भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 157, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 157

उपोद्घातः १४३

शिक्षाविशेषाश्च तत्र लभ्यन्त इति $^१$वर्ण्यते। जेन्दावस्थायां वैदिकसाहित्ये चालोच्यमानयोः तदीयदेवतानां वैदिकदेवतानां च शब्दसाम्यं न केवलं देवताविषये, तदीयगाथानामनुवादतः संस्कृतशब्दानां बहुशस्तौल्यमस्तीत्युपवर्ण्यते। प्राचीनभारतसम्प्रदाय इवाग्न्युपासनहोमेष्ट्यादियागप्रभृतयो विषयाः सन्तीति पूर्वं (पृ. ७६) वर्णितमेव। हओमशब्दितस्य सोमस्य प्रशंसा ओषधिराजत्वं यागोप योगश्रैवमादयस्तत्र दृश्यन्ते।।

जेन्दभाषायां संस्कृतभाषायां च बिम्बानुबिम्बभावेनेत्यं शब्दा$^२$ दृश्यन्ते—

संस्कृतम्जेन्द.संस्कृतम्.जेन्द.
सरस्वतीहरह्यतीअसुरअहुर
सप्तसिन्धुहप्तहिन्दुदेवदैव
सोमहओमविश्वेदेवविश्योदैव
नासत्यनाहत्यनराशंसनैयोंसंघ
अर्यमन्एर्यमनवायुवयु
विवस्वत्विवङ्ह्वत्वृत्रहावेरेथ्रघ्न
काव्यउशनस्कवउसदानवदानव
अध्वर्युरथ्वीइष्टिइशित
आहुतिआजूइतिहोताजओता
बर्हिःवरेश्मन्आप्रीआफ्री
गाथागाथापशुपशु
अथर्वन्अथ्रवन्अहिअजि
यज्ञयस्नअपांनपात्अपंनपात्

इत्यादयो बहुशः शब्दास्तद्भवतत्समादिरूपेण एकच्छायावगाहिनो दृश्यन्ते। एतद्विषये Gatha by J. M. Chatterji & Yasna by L. Mills इत्यत्र विशेषतो निरूपितमस्ति। वेदे इव अवेस्तायामपि प्रधानदेवतास्त्रयस्त्रिंशत्संख्यया गण्यन्ते। एवं दर्शनेन प्राचीनेरानस्य प्राचीनभारतस्य च सम्बन्धो मिश्रासीरियाबेब्लोनियादेशापेक्षयाऽपि घनिष्ठ आसीदिति प्रतीयते।।

चीनदेशेऽपि प्राचीनौषज्यविषयोपलम्भः पूर्वं (पृ. ७५) निर्दिष्ट एव। तद्देशीयस्य सर्वप्राचीनस्य भैषज्यग्रन्थस्य (B. C. 2597) समयो व$^३$र्ण्यते। चीनदेशे भारतीयस्य बौद्धधर्मस्य प्रभावपातः, तद्धर्मप्रचारकाणां भारतीयानां तत्रोपगमः, भारतीयग्रन्थानामपि तत्र पूर्वकालात् प्रचारः, महाभारतादिषु भारतीयप्राचीनग्रन्थेष्वपि चीनदेशस्य चीनांशुकादेः, तन्त्रग्रन्थेषु चीनाचारस्य निर्देशः, कौटिल्यार्थशास्त्रे चीनदेशागतवस्तुषु शुल्कव्यवस्थानिर्देशश्चेत्यादीनां मिथो व्यवहारसाधनानामुपलम्भेन वैदिकसमये स देशः केन नाम्ना व्यवहृत आसीदित्यज्ञानेऽपि चीननाम्ना तद्देशस्य भारतेन, भारतस्यापि तेन परिचयो मिथो यातायातवाणिज्यादिसम्बन्धश्च पूर्वकालादेवासीदिति स्पष्टीभवति। काश्यपसंहितायामपि चीनदेशस्योल्लेखोऽस्ति।।

भारतचीनयोरन्तरावर्त्तगते काराशारनामकस्थाने वर्तमानायां प्राचीनकूचभाषायामपि भारतीयौषधवाचकशब्दविशेषाणां तत्समतद्भावादिरूपेणोपलम्भः पूर्वं (पृ. ७५) दर्शित एव।।


१. The Zendavesta Vol. I (S. B. E. Vol. IV) P. 225-230. २. Essay on the Religion of the Parsis by M. Haug P. 267. ३. The Surgical Instruments of the Hindus–Vol. I, P. 341; by G. N. Mukhopadhyay.