भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 16, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 16

काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

सचेता आत्मनो दुःखं समीहते । यावन्तो व्यापारास्तन्निवर्त्य सुखं साधयितुं प्रवर्त्यन्ते, परं सुखसमीहया प्रवर्तमानोऽप्ययथावेदनेन समुपचारपथं परिहायापचारवर्त्मनि प्रवृत्तो दुःखेन खलीक्रियते लोकः । एतस्यैव मार्गालोकाय सर्वाणि शास्त्राणि सर्वे लोकाश्च प्रावर्तन्त प्रवर्तन्ते च ॥

दुःखं च मनःशरीरादिकमात्मानं निमित्तीकृत्य जायमानमाध्यात्मिकं, पञ्चभूतप्राण्यादिभूतनिकायं निमित्तीकृत्य जायमानमाधिभौतिकं, ग्रहयक्षराक्षसविनायकादिकं देवनिकायं निमित्तीकृत्य जायमानमाधिदैविकमिति त्रिषु प्रस्थानेषु विभज्यते । एषु नानाप्रस्थानेषु यं कञ्चन दुःखविशेषमभिलक्ष्य तत्तन्निवृत्तिप्रधानोपायप्रदर्शनेन आध्यात्मिकानि साङ्ख्यादिदर्शनानि, उपासनाशास्त्राणि, नीतिभैषज्याद्यैहिकशास्त्राणि चार्थवन्ति भवन्ति ॥

परमेतान्याध्यात्मिकान्यैहिकानि च सर्वाणि शास्त्राणि शरीरिणां सुजीवनमुपलभ्यैव स्वात्मलाभाय कल्पन्ते । यः कश्चन सचेता नवनवोत्साहसम्पन्नः सदुपायान् विज्ञाय तत्परिष्कृतेन वर्त्मना आत्मानमुन्निनीषुः क्रमेण समीहितं स्थानमारोढुं पारयति । दुर्जीवनेन स्खलद्गतिः क्रियत्याऽपि मात्रया पुरः सर्तुमपारयन्नात्मना कमप्युपयोगं साधयितुं न प्रभवतीति शारीरान् सुजीवनोपायान् प्रतिपादयच्छास्त्रं विशेषतः शास्त्रान्तराणामप्युपजीव्यं भवति । प्रथमतः शरीरबाधया विना कृता स्थितिरस्माज्जीवनादुपेया ऐहिकीः आमुष्मिकीश्चोन्नतीर्गमयति । शरीरं नाम नानाविधैः स्थूलसूक्ष्मातिसूक्ष्मैरवयवैर्गहनाभिस्तत्तदंश-क्रियाप्रक्रियाभिर्यथावदप्रमेयमैश्वरशिल्पमयं महायन्त्रमिवावलोक्यते । यत्र क्वचन स्थूलेषु सूक्ष्मेषु वाऽशेषेषु दृश्याऽदृश्या वा या काचन विक्रिया समुत्पद्यमाना समस्तं शरीरं, न केवलं शरीरमपि तु तदनुस्यूतं शरीरशरीरिसमवायात्मकमान्तरमात्मानमपि विकलभावं प्रापयति । शरीरविक्रियया विक्रियमाणः शरीरी विकलेनान्तररात्मना शैथिल्यमापन्नो दुःखान्तराण्यमपि निरसितुं न भवति । शरीरे निर्बाधे दुःखान्तराणां परिहारोपाया विधातुं पार्यन्ते, फलन्ति च । शरीर एवामयेन विकलतामुपेते तदनुषङ्गेणान्तःकरणे च व्यथिते कठिनतपश्चर्यातीर्थाटनपरोपकारप्रभृतयो धार्मिका विषयाः, शिल्पवाणिज्यवार्तादेशान्तरभ्रमणादय आर्थिका उद्योगाः, यथाकाममाहारविहारविषयोपभोगादयः कामिकाः प्रयोगाः, मानसिकविचारविशेषक्रोधलोभाद्यान्तरिकशत्रुदमनेन्द्रियजयेश्वरभजनादयो मोक्षोपाया अपि न यथावत् प्रवर्तयितुं शक्यन्ते । उक्तमेव— ‘धर्मार्थकाममोक्षाणामारोग्यं मूलसाधनम्’ । (च. सू. अ. १) इति ॥

तदेवमारोग्यपरिप्लुते जीवनतरौ सम्यञ्चि फलानि फलन्तीति तत्सम्पत्त्या चिरजीवनाय सुजीवनभावाय च शारीरबाधामयान्यैहिकानि च दुःखान्यवश्यं परिहरणीयानि भवन्ति । शारीराणि दुःखानि च नानाविधरोगात्मना शतधा प्ररोहन्ति । ते च शतशो रोगा नैकेनोपायेनोपदेशेन वा विज्ञेयाः परिहरणीया वा भवन्तीति तेषां निवृत्तयेऽनुत्पादाय च ये यावन्त उपाया व्यवस्थितायस्तेषां यावद्बुद्धिबलोदयं परिज्ञानमावश्यकं देहिनाम् ॥

तत्र हेया दुःखात्मानो रोगाः, तेषां हेतवः (निदानादीनि) हेयरोगाणां हानं (निवृत्तिः), हाने साधनानि (भेषजादीनि) चेति चतुर्धा विज्ञातव्यानि भवन्ति । हेयानां स्वरूपाणि परिचित्य ज्ञातैस्तदीयहेतुभिः पूर्वमेव परिह्रियमाणैस्तदनुत्पत्तये, विज्ञातैश्च हानसाधनैः कथञ्चनोत्पन्नानामपि तेषां निवृत्तये भवितव्यम् ।

लोकानां श्रेयः साधनतया हितावहेषु विविधेषु ज्ञान विज्ञानप्रभेदेषु सर्वोपजीव्यं यद्विज्ञानरत्नं तदेवायुर्वेदविज्ञानमित्युच्यते । एतदीयं विज्ञानं न केवलं स्वस्य एकद्रव्यव्यक्तिमात्रस्य वोपकृतये, अपि तु कुटुम्बस्य समाजस्य देशस्याप्युपकृतये समुन्नत्ये च भवतीत्यवश्यं विज्ञेयं शरीरिभिः, उपदेष्टव्यं च विज्ञातृभिरिति विशेषतोऽर्थवानस्यावबोध उपदेशश्च ॥

आयुर्वेदस्य प्राचीनत्वम्

यदा किल स्रष्ट्रा भूतानि भौतिकानि च सृष्टानि तदात्व एव प्राणिनां दीर्घायुष्यसाधनान्यपि विज्ञेयानि बभूवुः । उत्पन्नमात्रा एव मिथ्योपचारेण नष्टाः प्राणिनः कथङ्कारं सर्जनश्रममर्थवन्तं कुर्युः । यथा यथा ते चिरं सत्तां प्राप्नुवन्ति तथा तथा