काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 19, कुल 942 में से
संदर्भ में पढ़ें| उपोद्घातः | ५ |
|---|
शिक्षादीनामप्यङ्गभावमुपादाय सुश्रुतस्योपाङ्गत्वोल्लेखः स्यात्तदा शिक्षादेरपि पश्चाद्भावौचित्यवत आयुर्वेदस्य भूतसृष्टेरपि प्राग्भावः सुश्रुतेनैवोक्तः कथं न व्याहन्येत । शिक्षादिषु बहिरङ्गेष्वप्यवयवहतेन वेदशब्देनायुर्वेदस्य निर्देशोऽपि पूर्वभावित्वमेवास्य प्रगुणयति । विज्ञानमहोदधेर्वेदस्यैकतरङ्गरूपेण वर्तमानमिदमायुर्वेदीयविज्ञानं वेदशरीरमनुप्रविष्टमनुसंधाय केचन उपवेदशब्देन, अवयवावयविभावापन्नमनुसंधाय केचन वेदाङ्गशब्देन, स्वल्पावयवात्मकमनुसंधाय केचन वेदोपाङ्गशब्देन, व्यवहरन्तो मिथोऽव्याहतं समन्वयं गमयन्ति । किं बहुना, कश्यपाचार्येण तु उपशब्दमप्यनुपादायपञ्चमवेदत्वेन निर्दिष्टमस्ति । अन्तरवयवाश्च अवयविना सहैवावतिष्ठन्ते, नावयविसमयादुत्तरः समयोऽवयवानाम् । तदेवमुपवेदशब्दसामानाधिकरण्येन वर्तमानोऽयमुपाङ्गशब्दोऽपिआयुर्वेदमुपर्यवारोहयति, नतरामर्बाग्भावशङ्कोदयाय कल्पते ॥
इहेदमनुसंधीयते—ब्राह्मणोपनिषन्महाभारतपुराणस्मृत्यादिषु वेदचतुष्टयोल्लेखोपलम्भेऽपि अथ१र्ववेदे ऋग्यजुः-सामार्थवेदानामुल्लेखेन, त्रिषु वेदेष्वथर्ववेदस्या२नुल्लेखेन च त्रयीविभागः प्राथमिक इति विवेचकानां भणितिः । तत्र मन्त्रात्मके वेदे पद्यात्मक ऋक्, गद्यात्मकं यजुः, गीतात्मकं सामेति त्रिधा विभागः । अस्मिंस्त्रयीविभागेऽथर्वमन्त्राणामपि यथास्वमन्तर्भावः । आर्यहृद्भूविकासवादिमज्ञानसम्पत् त्रयीरू३पेण यदैव प्रादुर्बभूव, तदाऽप्यायुर्वेदविज्ञानमासीदेवेति ऋग्यजुःसामसु त्रिष्वपि तत्र तत्रोपलभ्यमानैस्तद्विषयैरवगम्यते । अथर्ववेदस्य प्रमेयवैशिष्ट्येन पृथग्गणनायामनेन सह चत्वारो वेदाः । ब्राह्मणोपनिषत्सु स्मृतीमीमांसादिष्वपि वेदानां चातुर्विध्योल्लेखश्रुतवेदविदां निर्देशश्चोपलभ्यते । तेन ऋग्यजुः-सामाथर्ववेदानां चतुर्णां पुराकालादेव समकक्षतया प्रामाण्यमित्येतस्मिन्विषये न्यायमञ्जर्यां वेदसर्वस्वे च बहु प्रपञ्चितमस्ति । अथर्ववेदेन सह चतुर्णां वेदानामुपवेदान् प्रदर्शयता चरणव्यूहकृता “ऋग्वेदस्यायुर्वेद उपवेद इत्याह भगवान् व्यासः स्कन्दो वा” इति व्यासस्कन्दमतरूपेण ऋग्वेदोपवेद४त्वमायुर्वेदस्योल्लिखितं दृश्यते । तदुक्त्या त्रिष्वपि वेदप्रस्थानेष्वेवतद्विषयलाभेऽपि, ऋग्वेदे स्ववैद्ययोरश्विनोः सूक्तेष्वन्यत्रापि तादात्विकैरतीतैश्च पुरावृत्तैः सह बहुश आयुर्वेदीयविज्ञानविषयाणामुपलम्भेन विशेषत ऋग्वेदेन सहास्य सम्बन्धमभिप्रेत्य त्रयीदृशा किल व्यासस्कन्दादिभिः कैश्चन पूर्वाचार्यैस्तथाऽभ्युपगतं सम्भाव्यते । यदा कर्मकलापस्यापि विकासविभागविशेषेण शान्तिकपौष्टिकाद्यैहिकश्रेयःकर्माणि दैहिकागन्तुकसंशमनकर्माणि चोपादाय तत्प्रधानस्याथर्ववेदस्य पृथग्गणनयावैदिकं विज्ञानं चतुर्था व्यभज्यत, तदाऽऽथर्वणे विज्ञाने भैषज्य५कर्मणायुष्यकर्माणि भूतादिपरिहारकर्माणि बहुशः पृथग्भावेनादृश्यन्त । कौशिकसूत्रकृताऽपि तथैव तत्र तत्र विनियोगः प्रदर्शितः । तदेवमाथर्वणप्रक्रियायां विशेषरूपमवाप्तस्य शान्तिकपौष्टिकादिशबलितस्य भैषज्यविज्ञानस्य क्रमशो विकसनेन साकमायुर्वेदीयविषयस्यापि विकसनाद्वक्ष्यमाणदिशा वेदान्तरेभ्योऽथर्ववेदे एतदीयविषयबाहुल्यदर्शनाच्च तादात्विकीं स्थितिमुपादाय अथर्वणा सहास्य नेदिष्ठं सम्बन्धमनुपश्यद्भिः पूर्वाचार्यैर्धन्वन्तरियत्रिकश्यपादिभिः पूर्वनिर्दिष्टलेखैरथर्वोपाङ्गत्वमथर्ववेदे विशेषभक्त्यादेशनमथर्वमूलकत्वं चोक्तं युक्तिसङ्गतमवगम्यते ॥
वेदे आयुर्वेदीया विषया
आर्षपरम्परायामानुश्रविकरूपेणानुवर्तमानस्य पूर्वैरपि कर्तुरस्मरणेन, 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इत्यादिना पूर्वसिद्धस्यैवेश्वरज्ञानात्मकस्यास्य जगत्स्रष्टुर्मनसि प्रतिभानोल्लेखेन, ऋषीणामपि केवलं मन्त्रद्रष्टृतया च
१. यस्मादृचोऽपातक्षन्यजुर्यस्मादपाकषन् । सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखम् । (अथर्व १०/७/२०)
२. तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । च्छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।
ऋक् १०/७/८ ; यजुः ३१/७ ; अथर्व १७/६/१३
३. सा वा एषा वाक् त्रेधा विहिता-ऋचो यजूंषि सामानि । (शतपथ १०/५/१७)
४. 'तञ्जोर' पुस्तकालयगतायामुमामहेश्वरसंवादरूपायामन्यस्यां काश्यपसंहितायामपि— “ऋग्वेदस्योपवेदाङ्गं काश्यपं रचितं पुरा । लक्षग्रन्थं महातेजः अमेयं मम दीयताम्(?)” इति ऋग्वेदस्योपवेदत्वेनोल्लेखोऽस्ति ।
५. भेषजं वा आथर्वणानि । (ताण्ड्यमहाब्राह्मणे १२/९/१०)