भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 147, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 147

उपोद्घातः | १३३

प्रसिद्धं ग्रीसाधिपमलेक्जेण्डरमुपादाय ग्रीसदेशे इत्यपि बोद्धुं शक्यते। परं समयवैषम्येण नृपान्तराणां तत्सामयिकता च अत्र अलीकसुन्दरशब्देन ग्रीसाधिपतिमलेक्जेण्डरमनवबोध्य अशोकसामयिक एपिरसप्रदेशीयो मतान्तरण कोरिन्थप्रदेशीयोऽलेक्जेण्डरो गृह्यते ऐतिहासिकैः। राजान इतिपददर्शनेन अशोकसमकालिक एवालेक्जेण्डरः स्यात्। तथात्वेऽपि अष्टशतयोजनान्तरालेषु परितो देशेषु धार्मिकप्रभावपातस्य, सीरियायाः समन्ताद्गतेषु देशेषु भारतीयभैषज्यप्रस्थानस्यापि विशेषतः प्रभावपातस्य, ग्रीसपूर्वस्रोतःस्थानत्वेनाभ्युपगते मिश्रऽप्येतत्प्रभावालोकपातस्य चास्माच्छिलालेखद्वयादवगमेन, ग्रीसस्य मिश्रसीरियोपान्तवर्तितया, एपिरसकोरिन्थप्रदेशयोरपि ग्रीसान्तःपातितया, ग्रीसेन भारततदीयविद्ययोः परिचयस्य प्राप्ततया, ग्रीसाध्यात्मविद्यायां भारतीय-दर्शनप्रभावोपलम्भेन, हिपोक्रिटसनाम्र्ना उत्तरोत्तरं ग्रन्थसङ्कलनस्य तद्ग्रन्थेष्वार्युर्वेदीयविषयसाम्यस्याप्यवगमेन च दार्शनिके धार्मिके च विषये इव भैषज्यविज्ञानविषयेऽपि साक्षात् परम्परया वा अशोकसमयेऽपि भारतीय आलोको ग्रीसेऽपि विभाव्यते। तदात्वेऽपि भारतीयायुर्वेदविद्यायाः, भारतीयचिकित्सापद्धतेः, भारतीयौषधानां, भारतीयवैद्यानां, भारतीयवैद्यकग्रन्थानां च पाश्चात्यदेशेष्वपि कियानालोकः कियद्वा गौरवं चासीदित्यवबोधः पर्याप्तो भवति।

ग्रीसभारतयोः पुराकालात् सम्बन्धः

'अद्यपर्यन्तं साधकविशेषानुपलम्भेऽपि प्राक्काले ग्रीसभारतयोर्मियो यातायातावाणिज्यसम्बन्धदर्शनेन भारतीयवैद्यकविज्ञानं ग्रीसदेशीयानां श्रुतौ पतितं प्रतीयते। अलेक्जेण्डरसमयत्तस्तु बहुकालपर्यन्तं ग्रीसभारतयोर्धनिष्ठसम्बन्धस्यावगमेन, हिपोक्रिटस-ड्यासाकोराइडिस (Dioscorides) ग्यालनादीनां लेखाद्यनुसन्धानेन च नानाविधौषधानि रोगनिवर्तनपद्धतयश्च यानि भारतीयभिषग्भिर्व्यवहृतानि, तानि अभ्यासिभिग्रीसभिषग्भिरुपात्तानि प्रतीयन्ते' इति बक (Buck) म^१हाशयो निर्दिशति ।।

'भारतीये ग्रीसीये च प्राचीनवैद्यकविज्ञाने बहुशः साम्यं दृश्यते। तत्र ग्रीसीयविज्ञाने भारतीयविज्ञानस्य प्रभावं केचित्र मन्यन्ते, केचन संशेरते; तद्विस्मयावहम्। हस्तलिखितप्राचीनपुस्तकोपलब्भात् प्राक् प्रसिद्धप्राचीनभारतीयग्रन्थानां समयावधारणं दुष्करमेवासीत्। परं भारतीयानां विज्ञानकलादिषु बहुशः शाखासु परनिरपेक्षभावेन विचारः, देशान्तरविज्ञानालोकस्यावधीरणं चासीत्। भारतीयभैषज्यविषयकेऽन्वेषणे अद्यत्वे बहुशो भारतीयविषयाणां भारवोपज्ञभाव आसीदित्यसौ पक्षो बहुभिरङ्गीक्रियते' इ^२ति;


१. Buck in his book, 'The Growth of Medicine from the Earliest Time to 1800', seems to belittle the influence of the old Indian Medicine on the old Greek Medicine, the progenitor of the Present Western medicine. But probing the history further he has to modify his opinion and say 'that is is reasonable to suppose, although directly confirmatory evidence has not yet been discovered, that through the chanels of trade between the two countries, some knowledge of the doings of the physicians of India must have reached the ears of their Greek brethren. On the other hand at a later period of history (after the invasion of Alexander the Great) the relations between the two countries became quite close and were kept up without a break for several hundred years. During the earlier part of this period, as appears from the writings of Hippocrates, Dioscorides and Galen, various drugs and methods of treatment employed by the physicians of India were adopted by the practitioners of Greece'.
Fourth Oriental Conference Vol. II Pp. 425-426.

२. Neuberger says:—'The similarity between Indian and Greek medicine of the period is in its outline and in certain details so striking that it is hardly surprising that the originality of the former has frequently been questioned or even denied. The more so is this true since the dates of the more important Indian works are fixed with the greatest difficulty, and before the discovery of the most recent manuscripts they quite indefinite.
In consideration of the outstanding independent achievements of the Indians in most bran hes of science and art, and of their aversion from foreign influences, the trend of opinion to-day, informed by recent discoveries in in favour of the originality of Indian medicine in its most salient features'. Neuberger. History of Medicine Vol I P. 45.