काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 21, कुल 942 में से
संदर्भ में पढ़ेंउपोद्घातः ७
तैत्तिरीयसंहितायां काम्येष्टिप्रकरणे दृष्टिप्राप्तेर्यक्ष्मोन्मादपरिहारस्य च प्रार्थना, यक्ष्मराजयक्ष्मजन्यरोगोत्पत्तेर्विषयो (२. २. १. १. । २. ४. १४. ५) दृश्यते ॥
सामसंहितायां मृक्प्रदिष्टानां मन्त्राणां प्रवेशेनायुर्वेदविषयावबोधकानां मन्त्राणामुपलम्भेन च साम्नोऽप्यस्मिन् विषये ऋगैकमत्यमवगम्यते ॥
अथर्वसंहितायां तु विशेषेणैतदीया बहुविधा विषया दृश्यन्ते । तत्रोपशतं सूक्तानि मन्त्राश्चैतद्विषये लभ्यन्ते । ऋगादिषु प्राय ऐतिहासिकेन रूपेण क्वचन प्रसङ्गेनाप्यायुर्वेदविषयाः समागच्छन्ति; अथर्वणि तु अन्तराऽन्तरा रोगाः, शारीरकावयवाः, रोगप्रतीकारविशेषाः, तत्तदोषधीनां तेषु तेषु रोगेषूपयोगिता चैवमादयो बहवो विषयाः प्रोता दृश्यन्ते; येनायुर्वेदस्याथर्व-सम्बन्धः स्फुटीभवति । तत्र—
रोगविषये—तक्म (ज्वर) रोगस्य वर्णनं (६. २१. १-३); तद्भेदानां संततशारद-ग्रैष्म-शीत-वार्षिक-तृतीयकादीनां निर्देशः (१. २५. ४ । ५. २२. १-१४); तक्मविभेदस्तत्र मण्डूकोपयोगः (७. १२२. १.२); तदात्वे जाङ्गलप्रदेशतया किलमूञ्जवद्वाहीकगान्धाराङ्गमगधादिषु तक्मप्रक्षेपनिर्देशः (५. २२. १४); बलासस्यास्थिपरुहृदयपीडकत्वं (६. १४. १-३); मन्यागण्डमालायाः ५५ बिभेदत्वं, ग्रैव्यगण्डमालायाः ७७ प्रभेदत्वं, स्कन्ध्यगण्डमालायाः ९९ प्रभेदत्वं (६. २५. १-३); अपचितः (गण्डमालायः) एनी-श्येनी-कृष्णा-रोहिण्य-सूति-केति भेदनिदर्शनं (६. ८३. १-३) शीर्षक्ति-शीर्षामय-कर्णशूल-विलोहित-विसल्पकाऽङ्गभेदाऽङ्गज्वर-विश्वाङ्ग्य-विश्वशारदतक्म-बलास-हरिम-यक्ष्मोधः-काहावाह-क्लोमोदरनाभिहृदयगतयक्ष्म-पार्श्वपृष्ठिवंक्षणान्त्रमज्जंगतपीडा-विद्रध-वातीकारा-ऽलजी-पादजानुश्रोणिपरिमंसोनू-कोष्ठिगाशीर्षवेदनादिनानारोगाणां वर्णनं च (९. १३. १-२२) दृश्यते ॥
शारीरकविषये—शरीरनाडीधमनीनिर्देशः, शिराणां शतत्वस्य धमनीनां सहस्रत्वस्योल्लेखश्च (१. १७. १. ४ । ७. ३६. २); नानारोगैः सह शारीरावयववर्णनं (२. ३३. १-७); नानाशरीरावयवोल्लेखः (२. ३३. २ । ४. १२. ४ । १०. २. १ । १०. ९. १३-२५); केशास्थिस्रावमांसमज्जापर्वोरुपादाष्ठीवच्छिरोहस्तमुखपृष्ठिवर्जह्यापार्श्वजिह्वाग्रीवाकीसत्वगादीनामुल्लेखश्च (११. १०. ११-१५) दृश्यते ॥
प्रतीकारविषये—मूत्राघाते शरशलाकादिभिर्मूत्रिनिः-सारणं भेदनं वा (१. ३. १-९); सुखप्रसवस्तद्विक्रियायां योनिभेदनादि (१. ११. १-६); जलधातनेन व्रणोपचारः (५. ५७. १-३); अपचितां पिडकानां शालाकावेधनम् (७. ७८. १-२); अपचिति लवणोपचारः (७. ८०. १-२) एवमाद्याः शल्य प्रक्रियाः; बहिर्देशाच्छरीरान्तरनुप्रविश्य रोगकारकाणां नानाविधकृमीणां तन्निर्सनस्य च वर्णनं (२. ३१. १-५); चक्षुर्नासिकादन्तादिषु प्रविश्य रोगकारकाणां येवासकष्कषैजस्काशिपिवित्ककासीनां कृमीणां नाशनं (५. २३. १-१३); नानावर्णकृमिवर्णनं, मनुष्यगतानां गवादिगतानां च कृमीणां सौरकिरणैर्निवारणं (२. ३२. १-६); हानिकारकाणां रोगजन्तूनां सौरकिरणैर्नाशनं (४. ३७. १-१२); सौररक्तकिरणैर्हृद्रोगकामलपाण्ड्वादि-रोगनाशनं (१. २२. १-४); प्रातरातपस्वेदनप्रभास्नानजलस्नानां शरीररोगनाशकत्वं (३. ७. १-७); हृदयरोगे हैमवन्नदीजलोपचारः (६. २४ १-३); जलस्य सर्वरोगौषधत्वं (६. ९२. ३); वानस्पत्यपर्वतीयवायोरारोग्यसाधनत्वं (१. १२. १-४), वायोर्भेषत्वम् (४. १३. २-३); आरोग्यवर्णनं (२. १०. १-८); क्लैब्यनाशनोपायदर्शनं (६. १३८. १-५); चैवमादयो विषया लभ्यन्ते ॥
औषधविषये—नक्तरामाकृष्णाऽसिक्रीब्रह्मासंज्ञकौषधीनां किलासपलितादिनाशकत्वं (१. २३. १-४); सुपर्णाऽऽसुरीसरू पाश्यामाद्यौषधीनां त्वग्रोगनिवारकत्वं (१. २४. १-४); वल्मीकलभ्यौषधविशेषस्य अतीसारातिमुत्रनाडीव्रणादिनाशकत्वं (२. ३. १-६); पृष्णिपर्ण्या गर्भनाशरक्तविकारप्रतीकारशरीरवृद्धिकारकत्वं (२. २५. १-४); हरिणशृङ्गस्य तच्चर्मणश्च क्षयकुष्ठापस्मारादिनाशकत्वं (३. ७. १-३); शतवीर्याया दूर्वाया दीर्घायुष्यानानारोगनिबर्हणकारकत्वं (३. ११. १-८);
२ का.सं.