भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 142, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 142
१२८काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

विदुषा निर्दिष्टतया भैषज्यशास्त्रसम्बन्धिन उपदेशान् ददानः, तदुपदेशग्राहिभिराद्रियमाणः, मिश्रे भैषज्यविद्योन्नतिं दृष्ट्वा प्रहृष्यन्, भैषज्यसम्प्रदायप्रवर्तकस्य डेमोकेडिसस्य स्वान्तेवासिसम्बन्धं समागमं च बह्वन्नयं पाथागोरसो भैषज्यविज्ञानस्यापि समादर्ता ज्ञाता प्रवर्तयिता चासीदिति समर्थितं भवति । भारताद्दार्र्शनिकविषयग्राहितया मिश्रगतभैषज्यविद्याद्रष्टृतया चोल्लेखाद्भारते मिश्रे चाऽऽगतत्वेन ज्ञातस्य स्वास्थ्य-सम्बन्धिभिर्बहुश उपदेशैस्तद्द्विधाभिरुचिं प्रकाशयतः पाथागोरसस्य भैषज्यविषयविज्ञानविशेषाणां सञ्चयस्तद्विषये विस्मयमावहतो मिश्रात्, एतद्विषये पूर्वकालादेव प्रतिष्ठिताद्भारतादपि सञ्जातो भवितुमर्हति । इत्थं च ग्रोट्सनिर्दिष्टानां तदीयोपदेशगतस्वास्थ्य-सम्बन्धिविषयाणां भारतीयायुर्वेदे लभ्यतया हिपोक्रिटसीयभैषज्यविज्ञानेऽपि भारतीयवैद्यकविषयसाम्यस्य बहुशोऽनुसंहितत्वेन च भारतसम्बन्धमनुदर्शयता पाथागोरसेन साक्षात् परम्परया वा भारतीयविज्ञानालोकेन पौर्वकालिकं ग्रीसभैषज्यविज्ञानमुद्भासितमिति समर्थयितुं हृदयं पुरः स्फुरति ।।

किञ्च, हिपोक्रिटसान्नातिपूर्वं ग्रीसे वर्तमानेषु त्रिषु भैषज्यसम्प्रदायेषु एकतमसम्प्रदायप्रवर्तकस्य एम्पीडोक्लिसस्यापि ईरानभारतोपकण्ठप्रदेशपर्यन्तमुपगमनं, भारतीयदार्शनिकविद्याया ग्रीसे नयनं च P. C. राय¹महोदयेन वर्णितमस्ति । भारते पाञ्चभौतिकवादवच्चातुर्भौतिकवादस्यापि पूर्वकालादुपलम्भः, अनेन एम्पीडोक्लिसैन चतुर्भूतवादस्य ग्रीसे अभूतपूर्वं नवप्रचारणं, नवभैषज्यसम्प्रदायस्याप्युद्भावनं, हिपोक्रिटसेन तदभ्युपगतचातुर्भौतिकशरीरवादस्य प्रत्याख्यानं, तेन पूर्वसम्प्रदायत्रये आवापोद्वापविधया परिष्कृत्या च स्वसम्प्रदायस्योद्भावनं चावगम्यमानमनेन हिपोक्रिटसपूर्वजातेन एम्पीडोक्लिसैन साक्षाद्भारतमेत्य किंवा ईरानद्वारा भारतीयाया दर्शनविद्याया इव दार्शनिकविषयसम्पृक्ताया भैषज्यविद्याया अप्युपादानं विहितमेव स्यादिति निदर्शयति । एतद्द्वाराऽपि भारतीयं भैषज्यविज्ञानं ग्रीसे प्रविष्टं, हिपोक्रिटीयहृदयेऽपि सङ्क्रान्तं भवितुमर्हति । एवमुपलक्षणेन ईरानभारतादिप्राच्यदेशानुपैत्य भारतीयविद्यायाः साक्षात्परम्परया वा पाश्चात्यदेशोपसंक्रमणे द्वारभूता अन्येऽपि कति ग्रीकविद्वांसः पूर्वेतिवृत्तेषु निलीयावस्थिताः, विलुप्तेतिवृत्ता वा भवेयुः । स्पष्टोल्लेखं विना न परिच्छेत्तुं शक्यते ।।

न केवलं पूर्वकाले, हिपोक्रिटसस्य पश्चात्समयेऽपि भारतीयव्यवहारदर्शनार्थमुपेतस्य इविमेरसस्य (Evemerus) निदर्शनेनापि पूर्वपरम्परानुवृत्तां भारतीयसभ्यतामध्येतुं ततः पूर्वमपि कति ग्रीसदेशीया भारतमुपेताः स्युः । पूर्वतो भारतोपकण्ठमधिष्ठितैर्वा यवनैः कियती भारतीया सभ्यता स्वदेशे प्रतिसंक्रामिता स्यात् ।।

भारतीय विदुषां ग्रीसोपगमः

न केवलं ग्रीसदेशीयानां प्राच्यदेशे आगमनम् अपि तु भारतीयानामपि विदुषां वैद्यानां च पाश्चात्यदेशेषु उपगमनं, नयनं, प्रेषणं समादरणमुपदेशनं चैवमादीन्यपि पूर्वेतिवृत्तेषूपलभ्यन्ते—

B. C. 330 सामयिकस्य प्रसिद्धगायकस्य अरिष्टाटलशिष्यस्य अरिष्टोक्सेनस (Aristoxenus) नामकस्य लेखकस्य ग्रीसदेशस्य एथेन्सराजधान्यां वर्तमानेन सॉक्रेटिस (Socrates B.C. 469-399) नाम्ना प्रसिद्धेन दार्शनिकेन सह मानवात्मविषये तदीयसिद्धान्तमुपहारूपेण प्रतिवदतः कस्यचिन्द्भारतीयस्यामिति आध्यात्मिकसम्भाषणस्यावगमेन, Eusebius विदुषाऽपि तत्संवादस्योल्लेखेन च B. C. चतुर्थशताब्द्याः पूर्वतोऽपि भारतीयानां यवनैः सह परिचय आसीदिति H. G. Rawlinson महाश²येन प्रकाशिताल्लेखादपि अलेक्जेण्डरस्य भारतोपगमात् पूर्वमपि भारतीयविदुषां ग्रीसदेशे उपगमः, ग्रीसभाषाया विज्ञानं, ग्रीसदेशीयप्रसिद्धविद्वद्गोष्ठ्योऽपि भारतीयानां विचार गौरवं च स्पष्टं प्रतीयते ।।


१. History of Hindu Chemistry by P.C. Ray. Vol. I P. 22. Amrit Bazar Patrika, 1936. २. Attention has repeatedly been drawn, by Garbe and others, to the striking resemblances between Indian and Greek philosophy. The parallels between the Eleatic and Sankhya schools, and between Orphism and Buddhism, are curiously