भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 106, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 106
९२काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

प्राचीने नावनीतके कौमारभृत्यविषयतया निर्दिष्टे चतुर्दशाध्याये कश्यपजीवकयोर्नामनिर्देशेन सह नानौषधप्रयोगोल्लेखदर्शनेन, अष्टाङ्गहृदयस्योत्तरतन्त्रे कौमारभृत्यविषयमुपादायोल्लिखितेऽध्यायत्रये, कश्यपोक्तत्वेन निर्दिष्टयोर्दन्तरोगभैषज्यग्रहरदशाङ्गधूपयोः काश्यपीयोक्त-(पृ. ७) च्छायानुविधायिनः स्तन्यदोषपरीक्षादेश्च दर्शनेनाभ्यामपि कौमारभृत्यै एतस्योपजीवनं समीक्ष्यते । सुश्रुतीये कौमारभृत्ये “ये च विस्तरतो दृष्टाः कुमाराबाधहेतुभिः” इति सामान्यनिर्देशेऽपि तदीयव्याख्यायां डल्लनेन “पार्वतकजीवकबन्धकप्रभृतिभिः” इति उल्लिखितेषु कौमारभृत्याचार्येषु त्रिषु द्वौ नाममात्रेण शिष्येते, एतद्ग्रन्थोपलम्भेन जीवकः पुनरुज्जीवति ।

‘कौमारभृत्यास्त्वपरे जङ्गमस्थावराश्रयात् । द्वियोनिं ब्रुवते धूपं कश्यपस्य मते स्थिताः’ ।। (क.धूपकल्पे)

इत्यत्रोल्लेखेन कौमारभृत्येऽन्येऽपि प्राञ्च आचार्या बभूवुः । अन्येऽपि कश्यपस्योपजीवका आसन्, कश्यपः कौमारभृत्ये प्रधानाचार्य आसीदित्यवगम्यते ।।

कौमारभृत्ये शारीरप्रकृतिविपर्यासेन स्कन्देवत्यादिबालग्रहवैकृतेन स्तन्यादिदोषेण च जायमानानां बालकाबाधानां निरसनमुद्दिश्य नानाभैषज्यानि, बालग्रहप्रतीकाराः, अन्येऽप्येतदनुस्यूता विषया उपवर्ण्यन्ते । तदिदं कौमारभृत्यं कायचिकित्साया भूतविद्यायाश्च बालभैषज्योपयोगिनस्तदनुषङ्गेण गर्भधात्रीसूतिकादिसम्बद्धांश्च विषयान् प्राधान्येनोपादाय समुपबृंह्य पृथक्प्रस्थानरूपेण समुदेतीत्यस्मिंश्चिकित्साप्रस्थानस्येव भूतविद्याप्रस्थानस्यापि विषयाः प्रविशन्ति । भैषज्यविद्येव भूतग्रहादिप्रतिषेधविद्या वैदिक्यामप्यवस्थायामासीदेव । छान्दोग्योपनिषदि सप्तमाध्याये ‘नक्षत्रविद्यां भूतविद्यां सर्पजनविद्याम्’ इति प्राचीनविद्यासु भूतविद्याऽपि निर्दिष्टा । अथर्ववेदेऽप्येतदीया विषयास्तदुपयोगिनो मन्त्राश्च बहुश उपलभ्यन्ते इति पूर्वमुक्तमेव । अत एवेयमाथर्वणविद्यात्वेनापि कीर्त्यते । इतिहासदृशाऽपीयं भूतविद्या सर्वतः प्राक्कालेऽवगम्यमानाऽतिप्राचीनकालादेवात्मनः सत्तामवगमयति ।।

कौमारविषये क्रियाकालगुणोत्तरतन्त्रमुपलभ्यते । तत्र कुमारबाधाकरा ग्रहास्तत्तद्दिनमासवर्षभेदेन पीडाकरा बालग्रहविशेषास्तन्निवारका मन्त्रप्रयोगाः कल्पाः कानिचिदौषधादीनि धात्वादीनि च बहुशो निरूपितानि । तत्र शकुनीरेवतीपूतनाभ्योऽन्येऽप्युपशतं बालग्रहाः, मन्त्रा अपि पौराणिकच्छायोपजीविनः, विधानमालाद्यद्धृतानि स्कन्दमार्कण्डेयपुराणादवाक्यानि, बाल¹चिकित्सामृतकल्याणवर्मकृतबालतन्त्रयोगसुधानिध्यादयोऽर्वाचीननिबन्धग्रन्थाद्यत्वे बालतन्त्रविषये उपलभ्यन्ते । तेष्वपि वर्षमासदिनभेदेन विभिन्ना बालग्रहा इति तेषु क्रियाकालगुणोत्तरे चैकच्छाया प्रक्रियाऽवगम्यते । अस्यां काश्यपसंहितायां तु कतिपये एव ग्रहपूतनादयः, वर्षमासदिनभेदेन विभिन्ना ग्रहा नैव, स्कन्दरेवतीपूतनादिप्राचीननामभिरेव तेषामुल्लेखः, मन्त्रा अपि प्रायो वैदिकच्छायानुविधायिनः, क्वचन (मातङ्गीविद्योपदेशे क रेवतीकल्पे) प्राकृतशब्दगर्भो मन्त्रोपदेशः, भैषज्यविषयोऽपि विभिन्न इत्यनयोर्मियो विभिन्ना प्रक्रिया समुपलक्ष्यते । उभयतो विषयतुलनायां क्रियाकालगुणोत्तरादिनिर्देशेषु विकासावस्थाप्रक्रियाया दर्शनेन तदपेक्षया काश्यपसंहितायां बहुप्राचीनसम्प्रदायावलम्बः समीक्ष्यते । सुश्रुते निर्दिश्यमाना बालग्रहा अप्यविकासावस्थामनुभावयन्ति ।।

रावण²कृतं बालकुमारतन्त्रं दशग्रीवबालतन्त्रं वेत्यभिधीयमानमेकं प्राचीनं बालतन्त्रमुपलभ्यते । अस्य षष्ठसप्तमशताब्द्यां चीनभाषायां विहितोऽनुवादोऽप्यस्तीति श्रूयते । एतद्ग्रन्थविषये Biblio Theque Nationale Paris नाम्नि पुस्तके विशेषतो निरूपितमस्ति तदात्वे तावति दूरे जातानुवादतया ततोऽपि प्राचीनेऽस्मिन् ग्रन्थेऽपि वर्षमासदिनभेदेन व्यवस्थितानां ग्रहपूतनादिप्रभेदानामुल्लेखेन एषा विकसिताऽपि प्रक्रिया नार्वाचीना वक्तुं शक्यत इत्यविकसितपद्धतेस्ततोऽपि प्राग्भावःसुतराम् ।।


१. बालचिकित्सामृतं नाम स्वीयैः 'परकीयैश्च पद्यैर्बालसम्बन्धिरोगौषधानां विहितसङ्ग्रहं कायगतपत्रलिखितं जीर्णप्रायं पुस्तकं नेपालराजकीयपुस्तकालये विद्यते ।
२. अस्मिन् बालतन्त्रे नन्दा सुनन्दा पूतना मुखमण्डिका कटपूतना शकुनिका शुष्करेवता अर्यका सूतिका निर्ऋतिका पिलिपिच्छिका कामुकेति द्वादश मातृका निर्दिष्टाः सन्ति । ग्रन्थलेख एवमादिरूपेण दृश्यते—