भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 15, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 15

॥ श्रीः ॥

उपोद्घातः

आयुष्याम्नायमाम्नाय नानोन्मेषैर्विवर्ध्य च । जगतः श्रेयसे सक्ताः स्मरणीया दयामयाः ॥ १ ॥
यत्प्रातिभरसासिक्त आयुर्वेदमहातरुः । फलत्यद्यापि जगति महात्मानो जयन्ति ते ॥ २ ॥

उपोद्घातप्रस्तावः

यत्किमपि प्रेक्षावतां पुरः प्रदर्श्यमानं किमिदं किमर्थमितीदंप्रथमां जिज्ञासां स्वतः समुत्थापयति। यावद्धि तन्नावगम्यते तावन्न प्रवर्तते सविशेषा दृष्टिः परीक्षका¹णाम् सामान्यतोऽवगते विशेषजिज्ञासोन्मुखीकरोति लोकान्। सति हि बाह्ये सामान्यविज्ञानेऽभीप्सितमर्थमुपादातुं, जिहासितमपार्थं च परिहर्तुं कल्पते लोकः। तामेतामादिमाकाङ्क्षां प्रशमयितुं शास्त्रादावनुबन्धनिर्देशवत्प्रस्तुतग्रन्थसम्बन्धिनोऽन्तरङ्गान् बहिरङ्गांश्च कांश्चन विशेषतो निरीक्षितान् विषयान् भूमिकाप्रस्तावनादिरूपेणोपहृत्य ग्रन्थः पुरस्क्रियत इति समुचितः साम्प्रतिको विपश्चित्सम्प्रदायः। अमुमाचारमनुरुन्धाने चेतसि प्रतिभातमन्यत्र परिदृष्टं च यत्किञ्चन विवेचकानां पुरतः कतिपयैः शब्दैः समुपाहर्तुं लेखनीयं पुरःसरति।

तत्रास्मिन्नुपोद्घाते पञ्च परिच्छेदाः— (१) सोपक्रम आयुर्वेदपरिच्छेदः ।
(२) आचार्यपरिच्छेदो ग्रन्थपरिचयसहितः ।
(३) संस्कारतुलनादिसहितो विषयपरिच्छेदः ।
(४) भारतीयभैषज्यसमर्थनपरिच्छेदः ।
(५) उपसंहारपरिच्छेदः ।

(१) सोपक्रम आयुर्वेदपरिच्छेदः-

आयुर्वेदविषयोपन्यासः

निष्प्रचममेवेदं विपश्चितां सुखमेव परमः पुरुषार्थ इति ।

तच्च सुखं दुःखनिवृत्त्यात्मकं दुःखविरोधिभावान्तरं वेति द्विधा निरूप्यते विद्वद्भिः । उभयथाऽपि तल्लब्धये सर्वेषां समीहा । सति हि दुःखे तन्निवृत्तिर्वा सुखं वा नोदेतुं प्रभवति । दुःखं नाम बाधनालक्षणं सर्वाधिकमप्रियं जगति । यदतीतमपि स्मर्यमाणं बाधते, वर्तमानमपि यैः कैश्चिदुपायैर्निवर्तयितुमिष्यते, आगाम्यपि साधनावलम्बेन परिहर्तुं प्रयतते । नहि कोऽपि


१. सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥ (श्लोकवार्तिकस्योपक्रमे)