भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 19, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 19
उपोद्घातः

शिक्षादीनामप्यङ्गभावमुपादाय सुश्रुतस्योपाङ्गत्वोल्लेखः स्यात्तदा शिक्षादेरपि पश्चाद्भावौचित्यवत आयुर्वेदस्य भूतसृष्टेरपि प्राग्भावः सुश्रुतेनैवोक्तः कथं न व्याहन्येत । शिक्षादिषु बहिरङ्गेष्वप्यवयवहतेन वेदशब्देनायुर्वेदस्य निर्देशोऽपि पूर्वभावित्वमेवास्य प्रगुणयति । विज्ञानमहोदधेर्वेदस्यैकतरङ्गरूपेण वर्तमानमिदमायुर्वेदीयविज्ञानं वेदशरीरमनुप्रविष्टमनुसंधाय केचन उपवेदशब्देन, अवयवावयविभावापन्नमनुसंधाय केचन वेदाङ्गशब्देन, स्वल्पावयवात्मकमनुसंधाय केचन वेदोपाङ्गशब्देन, व्यवहरन्तो मिथोऽव्याहतं समन्वयं गमयन्ति । किं बहुना, कश्यपाचार्येण तु उपशब्दमप्यनुपादायपञ्चमवेदत्वेन निर्दिष्टमस्ति । अन्तरवयवाश्च अवयविना सहैवावतिष्ठन्ते, नावयविसमयादुत्तरः समयोऽवयवानाम् । तदेवमुपवेदशब्दसामानाधिकरण्येन वर्तमानोऽयमुपाङ्गशब्दोऽपिआयुर्वेदमुपर्यवारोहयति, नतरामर्बाग्भावशङ्कोदयाय कल्पते ॥

इहेदमनुसंधीयते—ब्राह्मणोपनिषन्महाभारतपुराणस्मृत्यादिषु वेदचतुष्टयोल्लेखोपलम्भेऽपि अथ१र्ववेदे ऋग्यजुः-सामार्थवेदानामुल्लेखेन, त्रिषु वेदेष्वथर्ववेदस्या२नुल्लेखेन च त्रयीविभागः प्राथमिक इति विवेचकानां भणितिः । तत्र मन्त्रात्मके वेदे पद्यात्मक ऋक्, गद्यात्मकं यजुः, गीतात्मकं सामेति त्रिधा विभागः । अस्मिंस्त्रयीविभागेऽथर्वमन्त्राणामपि यथास्वमन्तर्भावः । आर्यहृद्भूविकासवादिमज्ञानसम्पत् त्रयीरू३पेण यदैव प्रादुर्बभूव, तदाऽप्यायुर्वेदविज्ञानमासीदेवेति ऋग्यजुःसामसु त्रिष्वपि तत्र तत्रोपलभ्यमानैस्तद्विषयैरवगम्यते । अथर्ववेदस्य प्रमेयवैशिष्ट्येन पृथग्गणनायामनेन सह चत्वारो वेदाः । ब्राह्मणोपनिषत्सु स्मृतीमीमांसादिष्वपि वेदानां चातुर्विध्योल्लेखश्रुतवेदविदां निर्देशश्चोपलभ्यते । तेन ऋग्यजुः-सामाथर्ववेदानां चतुर्णां पुराकालादेव समकक्षतया प्रामाण्यमित्येतस्मिन्विषये न्यायमञ्जर्यां वेदसर्वस्वे च बहु प्रपञ्चितमस्ति । अथर्ववेदेन सह चतुर्णां वेदानामुपवेदान् प्रदर्शयता चरणव्यूहकृता “ऋग्वेदस्यायुर्वेद उपवेद इत्याह भगवान् व्यासः स्कन्दो वा” इति व्यासस्कन्दमतरूपेण ऋग्वेदोपवेद४त्वमायुर्वेदस्योल्लिखितं दृश्यते । तदुक्त्या त्रिष्वपि वेदप्रस्थानेष्वेवतद्विषयलाभेऽपि, ऋग्वेदे स्ववैद्ययोरश्विनोः सूक्तेष्वन्यत्रापि तादात्विकैरतीतैश्च पुरावृत्तैः सह बहुश आयुर्वेदीयविज्ञानविषयाणामुपलम्भेन विशेषत ऋग्वेदेन सहास्य सम्बन्धमभिप्रेत्य त्रयीदृशा किल व्यासस्कन्दादिभिः कैश्चन पूर्वाचार्यैस्तथाऽभ्युपगतं सम्भाव्यते । यदा कर्मकलापस्यापि विकासविभागविशेषेण शान्तिकपौष्टिकाद्यैहिकश्रेयःकर्माणि दैहिकागन्तुकसंशमनकर्माणि चोपादाय तत्प्रधानस्याथर्ववेदस्य पृथग्गणनयावैदिकं विज्ञानं चतुर्था व्यभज्यत, तदाऽऽथर्वणे विज्ञाने भैषज्य५कर्मणायुष्यकर्माणि भूतादिपरिहारकर्माणि बहुशः पृथग्भावेनादृश्यन्त । कौशिकसूत्रकृताऽपि तथैव तत्र तत्र विनियोगः प्रदर्शितः । तदेवमाथर्वणप्रक्रियायां विशेषरूपमवाप्तस्य शान्तिकपौष्टिकादिशबलितस्य भैषज्यविज्ञानस्य क्रमशो विकसनेन साकमायुर्वेदीयविषयस्यापि विकसनाद्वक्ष्यमाणदिशा वेदान्तरेभ्योऽथर्ववेदे एतदीयविषयबाहुल्यदर्शनाच्च तादात्विकीं स्थितिमुपादाय अथर्वणा सहास्य नेदिष्ठं सम्बन्धमनुपश्यद्भिः पूर्वाचार्यैर्धन्वन्तरियत्रिकश्यपादिभिः पूर्वनिर्दिष्टलेखैरथर्वोपाङ्गत्वमथर्ववेदे विशेषभक्त्यादेशनमथर्वमूलकत्वं चोक्तं युक्तिसङ्गतमवगम्यते ॥

वेदे आयुर्वेदीया विषया

आर्षपरम्परायामानुश्रविकरूपेणानुवर्तमानस्य पूर्वैरपि कर्तुरस्मरणेन, 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इत्यादिना पूर्वसिद्धस्यैवेश्वरज्ञानात्मकस्यास्य जगत्स्रष्टुर्मनसि प्रतिभानोल्लेखेन, ऋषीणामपि केवलं मन्त्रद्रष्टृतया च


१. यस्मादृचोऽपातक्षन्यजुर्यस्मादपाकषन् । सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखम् । (अथर्व १०/७/२०)
२. तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । च्छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।
ऋक् १०/७/८ ; यजुः ३१/७ ; अथर्व १७/६/१३
३. सा वा एषा वाक् त्रेधा विहिता-ऋचो यजूंषि सामानि । (शतपथ १०/५/१७)
४. 'तञ्जोर' पुस्तकालयगतायामुमामहेश्वरसंवादरूपायामन्यस्यां काश्यपसंहितायामपि— “ऋग्वेदस्योपवेदाङ्गं काश्यपं रचितं पुरा । लक्षग्रन्थं महातेजः अमेयं मम दीयताम्(?)” इति ऋग्वेदस्योपवेदत्वेनोल्लेखोऽस्ति ।
५. भेषजं वा आथर्वणानि । (ताण्ड्यमहाब्राह्मणे १२/९/१०)