भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 125, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 125

उपोद्घातः १११

एव। टीकाकर्तृणां मतभेदेन तदंशस्यात्रेयाग्निवेशीयांशत्ववादेऽपि तत्रैवाध्याये—'इति षड्विधमुद्दिष्टं शस्त्रकर्म मनीषिभिः' (श्लो. ६१), तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते' (श्लो. ११९) इत्युक्तेः स्वारस्येन प्रस्थानान्तरीयः परकीयः संप्रदायो निर्दिष्टोऽवगम्यते। ततः पूर्वमर्शश्चिकित्सितप्रकरणे (अ. १२) अर्शसामुपचाररूपेण नानाविधौषधप्रयोगान् प्रथमं निर्दिश्य—

'तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्। दाहं क्षारेण चाप्येके दाहमेके तथाऽग्निना।
अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा ।। क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः' ।
(चि.अ. १२, श्लो. ३३)

इति शस्त्रक्षारदाहप्रक्रियाया एकीयत्वेन परकीयत्वापरपर्यायरूपेण निर्देशनं, तत्र अल्पज्ञानेन हानिसंभावाद्भूरितन्त्रज्ञानावश्यकत्वं ब्रुवता तस्मिन् विषये स्वस्य ताटस्थ्यमिवावबोध्यते आत्रेयाचार्येण। सुश्रुते—अष्टसु प्रस्थानेषु कतमत् प्रस्थानमुपदिशामीति दिवोदासोक्तिवत् पुनर्वसोरात्रेयस्योक्त्यदर्शनेन आत्रेयसंहितायां विषतन्त्रादिविषयान्तराणामनुप्रवेशेऽपि शल्यविद्याविषयस्यानुपदेशेन च तच्छिष्याणां षण्णां कायचिकित्साविषय एव ग्रन्थप्रणयनेन शल्यप्रस्थाने शिष्यभूतस्यान्यस्य कस्यापि नामानुपलम्भेन च अद्यत्वे कायचिकित्साविषये शस्त्रचिकित्साविषये चासाधारणवैदुष्यवतां भिषजां (Physician and surgeon) पार्थक्येन प्रसिद्धिवत् तदात्वे पुनर्वसोरात्रेयस्यापि कायचिकित्साविषय एवासाधारणवैदुष्यमाचार्यभावश्चासीदिति परिज्ञायते। महावग्गीयजीवकस्य तु कायचिकित्सायामिव शल्यचिकित्सायामप्यसाधारणं वैदुष्यमीक्ष्यते। पुनर्वसोरात्रेयस्य शिष्यत्वेऽस्येदृश्यासाधारणस्य सतीर्थ्यस्य अग्निवेशादीनां षण्णां पुनर्वस्वात्रेयशिष्याणां सहभावेन किमिति नाम नोपादीयेत आत्रेयपुनर्वसोरपि पूर्वतनस्यात्रि-परम्परागतस्यान्यस्यैवात्रेयस्यान्तेवासी जीवकः स्यादित्यपि कल्पयितुं न शक्यते। तथात्वे चरकसंहितायामुपक्रमग्रन्थे मध्येऽपि प्रसिद्धानां पूर्वेषामायुर्वेदविदामाचार्याणां निर्देशे तथा प्रसिद्धतरस्य महाभिषजो जीवकस्य नाम किमिति नोपात्तं स्यात्। बुद्धसामयिकजीवकगुरोरात्रेयादप्यर्वाचीनत्वेन संभावनेऽनेनात्रेयपुनर्वसुना काशीनरेशयोर्वार्योर्विदवामकयोर्वैदेहनिमेश्च समं सामयिकमुल्लेखं कुर्वता वैद्यविद्याध्येतृतया जातकाद्युक्तस्य काशीपतेर्ब्रह्मदत्तस्यापि नाम किमिति नोपादीयेत। तत्सामयिकेन काश्यपेनापि कथं नोपादीयेत। अग्निवेशस्याचार्यो हि आत्रेयपुनर्वसुशब्देन काम्पिल्यस्थानीयत्वेन निर्दिश्यते। बुद्धसामयिकजीवकाचार्यत्वेन ज्ञात आत्रेयस्तु तक्षशिलागतत्वेन निर्दिश्यते। काम्पिल्यं वेदकालात् प्रसिद्धं, तक्षशिला तु पश्चादेव प्रसिद्धतरेत्यवोचाम। अर्वाचीनतया कल्पने अनेनात्रेयपुनर्वसुना तथा प्रसिद्धायास्तक्षशिलायाः पाटलिपुत्रस्य च नाम किमिति नोपादीयेत, इत्येवमालोचने आत्रेयपुनर्वसोः कालोनार्वाग् भवितुं शक्नोति। ततः पश्चात्तनोऽन्य एव वसिष्ठादिशब्दवद्गोत्रनाम्ना आत्रेयशब्देन व्यवहृतः शल्यप्रस्थाने कायचिकित्सायां च वैदुष्यशाली तक्षशिलायामाचार्यः स्यात्। तत एव बुद्धसामयिकेन जीवकेनाधीतं स्यादिति कथयितुं शक्यते। अतः केवलमात्रेयशब्दमात्रमुपादाय पुनर्वसुरात्रेय एवास्य जीवकस्य गुरुरिति साधयितुं बलवत्प्रमाणमपेक्ष्यते, इत्यादि पूर्वं (पृ. ४१) प्रतिपादितमेव। तस्य वृद्धजीवकनाम्ना अपरस्य जीवकनाम्ना प्रसिद्धिरपि द्वयोर्भेदं पूर्वापरभावं चावबोधयति।। एवं परित आलोचनेन तिब्बतीयेोपकथोक्तात्रेयोऽपि पुनर्वसोरात्रेयाद्भिन्नः पश्चात्तनश्चेत्यायाति।।

यदि नाम पूर्वोपदर्शितदिशा एतत्तन्त्राचार्यस्य वृद्धजीवकस्य महावग्गादिबौद्धग्रन्थनिर्दिष्टस्य प्रसिद्धवैद्यवरस्य जीवकस्य च जन्मस्थानगुरुकुलचिकित्सनेतिहासादीनां मिथो विभिन्नानां विभेदं साधयतां बहूनां बाधकविसंवादकानां दर्शनेऽपि स्वस्वविषयोपरक्तदृष्टिभिर्लिखितेष्वितिहासेषु तथैतरथा वोल्लेखेऽपि प्रमेयांशमात्रमनुसन्धाय संवादः सम्भावनीयः। महावग्गे तत्पूर्वचरित्रानुसारेण कुमारभृत इति वक्तुमौचित्येऽपि कुमारभच्चो इति तद्विशेषणेन कुमारभृत्य इति परिचयविशेषलाभात् तत्साधकतया राजकुमारेणाभयेन पालितत्वरूपं यत्पूर्ववृत्तं निर्दिष्टमस्ति तत्र न स्वारसिकं सङ्गमनं भवति। पालीलेखतस्तस्य कुमारभृत्यत्वे कौमारभृत्यवेत्तृत्वमेव विनिगमकं स्यात्। पूर्वसम्प्रदायानुसारेण कौमारभृत्यशब्देन बालचिकित्सैवावबोध्यते। कालिदासेनापि कुमा¹रभृत्याकुशलैरिति तत्परत्वमभिप्रेयते। तादृशस्य महाभिषजो बालचिकित्सागतानुल्लेखेऽपि तद्वृत्तत्वं


१. 'कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि'। (रघुवंशे ३ सर्गे) ।।