काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 103, कुल 942 में से
संदर्भ में पढ़ेंउपोद्घातः ८९
आत्रेयीयायाम्—
औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः । विज्ञातं चापि दुर्युक्तमनर्थायोपपद्यते ।।
योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् । भेषजं चापि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम् ।।
(च.सू.अ. १)
एवं काश्यपीयायां खिले ज्वरचिकित्सायाम् (अ. २ श्लो. ४२)
सर्पिः पित्तं शमयति शैत्यात् स्नेहाच्च मारुतम् । समानगुणमप्येतत् संस्काराज्जीयते कफम् ।।
आत्रेयीयायां ज्वरनिदाने १ अध्याये—
स्नेहाद्वातं शमयति शैत्यात् पित्तं नियच्छति । घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम् ।।
(च.नि.अ. १)
काश्यपीयायाम्—
मज्जावसे वसन्ते, प्रावृषि तैलं पिबेच्छरदि सर्पिः । सर्पिर्वा सर्वेषां सर्वस्मिन् शस्यते पातुम् ।।
अनुपानमुष्णमुदकमुक्तं घृतस्य, तैलस्य यूषमिच्छन्ति । मज्जवसयोस्तु मण्डं, सर्वेषां कश्यपः पूर्वम् ।।
आत्रेयीयायाम् (चरकसंहितायाम्)
सर्पिः शरदि पातव्यं वसा मज्जा च माधवे । तैलं प्रावृषि नात्युष्णाशीते स्नेहं पिबेन्नरः ।।
जलमुष्णं घृते पेयं, यूषस्तैले च शस्यते । वसामज्ज्योस्तु मण्डः स्यात् सर्वेषूष्णामथाम्बु वा ।।
(च.सू.अ. १३)
इति स एवार्थ उभयोः केवलं रचनाभेदेन दृश्यते ।।
(३) काश्यपीये रोगाध्याये (पृ. ३९) रोगविषये एकाद्यष्टान्तभेदपक्षा असंख्येयवादश्च, एवमेव आत्रेयीयायामपि सूत्रस्थाने २६ अध्याये रसविषये एकाद्यष्टान्तभेदपक्षा असंख्येयवादश्चेति समाना प्रक्रिया ।।
(४) रोगोद्देशेऽपि काश्यपीये अशीतिर्वातिकाः, चत्वारिंशत्पैत्तिकाः, विंशतिः श्लैष्मिकाः इति (पृ. ४१) ये ये रोगा निर्दिष्टास्त एव तावन्त एव नाम्नाऽपि प्रायः समानाश्चरकीयेऽपि सूत्रस्थाने २० अध्याये उद्दिष्टा इत्येतद्विषयेऽपि बहुशः साम्यमनुसन्धीयते ।।
(५) काश्यपीयायां लक्षणाध्याये (प. ५१) सात्त्विकराजसतामससत्त्वानां यथाऽवान्तरविभागाः, आत्रेयीयायां शारीरे ७ अध्याये केवलं सात्त्विकेष्वेकविभेद न्यूनतया अन्ये समाना एव विभागाः । उभयोर्लेखशैलीपर्यालोचनेऽपि गभिरविचारानुस्यूतो नवनवोन्मेषविशेषसन्दृब्धः प्रौढतरो लेखोऽनुभूयते ।।
सुश्रुतसंहितायास्तु खिलात्पूर्वतने भागे १२० मिताया अध्यायसमष्टिसंख्यायाः साम्येऽपि विमानेन्द्रियसिद्धिवर्जं पञ्चैव स्थानानि, तेष्वध्यायसंख्या अप्यसमाना । गर्भावक्रान्त्यध्यायादौ बालधात्र्यादिसम्बद्धविषयाणामप्यनुस्यूततया कर्णवेधस्तन्यपरीक्षासामुद्रिकलक्षणसत्त्वप्रभेदादीनां केषाञ्चिद्विषयाणां प्रायो वृद्धजीवकीयोक्ततौल्यमस्ति । शल्यप्रधाने सुश्रुतेसत्त्वप्रधानविषयसम्बद्धविषयाः पूर्वभागे शालाक्यादिप्रस्थानान्तरियविषयाः खिलभागे सन्ति । खिलभागाध्यायाश्च ६६ एव । वृद्धजीवकीये तु बालकोपयोगिनः प्रधानविषयान् पूर्वभागे संक्षिप्तप्रक्रियया निर्दिश्य खिलभागेऽपि प्रायस्तादृशा धात्र्यादिसम्बद्धाश्च विशेषविषयाः केचन पूर्वभागोक्ता अपि पुनर्विशेषरूपेण च प्रतिपादिताः, अत्र खिलभागाध्यायाः ८० मिता इति कयाचिद्दृष्ट्या साम्यम्, अन्यया दृष्ट्या भिन्नमार्गप्रस्थायितया विषयाणां विभागानां निरूपणप्रक्रियाया रोगनिर्देशादीनां वैषम्यं च समीक्ष्यते ।।