भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 116, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 116
१०२काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तथा श्रीयुतसरआरेलष्टीनमहाशयस्यान्वेषणे बलूचिस्तानप्रदेशे दक्षिणेरानप्रदेशे चोपलब्धानां प्राचीनवस्तूनां निदर्शनेन भारतस्य प्राचीनसुमेरियाप्रदेशस्य (साम्प्रतिकेरानदेशस्य) च प्राचीनः समसभ्यतासम्बन्ध आसीदित्यपि तेषां रिपोर्टपत्रादिभ्योऽवगम्यते ॥

प्यालिश्टाइन (Palestine) प्रदेशस्य भूगर्भनिर्गतसभ्यतायाः परीक्षणे तत्प्रदेशस्य समये समये विभिन्नदेशीयैराक्रान्ततया तत्र तेषु तेषु स्थानेषु तत्तदीयानां पूर्वलक्षणानामुपलम्मेऽपि एकस्मिन्स्थाने सर्वप्राचीनतया महेञ्जोदारोप्रदेशोपलब्धसंवादिनां प्राचीनभारतीयसभ्यताचिह्नानामुपलम्भेन भारतीय एव सभ्यतालोकस्तत्र सर्वप्राथमिक इति मेथिक्सोसा¹इतीलेखः प्रतिपादयति ॥

अद्यत्वे परिस्कृतपथरथादिव्यवस्थायाऽपि मिर्जापुरीयादिसुन्दरमृत्पात्रादीनां सन्तिकृष्टेऽपि नगरान्तरे नीयमानानां रक्षणाय कियदवधीयते जनैः । बंहीयोभिर्दुर्गमैः पार्वत्यशर्करादिप्रदेशैरन्तरितानां मिश्रप्यालिश्टाइनेराकभारतानां चिरकालावस्थायिनामलङ्कारादीनां यातायात्सौकर्येऽपि स्वल्पमप्याघातमसहमानानां मृत्पात्रादीनामपि शिल्पसाम्यमसाधारणं मिथः परिचयचिह्नमुपलक्ष्यते ॥

न केवलमेतावदेव, पाश्चात्त्यानां प्राचीनशाखासु भारतीयानां प्राचीनपरिस्थितौ च दृष्टानि धार्मिकसामाजिकआध्यात्मिकादिषु बहुषु विषयेषु समसूत्रानुवेधसाधनानि सभ्यतासाम्यलक्षणानि ऐतिहासिकतत्त²ल्लेखतो बहुशो लभ्यन्ते ॥

प्रत्यक्षानुभवमेव साक्षित्योपादाय भारतस्य प्राचीनावस्थाया अनुसन्धानेऽप्येतदीया सभ्यता प्राचीनतमैवावलोक्यते- महेञ्जोदारोभूगर्भाद्द्वयः प्राचीनतमा देवमूर्तयोऽप्युपलब्धाः । तत्र ब्रह्मविष्णुमहेश्वराणां संवलनरूपा त्रिमूर्तिः, हस्तिव्याघ्रखड्गिमृगसहिता शिवमूर्तिः, स्त्रीदेवतामूर्तिरपि दृश्यते । स्त्रीदेवता (Mathi Gods) मूर्त्तयः सिन्धुतीरे वालुकास्थाने इलाम-पर्सिया-एसियामाइनर-सीरिया-प्यालिश्टाइन-साइप्रस-एजियन्सीतट-बाल्कन-मिश्रदेशेष्वपि, ग्रीसदेशस्य क्रेटाद्वीपे अग्रपृष्ठयोः


१. Quarterly Journal of the Mythic Society Bangalore. २. (क) मिश्रदेशीये पूर्वसंप्रदायेऽपरिवर्तनीयकुलपरम्परानुसारिपौरोहित्य-सेनावृत्ति-शिल्पव्यापार-दास्यरूपचतुःप्रस्थानविभागे भारतीयवर्णभेदच्छाया; तदीये पूर्ववृत्ते भारतीये इव जलप्लावनवृत्तः प्रजापतिस्थानीय ‘क’ शब्दितदेवतोल्लेखः; तद्देशीयभाषायां मात-इवु-आत्म्-पुष-उषा-आप-अपूप-त्रादिशब्देषु बहुषु माता-इभ-आत्मा-पुष्प-उषा-आप-अपूप नरादिशब्दानां किञ्चिद्विकृत्याऽविकलभावेन च शब्दतोऽर्थतश्च साम्यमपेक्ष्यते । एतद्विषये श्रीयुतध्यानचन्द्रमहाशयेन (Quarterly Journal of Mythic Society Vol. XXI, No3, P. 250), श्रीयुताविनाशचन्द्रमहाशयेनापि (Rigvedic India Vol 1, P. 245, बहु लिखितं वर्तते । मन्त्रान्तरेष्विव शाखाभेदकृतं पाठभेदं विनैव एकयैवानुपूर्व्या भारतं व्यापृवतो वैदिकस्य सावित्रीमन्त्रस्यावगमेन तेतान्द्यैश्च ऋगादिसौरमन्त्रैः प्रतिपाद्यस्य सूर्यदेवस्योपासनं भारतीयः प्राचीनोऽसाधारणो धर्मः । भारतस्य दूरपश्चिमभागवर्ति प्रत्नतरं नष्टं भ्रष्टं विशालतमं मार्तण्डमन्दिरमपि भारतीयानां चिरानुवृत्तं सूर्योपासनमवबोधयति । मिश्रदेशे प्राचीननगरेऽप्रचलितस्य सूर्योपासनस्य पश्चात् ...... नृपतिसमये जनैः प्रतिरोधेऽपि बलात्प्रवर्तननेतिहासः, पञ्चसहस्रवर्षपूर्वतनेन तदीयसमाधिशवेन साकं वैदिकोक्तिच्छायानुविधायिसूर्यस्तोत्रमुत्कीर्णञ्चोपलभ्यते । पञ्चसहस्त्रवर्षपूर्वतनानां मिश्रदेशोपलब्धभाण्डशिल्पकलादीनामद्यत्वेगवेषणेन महेञ्जोदारो-हरप्पादिप्रदेशभूगर्भनिर्गतानां प्राचीनभारतवस्तुशिल्पकलादीनां च तुलनायां न केवलमुभयेषां समानता, किन्तु मिश्रीयानतिशयानां भारतीयाः कलादयो विवेचकैर्विविच्यमाना मिश्रादपि भारतस्य ज्यैष्ठगर्भितं समसूत्रानुवेधं प्रत्याययन्ति ॥
(ख) रोमदेशीयप्राचीनजातेः इटुस्कन (Etruscan) नाम्ना धार्मिके विषये सप्तमपञ्चमपुरुषाभ्यन्तरे वैवाहिकसम्बन्धनिषेधनियमे “वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः” इति प्राचीनस्मृतिनियम साम्यस्य प्राचीनरोमग्रीसादिदेशसम्प्रदायोपलब्धेषु लिङ्गपूजननन्दिपूजन-पितृश्राद्धाग्निशालाऽग्निहोम-गुरुकुलशिक्षाप्रणाली-जांतसंस्कार-पुनर्जन्मवादाध्यात्मवादिषु भारतीयासाधारणविषयप्रतिबिम्बनस्य; बृटिशानां पूर्वतमावस्थास्वरूपायाः केल्ट (Celtic) जातेर्धर्माचार्याणां डूइड (Druid)-जातीयानां धार्मिकनियमेषु विंशतिवर्षान्तं ब्रह्मचर्यधारणम्, अन्तिमे वयसि वानप्रस्थचर्या, उच्चकुले विद्यादानम्, आत्मनोऽमरत्ववाद इत्यादिकेषु भारतीयासाधारणधर्मच्छायाया दर्शनेन भारतीयसभ्यतासम्बन्धो न केवलं प्राचीनतरमूलशाखास्वेव अपि तु ततः परं विभक्तासूपशाखाजातिव्यवहारेष्वप्युपलभ्यते ॥