काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 20, कुल 942 में से
संदर्भ में पढ़ें६
काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
नित्यं पदपदार्थसम्बन्धमवलम्बमानस्यास्य अनादिनित्यत्वमिति वेदार्थमीमांसकानां पूर्वाचार्याणां सिद्धान्तः। वेदेऽपि तस्मात् परमेश्वरात् ऋचः सामानि जज्ञिरे यजुश्चाजा यतेत्युल्लेखोपलम्भेन शब्दस्य प्रत्युच्चारणं नवोत्पत्त्या तत्समुदायात्मकस्य वेदस्य न नित्यत्वमपितु सर्गादावीश्वरेण विरच्योपदेशनात् पौरुषेयत्वमेव, तथाऽपि सकलदोषाशङ्काविनिर्मुक्तस्य परमाप्तस्य परमात्मनः कृतिरूपतया सर्वशतोऽबाधितं प्रामाण्यमिति तार्किकादीनां सिद्धान्तः। अनादिरपौरुषेयः पौरुषेय आर्षो वा भवतु वेदः, कश्चास्य प्रकाशस्योद्गमस्य वा तात्त्विकः समुचितश्च समय इतीदानीं प्रसक्तानुप्रसक्तो विचार आस्तां तावत्। सर्वथाऽपि पूर्वतमैरपि सर्वातिशायिनि प्रमाणपदे प्रतिष्ठापितोऽयमपरिच्छेद्याद्रहोः कालादार्याणां शिरःसु संमानितोऽस्तीत्यत्र न कस्यापि विप्रतिपत्तिः। अद्यत्वेऽपि प्राच्याः पाश्चात्याश्च विपश्चित एनं प्रायः समानदृशैव पश्यन्ति। केवलं पुरातत्त्वानुसन्धानदृशा वैदिकं साहित्यं पर्यालोचयतां विवेचकानां विचारविशेषाणां निरीक्षणेऽपि केषाञ्चिद्द्वादशसहस्रवर्षपूर्वत्ववादः, केषाञ्चिच्चतुःसहस्रवर्षप्राग्भाववादश्चैवमादयो बहवः पक्षाः स्वस्वविचारारूढा दृश्यन्ते। यथातथाऽपि लोके यावन्ति प्राचीनसाहित्यानि तेषु सर्वप्रथमं वैदिकसाहित्यमित्यत्र न केषामपि विमतिः। तेनास्य वैदिकविज्ञानस्य, एतद्गर्भगतस्यायुर्वेदीयविज्ञानस्यापि समय उपर्येवारोहति। तस्मिन् वैदिके विज्ञानव्यूहे विज्ञानान्तराणीवायुर्वेदीयं विज्ञानमपि बहुश ओतं प्रोतं च दृश्यते। तथाहि—
ऋग्वेदसंहितायां—जराजीर्णस्याच्यवनस्य वन्दनस्य च ऋषेरश्विभ्यां रसायनेन पुनर्यौवनापादनं (१. ११६. १०। १. ११७. १३। १. ११९. ७); दासैरग्नौ जलेऽपि प्रक्षेपणे रक्षितस्य दीर्घतमसः पुनर्दासेन वितष्टशिरोवक्षसोप्यश्विभ्यां जीवनेन दशयुगपर्यन्तं जरां परिहार्य रक्षणं (१. १५८. ४-६); रणे शत्रुभिश्छिन्नपदायाः खेलनृपपल्या विष्पलानाम्या अश्विभ्यामायसजङ्घायोजनं (१. ११६. १५); विश्लिष्टाङ्गस्यात्र्यादेवयवसङ्घटनं (१. ११७. १९); शत्रुभिस्त्रिशकलीकृतस्य श्यावाश्वस्याङ्गशकलानि संयोज्य प्रत्युज्जीवनं (१. ११७. २४); किमन्यत्, दधीचस्य शिरः पृथक्कृत्य संरक्ष्याश्वशिरः संयोज्य तस्मादश्विभ्यां मधुविद्याया ग्रहणे तस्याश्वशिरश्छेदे पुनस्ताभ्यां पूर्वशिरसः संयोजनम् (१. ११६. १२। १. ११७. २२); अन्धाय ऋज्राश्वाय दृष्टिदानम् (१.११६.१६/१. ११७. १६); अन्धाय कण्वाय चक्षुर्दानं, बधिराय नार्षद्वदाय श्रोत्रदानं (१. ११७. ८); पङ्गवे परावृजाय विगुणजानवे श्रोणर्षये च गतिदानम् (१. ११२. ८) वधि्रमत्या नपुंसकभर्तृकाया अपि पुत्रोत्पादनं (१. ११६. १३); विश्वकाय विनष्टपुत्रदर्शनं (१. ११६. २३); कुष्ठरोगेण भर्तारमप्राप्य पितृगृहे जीर्यन्त्याः कक्षीवतीपुत्र्या घोषायाः कुष्ठं निवार्य भर्तृदानं (१. ११७. ७); कुष्ठेन श्यामवर्णाय श्यावाय रोगं निवार्य सुन्दरस्त्रीदापनम्) (१. ११७. ८) इत्यादीन्यश्विनोरद्भुतान्यवदानानि, देवभिषग्भ्यामश्विभ्यां वायुद्युपृथिव्यादिभिरिवानुकूलभेषजस्य प्रदानस्य प्रार्थना (१. ८९. ४); अश्विभ्यामोषधिवनस्पत्यादीनां प्रकर्षेणाभिव्यञ्जनं (१. ११६. ८); युवां भैषज्येन भिषजौ स्थ इत्यश्विनोः प्रार्थनम् (१. १५८. ६); अक्षदर्शनसंवैन्द्रियसामर्थ्यजरायनिवृत्तिशतवर्षायुः प्राप्त्यर्थमश्विनोः प्रार्थनं (१. ११६. २५); आर्चत्कस्य संयुक्तृषेश्च निवृत्तप्रसवाया अपि गोरश्विभ्यां प्रसवस्य पयोबाहुल्यस्य च सम्पादनम् (१. ११६. २२। १. ११७. २०); इन्द्रेणापि अन्धाय परावृजाय दृष्टेर्दानं, पङ्गवे श्रोणाय गतेर्दानम् (२. १५. ७) इन्द्रेण अपालायाश्चर्मरोगस्य, तत्पितुः खल्वाटस्य च निवारणम् (८. ९१. ७); इन्द्रस्यौषधिधारकत्वं (२. २३. ७); नानाविष्कृमिवर्णनं तत्प्रतीकारश्च (१. १९१. १-१६); नानायक्ष्मरोगनिरसनं (१०. १६३. १-६); सौरप्रतीकारेण हृद्रोगादीनां निरसनं (१. ५०. ११-१३); जलस्य भेषजत्वम् (१०. १३७. ६। १. २३. १९); ओषधीनां वर्णनम् (१०. ९७. १-२३); यक्ष्माज्ञातयक्ष्मराजयक्ष्मग्राहिपृष्ठ्यामयसिपसिमिहृद्रोगप्रभृतीनां रोगाणामुल्लेखः (१०. ९७. १०५. १३७. १६१. १६७) इत्यादयो बहवो विषयास्तत्र तत्रोपलभ्यन्ते॥
शुक्लयजुःसंहितायामपि द्वादशाध्याये सूक्तद्वये (१२. ७५-८९। १२. ९०-१०१) ओषधीनामगदङ्करत्वं, यक्ष्मनाशकत्वं, यस्तासां खनको यदर्थं च खननमुभयेषामुपकारकत्वं, बलासार्शःश्वयथुगण्डश्लीपदयक्ष्ममुखपाकक्षतादिनाशकत्वं; तत्र तत्र (१९. ८१-९३। २०. ५-९। २५. १-९। ३१.१०-१३/३०/८-१०) अश्वस्य मनुष्यस्य च शारीराङ्गोल्लेखः, यक्ष्मामीवाबलासोपचितपाकारुरो॑विषूचिकाहद्रोगार्मचर्मरोगकुष्ठाङ्गभेदादीनां रोगाणामुल्लेखश्चोपलभ्यते।