काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 116, कुल 942 में से
संदर्भ में पढ़ें| १०२ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
तथा श्रीयुतसरआरेलष्टीनमहाशयस्यान्वेषणे बलूचिस्तानप्रदेशे दक्षिणेरानप्रदेशे चोपलब्धानां प्राचीनवस्तूनां निदर्शनेन भारतस्य प्राचीनसुमेरियाप्रदेशस्य (साम्प्रतिकेरानदेशस्य) च प्राचीनः समसभ्यतासम्बन्ध आसीदित्यपि तेषां रिपोर्टपत्रादिभ्योऽवगम्यते ॥
प्यालिश्टाइन (Palestine) प्रदेशस्य भूगर्भनिर्गतसभ्यतायाः परीक्षणे तत्प्रदेशस्य समये समये विभिन्नदेशीयैराक्रान्ततया तत्र तेषु तेषु स्थानेषु तत्तदीयानां पूर्वलक्षणानामुपलम्मेऽपि एकस्मिन्स्थाने सर्वप्राचीनतया महेञ्जोदारोप्रदेशोपलब्धसंवादिनां प्राचीनभारतीयसभ्यताचिह्नानामुपलम्भेन भारतीय एव सभ्यतालोकस्तत्र सर्वप्राथमिक इति मेथिक्सोसा¹इतीलेखः प्रतिपादयति ॥
अद्यत्वे परिस्कृतपथरथादिव्यवस्थायाऽपि मिर्जापुरीयादिसुन्दरमृत्पात्रादीनां सन्तिकृष्टेऽपि नगरान्तरे नीयमानानां रक्षणाय कियदवधीयते जनैः । बंहीयोभिर्दुर्गमैः पार्वत्यशर्करादिप्रदेशैरन्तरितानां मिश्रप्यालिश्टाइनेराकभारतानां चिरकालावस्थायिनामलङ्कारादीनां यातायात्सौकर्येऽपि स्वल्पमप्याघातमसहमानानां मृत्पात्रादीनामपि शिल्पसाम्यमसाधारणं मिथः परिचयचिह्नमुपलक्ष्यते ॥
न केवलमेतावदेव, पाश्चात्त्यानां प्राचीनशाखासु भारतीयानां प्राचीनपरिस्थितौ च दृष्टानि धार्मिकसामाजिकआध्यात्मिकादिषु बहुषु विषयेषु समसूत्रानुवेधसाधनानि सभ्यतासाम्यलक्षणानि ऐतिहासिकतत्त²ल्लेखतो बहुशो लभ्यन्ते ॥
प्रत्यक्षानुभवमेव साक्षित्योपादाय भारतस्य प्राचीनावस्थाया अनुसन्धानेऽप्येतदीया सभ्यता प्राचीनतमैवावलोक्यते- महेञ्जोदारोभूगर्भाद्द्वयः प्राचीनतमा देवमूर्तयोऽप्युपलब्धाः । तत्र ब्रह्मविष्णुमहेश्वराणां संवलनरूपा त्रिमूर्तिः, हस्तिव्याघ्रखड्गिमृगसहिता शिवमूर्तिः, स्त्रीदेवतामूर्तिरपि दृश्यते । स्त्रीदेवता (Mathi Gods) मूर्त्तयः सिन्धुतीरे वालुकास्थाने इलाम-पर्सिया-एसियामाइनर-सीरिया-प्यालिश्टाइन-साइप्रस-एजियन्सीतट-बाल्कन-मिश्रदेशेष्वपि, ग्रीसदेशस्य क्रेटाद्वीपे अग्रपृष्ठयोः
१. Quarterly Journal of the Mythic Society Bangalore.
२. (क) मिश्रदेशीये पूर्वसंप्रदायेऽपरिवर्तनीयकुलपरम्परानुसारिपौरोहित्य-सेनावृत्ति-शिल्पव्यापार-दास्यरूपचतुःप्रस्थानविभागे भारतीयवर्णभेदच्छाया; तदीये पूर्ववृत्ते भारतीये इव जलप्लावनवृत्तः प्रजापतिस्थानीय ‘क’ शब्दितदेवतोल्लेखः; तद्देशीयभाषायां मात-इवु-आत्म्-पुष-उषा-आप-अपूप-त्रादिशब्देषु बहुषु माता-इभ-आत्मा-पुष्प-उषा-आप-अपूप नरादिशब्दानां किञ्चिद्विकृत्याऽविकलभावेन च शब्दतोऽर्थतश्च साम्यमपेक्ष्यते । एतद्विषये श्रीयुतध्यानचन्द्रमहाशयेन (Quarterly Journal of Mythic Society Vol. XXI, No3, P. 250), श्रीयुताविनाशचन्द्रमहाशयेनापि (Rigvedic India Vol 1, P. 245, बहु लिखितं वर्तते । मन्त्रान्तरेष्विव शाखाभेदकृतं पाठभेदं विनैव एकयैवानुपूर्व्या भारतं व्यापृवतो वैदिकस्य सावित्रीमन्त्रस्यावगमेन तेतान्द्यैश्च ऋगादिसौरमन्त्रैः प्रतिपाद्यस्य सूर्यदेवस्योपासनं भारतीयः प्राचीनोऽसाधारणो धर्मः । भारतस्य दूरपश्चिमभागवर्ति प्रत्नतरं नष्टं भ्रष्टं विशालतमं मार्तण्डमन्दिरमपि भारतीयानां चिरानुवृत्तं सूर्योपासनमवबोधयति । मिश्रदेशे प्राचीननगरेऽप्रचलितस्य सूर्योपासनस्य पश्चात् ...... नृपतिसमये जनैः प्रतिरोधेऽपि बलात्प्रवर्तननेतिहासः, पञ्चसहस्रवर्षपूर्वतनेन तदीयसमाधिशवेन साकं वैदिकोक्तिच्छायानुविधायिसूर्यस्तोत्रमुत्कीर्णञ्चोपलभ्यते । पञ्चसहस्त्रवर्षपूर्वतनानां मिश्रदेशोपलब्धभाण्डशिल्पकलादीनामद्यत्वेगवेषणेन महेञ्जोदारो-हरप्पादिप्रदेशभूगर्भनिर्गतानां प्राचीनभारतवस्तुशिल्पकलादीनां च तुलनायां न केवलमुभयेषां समानता, किन्तु मिश्रीयानतिशयानां भारतीयाः कलादयो विवेचकैर्विविच्यमाना मिश्रादपि भारतस्य ज्यैष्ठगर्भितं समसूत्रानुवेधं प्रत्याययन्ति ॥
(ख) रोमदेशीयप्राचीनजातेः इटुस्कन (Etruscan) नाम्ना धार्मिके विषये सप्तमपञ्चमपुरुषाभ्यन्तरे वैवाहिकसम्बन्धनिषेधनियमे “वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः” इति प्राचीनस्मृतिनियम साम्यस्य प्राचीनरोमग्रीसादिदेशसम्प्रदायोपलब्धेषु लिङ्गपूजननन्दिपूजन-पितृश्राद्धाग्निशालाऽग्निहोम-गुरुकुलशिक्षाप्रणाली-जांतसंस्कार-पुनर्जन्मवादाध्यात्मवादिषु भारतीयासाधारणविषयप्रतिबिम्बनस्य; बृटिशानां पूर्वतमावस्थास्वरूपायाः केल्ट (Celtic) जातेर्धर्माचार्याणां डूइड (Druid)-जातीयानां धार्मिकनियमेषु विंशतिवर्षान्तं ब्रह्मचर्यधारणम्, अन्तिमे वयसि वानप्रस्थचर्या, उच्चकुले विद्यादानम्, आत्मनोऽमरत्ववाद इत्यादिकेषु भारतीयासाधारणधर्मच्छायाया दर्शनेन भारतीयसभ्यतासम्बन्धो न केवलं प्राचीनतरमूलशाखास्वेव अपि तु ततः परं विभक्तासूपशाखाजातिव्यवहारेष्वप्युपलभ्यते ॥