिपाद्यविषयेष्वपि स्वस्वप्रधानप्रस्थानसंबन्ध-विभिन्नविषयानेवम्भावेऽपि साधारणविषयाणां सर्वत्रानुस्यूतिः, तत्तत्स्थानाध्यायेषु तत्तद्विषयनिरूपणस्य समानता, केषाञ्चिदध्यायानां न्यूनाधिकभावेन संज्ञास्वपि तौल्यमनुसन्धीयमानमेषां पूर्वैकसम्प्रदायानुसरणं, सन्निकृष्टसमयप्रचलितैकनिबन्धशैलीं वा गमयति ।।
कश्यपात्रेयधन्वन्तरिपरिगृहीतसंप्रदायानामेषां विभिन्नप्रस्थानत्वेऽपि परस्परं परिज्ञानं समादरश्चासीत् ।।
काश्यपीये आत्रेयपुनर्वसोः सनामनिर्देशं मतोद्धारश्चास्ति । द्विव्रणीयाध्याये (पृ. १२३) शल्यप्रक्रियां मनसि निधाय—
परतन्त्रस्य समयं प्रब्रुवन्न च विस्तरम् । न शोभते सतां मध्ये लुब्धः काक इवार्चितः ।।
अवश्यं भिषजा त्वेतज्ज्ञातव्यमनसूयया । तस्मात् समयमात्रं भो शृणु बालहितेप्सया ।।
इति शल्यप्रधानविद्याया उपादेयत्वं निर्दिश्य, अतिबालविषये “तेषामुपक्रमं ..... संशमनं, बन्धनमुक्तिक्लेन्नप्रक्षालनं, कल्कप्रणिधानं, शोधनं, रोपणं, सवर्णीकरणमित्येतैः .... शमयेत्, स्रावणपाटनदहनसीवनैषणसाहसादीन्यतिबालेषु न कुर्यात्” इत्युपक्रम्य बन्धव्रणरोपणादिप्रयोगा रोगाध्याये (पृ. ४६)—
वैसर्पणं चात्र वदन्ति सिद्धं रक्तावसेकं च विशोषणं च ।
नत्वेव बालस्य विशेषणं हितं नैवातिसंशोधनरक्तमोक्षणे ।।
स्निग्धैः सुशीतैर्मधुरैरदाहिभिस्तत्रोपचारोऽशनलेपसेचनैः ।।
इति उचितशल्यक्रिया च निर्दिष्टा । अश्मरीप्रकरणे (पृ. १२२)—
शल्यवत्यश्मरी बस्तौ वर्धमानाऽवतिष्ठते । क्षीयते क्षीयमाणस्य पुष्यमाणस्य पुष्यति ।।
तस्मान्न नित्यं रुजति तस्योद्धरणमिष्यते । अश्मर्युद्धरणं तीक्ष्णमौषधं स्त्रोत ईरणम् ।।
साहसादतिबालेषु सर्वं नेच्छति कश्यपः ।।
इत्यश्मर्युद्धरणमुक्त्वा अतिबालविषये निषिद्धमस्ति । तेन शल्यप्रस्थानक्रियायाः सादरं परिचयः प्रयोगाप्रयोगपरिच्छेदश्च कश्यपस्य दृश्यते ।।
आत्रेयसंहितायामपि काश्यपीयमतोल्लेखः, धान्वन्तरघृतोपयोगोऽप्यस्ति ।।
दाहे धान्वन्तरीयाणामत्रापि भिषजां मतम् (च.चि.अ. ५)
इत्यादिवाक्यैर्बहुशो धान्वन्तरीयप्रक्रिया निर्दिष्टाः । तेनास्यापि तत्परिज्ञानं विशेषतोऽवगम्यते ।।
भेडसंहितायामपि चरकनिर्दिष्टात्रेयमतोल्लेखः कश्यपमतोल्लेखः,
पिबेत् कल्याणकं सर्पिर्धान्वन्तरमथापि वा ।। (पृ. १९१)
धान्वन्तरं पिबेच्छर्पिः स्नेहनाथैषु कुष्ठितः ।। (पृ. १४२)
धान्वन्तरं पिबेत् सर्पिः प्राजापत्यमथापि वा ।। (पृ. १६३)
इति धान्वन्तरौषधोपयोगः, छिद्रोदरे (पृ. १६८) अर्शसि (पृ. १८२) च शस्त्रक्रियानिर्देशश्चास्ति । तेनानेनापि आत्रेयकश्यपोपदेशस्य धन्वन्तरिसम्प्रदायस्य च समादरणं गम्यते ।।
सुश्रुतसंहितायामप्यश्मरीप्रकरणे (चि. अ. ७)