भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 155, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 155
उपोद्घातः१४१

भारतीयसेनाया अपि संमर्दस्य पूर्वं (पृ. ७६) निर्दिष्टस्यानु¹सन्धाने इरानेन सह भारतस्य घनिष्ठो मैत्रीसम्बन्धश्चासीदिति तु स्पष्टमेव। अभियातव्यस्य ग्रीसस्य भारतेन, अभ्यायातानां भारतीयानां ग्रीसेनाप्यवश्यं विज्ञेयतया ग्रीसभारतयोः हिपोक्रिटसतः पूर्वमपि मिथः परिचयो नासीदिति न वक्तुं शक्यते। तस्मिन् युद्धे भारतीयानामिव मिश्रीयानामपि सद्भावेतिवृत्तोपलम्भेन मिश्रभारतयोरपि मिथः परिचयः सम्भवति। युयुत्सया परकीयदेशं यान्त्या भारतीयसेनया सह महाभारतकौटिलीयलेखानुसारण भारतीयैर्भिषग्भिरपि भवितव्यमेव। तदात्वे न केवलं ग्रीसेन विशेषतः सहयोगिभिर्मिश्रीयैरपि भारतीयभिषजां परिचयलाभोऽनुमीयते। परं ततः प्राक्तनं मिश्रीयं भैषज्यविज्ञानं सापेक्षं निरपेक्षं वेति निर्णयो विचारमपेक्षते॥

मिश्रगतं प्राचीनं भैषज्यविज्ञानं किमात्मकमासीदित्यनुसन्धाने एबिरस-पेपिरस (Ebers Papyrus) नाम्ना ख्यातानि त्वक्पत्राणि प्राचीनभैषज्यविज्ञानचिह्नान्युपलभ्दानि। येषु काहुन-पेपिरसस्य प्रायः B. C. 1850 समयम्, एडविनस्मिथैनोपलब्धानां त्वक्पत्राणां प्रायः B. C. 1600 समयम्, एबिरस-पेपिरसस्य प्रायः B. C. उपसहस्रवर्षपूर्व समयं सम्भावयन्ति। परमेषां समयनिर्देशे विदुषां मतभेदस्यापि दर्शनेन काल्पनिके समये न्यूनाधिकभावोऽपि सम्भवेत्। काहुन-पेपिरसपत्रे विरेचनादिर्विषयः, ऐडविन-स्मिथोपलब्धेषु त्वक्पत्रेषु शल्यसम्बद्धाः ४८ विषयाः, रोगपरिज्ञानं, प्रतीकारः, व्यवहारगतौषधानि, रोगचिकित्साप्रक्रिया च; एबिरस-पेपिरसपत्रे सर्पदंशनादयः क्षयान्ताः १७०, मतान्तरे ७०० रोगा निर्दिष्टाः सन्तीति च वर्णय²न्ति विवेचकाः। ‘कतिपयानि रोगप्रतीकारव्यवस्थापत्राणि चोपलब्धानि। येषु कतिपयेषु पल्लीरुधिरं, शूकरकर्णदन्तमांसमेदांसि, कच्छपमस्तिष्कं, शयितायाः स्त्रियाः स्तन्यं, ब्रह्मचारिण्याः स्त्रिया मूत्रं, मनुष्यगर्दभश्वसिंहमार्जारयुकशुक्रमित्यादीन्यौषधानि निर्दिष्टानि दृश्यन्ते। कतिपयेषु मान्त्रिकी प्रक्रियापि निर्दिष्टाऽस्ति। प्रायस्ते मान्त्रिकप्रयोगेषु विश्वासवन्त आसन्। द्वादशवंशस्य राज्ञा निखातशवेन सह चषकाणि (Vases), लघुदर्व्यः (Spoons), शुष्कौषधानि, मूलानि चोपलब्धानि’’³ इत्यपि विल्डुराण्ट³ (Will Durant) महाशयो निरूपयति। एवमुपलम्भेन मिश्रे पुराकालेऽपि भैषज्यप्रवृत्तिरासीदिति ज्ञायते। मिश्रे भैषज्यविद्यासम्बन्धिनो लेखास्त्वक्पत्र (पेपेरी) रूपेण म⁴न्दिरेषु स्थाप्यमाना आसन्। राजकुलेऽपि मान्त्रिकभैषज्यप्रक्रिया, तस्याः प्रतिष्ठा चासीत्। मनुष्याणां देवानां चारोग्यसंपादकतया ‘रा’नामकदेवताया निर्देशः एबिरस-पेपिरसपत्रे लभ्यते इत्यपि वदन्ति। भारते रविरिव⁵ तदीयो ‘रा’ देवः प्रतीयते॥

असीरिया बेब्लोनियोयोः पूर्वं भैषज्यज्ञानम्

असीरिया-बेब्लोनियाप्रदेशोऽपि प्राचीनभैषज्यसम्बन्धिविषयोपलम्भः पूर्वं (७४) दर्शित एव। बेब्लोनियनीयप्राचीननृपस्य हेमूर्बन् (Hammurabi B. C. 100 मतान्तरेण B. C. 2500) नामकस्य सामयिकानां त्रयोदशलेखानां निर्गमनवृत्तमुपलभ्यते। यत्र साधुभावेन व्रणादिचिकित्सकानां प्रदेयं पारितोषिकद्रव्यं शस्त्रचिकित्सनादौ विपर्ययकृतां दण्डनमित्यादयो विषयाः सन्तीत्यच्यते। मिथ्योपचारिणां चिकित्सकानां दण्डो मन्वा⁶दिभिरपि निर्दिष्टोऽस्ति। हेमूर्वन्नृपस्य सामयिकं पूर्णं वर्णनमनुपलभ्य तादात्विकी परिस्थितिनैतावता सम्यक् परिच्छिद्यते। तदुत्तरमसुर⁷वनिपालसमये भैषज्यविद्यायां विशेषोऽवगम्यते। येन


१. (a) History of Greece Vol. V P. 20; by Grotes.
(b) Greater India by Kalidas Nag No. I, P. 15.
२. The Story of Civilization P. 182-83; by Will Durant.
३. The Story of Civilization P. 183; by Will Durant.
४. E. R. E. Vol. VI P. 541.
५. E. R. E. Vol. IV P. 750.
६. चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः। अमानुषेषु प्रथमो मानुषेषु तु मध्यमः॥ मनुस्मृतौ ९. २८४.
भिषङ् मिथ्याचरन् दण्ड्यस्तियक्षु प्रथमं दमम्। मानुषे मध्यमं राजपुरुषेषूत्तमं दमम्॥ याज्ञवल्क्यस्मृतौ. २.२४२
७. History of Assyria by Olmstead P. 492.