भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 124, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 124

११० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

प्राचीनैरात्रेयकश्यपादिभिः काम्पिल्यगङ्गाद्वारादिकं तत्तत्स्थानमलङ्कुर्वद्भिरायुर्वेदाचार्यैस्तत्तत्स्थलेष्वेव स्वोपदेशपरम्परया शिष्यसंप्रदायाद्यभिवर्धनेन स्वस्वीया विचारा एव केवलं न प्रकाशिताः, अपि तु अद्यत्वे वैद्यविद्यापीठमधिष्ठितैस्तैस्तैर्वैद्याचार्यैस्तत्र तत्र प्रदेशे सम्भूय वैद्यसंमेलनसमितिमवस्थाप्य स्वस्वविचारोद्भूतानां नवनवानां प्राचीनानाञ्च विषयाणां विमर्शनमिव प्राचीनकालेऽपि यदा कदाचित् देशदेशान्तरागतैस्तदानीन्तनैः प्रसिद्धैस्तैस्तैराचार्यैस्तेषु तेषु स्था<sup></sup>नेषु सम्भूय परिषदमवस्थाप्यापि परस्परविमर्शा विधीयमाना आसन्। येनैवं विमर्शे शाणसङ्घर्षोज्ज्वलानि रत्नानीव तानि तानि सिद्धान्तरत्नानि, नवनवा विचाराः, स्वस्वाभिप्रायविचाराश्च स्वस्वसंहितासु निर्दिष्टाः दृश्यन्ते ॥

पाणिनिनाऽपि गर्गादिभ्यो यञिति (४-१-१०५) सूत्रीयगर्गादिगणे जतूकर्णपराशराग्निवेशशब्दानामुल्लेखनेन, कथादिभ्यष्ठगिति (४-४-२) सूत्रे कथादिगणे आयुर्वेदशब्दं प्रवेश्य तत्र साधुरित्यर्थे ‘आयुर्वेदिकः’ इति पदसाधनेन च तदात्वेऽप्यायुर्वेदविद्या समुन्नतावस्थायामासीत्, तत्र कुशलाविदांसोऽपि बहव आसन्नित्यपि प्रतीयते । 'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्' इति (२-१-६७) सूत्रकृता गौतमेन तत्तदौषधोपयोगोपदेशानुसारेण तत्तद्रोगनिवृत्त्यादीनां लाभेन आयुर्वेदस्य विषभूताशनिप्रतिषेधार्थानां मन्त्राणां च तत्तत्प्रयोगविशेषे फलानुपप्लवेन यथा प्रामाण्यं व्यवस्थितमेतत्तौल्येषु सर्वेषां वेदानां प्रामाण्यमिति आयुर्वेदादेः प्रामाण्यं सिद्धवत् कृत्वा तन्निदर्शनेन सर्वेषां वेदानां प्रामाण्यस्य व्यवस्थापनेन प्राचीनाचार्याणामेषां समयेऽप्यायुर्वेदविद्यायाः प्रचारः, संमाननं, प्रामाण्यं चाभ्युपगतमासीदिति च ज्ञायते, न्यायमञ्जरीका<sup></sup>रेण जयन्तभट्टेनाप्यस्मिन्विषये सुनिरूपितमस्ति ॥

महावग्गादिपालीग्रन्थलेखे कालाञ्जन-रसाञ्जन-स्रोतोञ्जनगैरिकाद्यौषधानां, भगन्दरादिरोगाणां त्रिदोषाणां, स्वेदनबस्तिकर्मादीनां च भारतीयायुर्वेदिकविषयाणां तदीयशब्दैर्व्यवहृतानामुपलम्भेन जीवकीयचिकित्सनवृत्तेन च बुद्धसमयेऽपि (B. C. 600) (B. C. 600) एतदीयः प्रचारो बहुशः स्फुटीभवति ॥

महावग्गीयजीवकस्य चरित्रानुसन्धाने गुरुणा परीक्षायै वनस्पत्यालोचनाय नियुक्तेनानेनैकस्याप्यनुपयोगिनो वनस्पतेरनुपलम्भवर्णनेन भेषजप्रयोगेण बहूनां तीव्ररोगाणां चिकित्सनेतिवृत्तेन च कायचिकित्सायाम्, अन्त्रभेदनकपालभेदपर्यन्तया शस्त्रप्रक्रिययाऽपि चिकित्सनेन शल्यप्रस्थानेऽप्यसाधारणं विशेषविज्ञानं तदीयमवगम्यते । तस्य महावग्गतिब्बतीयकथा-जातकादिलेखेभ्यो बुद्धस्य तत्कालीननृपादीनां च चिकित्सनस्य निर्देशेन तस्य बुद्धसामयिकत्वं, तल्लेखात्तस्य तक्षशिलायाममध्ययनमपि निश्चेतुं शक्यते । परं महावग्गलेखात् तद्विद्याप्रमुखात् कस्माच्चिदेवाचार्यात् तदध्ययनमायाति । तिब्बतीयेोप<sup></sup>कथात आत्रेयात् तदध्ययनं प्रतीयते इति केचन वदन्ति । तस्य मूलं तु न प्राप्यत इति पूर्वं (पृ. ४१) उक्तमेव । तेन स चात्रेयः चरकसंहिताया मूलाचार्यः पुनर्वसुरात्रेयएवेति न ततोऽवधार्यते । चरकसंहिताया लेखादपि पुनर्वसुरात्रेयो, भिक्षुरात्रेयः, कृष्णात्रेय इति त्रय आत्रेयास्तदानीं वैद्यविद्यायामाचार्यत्वेन प्रसिद्धा ज्ञायन्ते । आत्रेय इति गोत्रनाम । तद्गोत्रोत्पन्ना अनेके पूर्वापरा आत्रेयशब्देन शब्द्यन्ते । जीवकस्याचार्यत्वेनाभ्युपगत आत्रेयः कतम इति एतावतैवानिश्चीयमानतया आत्रेयशब्दसाम्यमात्रेण स एव पुनर्वसुरात्रेयो जीवकगुरुरिति न वक्तुं शक्यते । आत्रेयेण तिस्रैषणीयाध्याये त्रिविधौषधवर्णने ‘शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्च’ इति शस्त्रप्रणिधानस्य नाममात्रोद्देशोऽस्ति (पृ. ५७८) । सोऽपि तदध्यायीयविषयाणामन्ते कृष्णात्रेयत्वस्योल्लेखात्तदीयः प्रतीयते । काश्यपसंहितायां ‘परतन्त्रस्य समयम्’ इति शल्यविद्यायाः परतन्त्ररूपेणोल्लेखवदात्रेयेणापि ‘धान्वन्तरीयाणाम्’ ‘एके’ इत्यादिशब्दैर्धान्वन्तरंसंप्रदायो निर्दिष्टः। चिकित्सास्थाने द्विव्रणीयाध्याये शल्यप्रस्थानीयोपचाराणामपि निर्देशोऽस्ति । परं स निर्देशः पश्चाद्दृढबलपूरितांश


१. हिमवतः पार्श्वे, चैत्ररथवने, जनपदमण्डले पाञ्चालक्षेत्रे काम्पिल्यराजधान्यां, पञ्चगङ्गे च आयुर्वेदीयविचाराय महर्षीणां समवायश्चरकंसंहितायां तत्र तत्रोल्लिखितोऽस्ति । तत्रैव विमानस्थाने परिषदोऽपि निरूपणमस्ति । काश्यपसंहितायामपि जातिसूत्रीये ‘इति परिषद्’ (पृ. ७९) ‘भूयांसः’ (पृ. १५३) इति परिषदो विद्वत्समवायस्य चोल्लेखोऽस्ति ॥ २. न्यायमञ्जर्याम् (पृ. २५३-२६०)। ३. Tibetan Tales P. 98.