भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 156, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 156
१४२काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

पूर्व्वतः प्रवृत्तो मान्त्रिकोपचारः शैथिल्यमानीयत। परं तदात्वेऽपि मान्त्रिकी प्रक्रिया तत्रानुवर्त्तमानाऽऽसीत्। भैषज्यविद्यायां बेब्लोनियनीयं स्रोतो मिश्रस्य पूर्व्वस्रोतः$^१$ इत्युच्यते कैश्चिद्विपश्चिद्भिः॥

मिश्रबेब्लोनियेरानचीनेषु भारतीयशब्दादिसाम्यम्

मिश्रबेब्लोनियाऽसीरियाचाल्डियासुमेरियादिप्राचीनदेशीयसभ्यताया अनुसन्धाने भारतीयशब्दप्रतिच्छायानां शब्दानां भारतीयविषयप्रतिबिम्बारयितानां विषयाणां तेषु तेषु प्राचीनस्थानेषूपलम्भः, किं बहुना इक्ष्वाकुप्रभृतीनां भारतीयपूर्व्वनृपनामनामपि सुमेरियाप्रदेशीयनृपनामसंवादोपलम्भः समसभ्यतासम्बन्धमनुदर्शयतीति, केषुचिद्देशेषु क्वचन भैषज्यसम्बन्धिशब्दविषयविशेषादीनां बिम्बानुबिम्बभावोऽप्यस्तीति च (पृ. ७२-७६) पूर्वं निर्दिष्टमस्ति। अन्येऽप्येवंरूपा$^२$ दृश्यन्ते—

भारते.मिश्रे.भारतेबेब्लोनियायाम्
सूर्यः(हरिः)होरसअहि
ईश्वरःओसिरीससत्यव्रतहसिसद्र
ईश्वरीईसिस्अहिहन्ईहन्
शिवसेवदहनदगनु
शक्तिसेखेतचन्द्रसिन
प्रकृतिपख्तवायुविन
श्वेतसेतमरुत्मतु, मर्तु
मातृमेतेरदिनेशदियानिसु
सूर्यवंशीसूरियसमार्डिकमर्द्दूक
क्षत्रियखेतअप्अप्सु
अत्रिअत्तिस्तमस्त्यामत
मित्रमिश्रपुरोहितपटेसिस
शरद्सरदीश्रेष्ठिसेठ
रविरातैमाततियामत्

भा$^३$रत इव मिश्रे लिङ्गपूजनं वृषस्यादरः, बेब्लोनियां पृथ्व्याः पूजा इत्यादयो बहवः समसभ्यतासम्बन्धा विज्ञायन्ते॥

इरानीयानां प्राचीनमूलग्रन्थस्य जेन्दावस्थायाश्चतुर्षु भागेष्वेकतमः वेन्दिदादनामको विभागोऽस्ति। तदीयेषु प्रकरणेषु भैषज्यसम्बन्धिनो विषयाः सन्ति। तत्र सामावंशोद्भवः थ्रितो नाम सर्वप्रथमो वैद्य आसीत्, स रोगनिवृत्तये अहुरोमज्दानामकं तदीयं देवं सम्प्रार्थ्य सोमेन सह वर्धमाना रोगनाशिनीर्दशसहस्रोन्योषधीर्लेभे; वनस्पतीनां हओमः (सोमः) राजाऽऽसीत्। स थ्रितः क्षय्रवैर्यात् सहरवराच्च रोगनिवर्तकोपायान् विज्ञाय शस्त्रचिकित्साविज्ञानं च प्राप्य ज्वरकासशिरोरोगक्षयादीन् रोगान् न्यवारयत् इत्यादीनीतिवृत्तानि, तत्तद्रोगविशेषोपचारादयः, वैद्यैरिन्द्रियौषधतन्निर्माणज्ञानवद्भिः सुशीलै रोगप्रसादकैश्च भवितव्यमित्यादयः


१. E. R. E. Vol. VI P. 541. २. (a) The Modern Review, June 1910 P. 530-533. (b) Rgvedic India by A. C. Das P. 228-233; 261-265; 178-180. ३. (a) The Modern Review-June 1910 P. 530-533. (b) The Edinburgh Review (See Ibid) (c) Phallism; London (1889), P. 54.

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित) · पृष्ठ 156, कुल 942 में से · BharatKosha