काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 22, कुल 942 में से
संदर्भ में पढ़ें८
काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
वृषाशुभाद्यौषधीनां वृष्यत्वं (४. ४. १-८); रोहिण्योषधेर्भग्नसन्धानक्षतप्रतीकारकत्वेन वर्णनं (४. १२. १-७); सहदेव्या अपामार्गस्य च तृषाक्षुधेन्द्रियादिगतनानारोगकृत्याशश्वादिनाशकत्वेन महिमवर्णनम् (४. १७. १-८ । ४. १८. १-८ । ४. १९. १-८); अपामार्गस्य पापनिवर्तकत्वं मुखदन्तशोधकत्वं च (७.६७. १-३); सिलाच्योषधेर्महिमगानं (५. ५. १-९); कुष्ठौषधेस्तक्मयक्ष्मकुष्ठादिनाशकत्वं (५. ४. १-१०); कुष्ठौषधेर्वर्णनं (६. ९५. १-३), कुष्ठधूपस्य तक्मनाशकत्वं, कुष्ठस्य विश्वभेषजत्वयातुधानतक्मनाशकत्वादिमहिमा (१९. ३९. १-१०); आशरीकविशरीकपृष्ठिकाविश्वसारदतक्मसु जङ्गिडौषधोपयोगः (५. २२. १-२४); जङ्गिडौषधेर्वर्णनं, तन्मणिबन्धनं, तस्य कृत्यानाशकत्वमायुष्करत्वं, विष्कन्ध (वातरोग) नाशकत्वम्, आशरीकविशरीकवलासपृष्ट्यामयविश्वशारदतक्मनाशकत्वं (२.४. १-६ । १९. ३४. १-१०); जङ्गिडस्य विष्कन्धहरत्वं, विश्वभेषजत्वं, यक्ष्महरत्वं, वातरोगनाशकत्वं, श्वित्रद्रुपमादितवग्दोषदुर्नामरोगनाशकत्वं (१९. ३५. १-५); विषाणौषधे रक्तस्त्रावेवातरोगे च हितकारकत्वं (६. ८४. १-३); वरणौषधेर्यक्ष्मनाशकत्वं (६. ८५. १-३); पिप्पल्याः क्षिप्तातिविद्धवातीकृतरोगभेषजत्वं (६. १०९. १-३); वलासविद्रधलोहितकविसल्पकरोगेषु चीपद्रुनामकौषधेरुपयोगः (६. १२७. १-३); देवीतितत्त्योषधेः केशवर्धनोपायस्य वर्णनं (६. १३६. १-३ । ६. १३७. १.३); गुग्गुलुधूपस्य गन्धेन यक्ष्मनाशः (१९. ३६. १-३); जलवायुद्वारा प्रसर्पिणां रोगाणां नाशकत्वेन अजश्रृङ्ग्याः, जलद्वारा प्रसर्पिणां रोगाणां नाशकत्वेन गुग्गुलुपीलानलद्यौक्षगन्धिप्रमन्दिनीनां, प्रसारिरोगनाशकत्वेन अश्वत्थन्यग्रोधशिखण्ड्याद्योषधीनां च वर्णनम् (४. ३७. १-१२); ओषधीनां महिमगानम् (६. २१. १-३); असिक्रीकृष्णापृष्णिप्रस्तृणतीस्तम्बिन्येकशुङ्गाप्रतन्वत्यंशुपतीकण्डिनी विशाखावैश्वदेव्याऽवकोल्वातीक्ष्णशृङ्ग्यादिरूपेण नानौषधीनां प्रकाराणां च वर्णनं; नानावीरूद्रसनिर्मितगुटिकात्मकवैयाघ्रमणेर्वर्णनम्, अश्वत्थदर्भसोमव्रीहियवानां, पुष्पवतीप्रसूमतीफलिन्यफलाप्रकाराणां विषदूषणीकृत्यानाशनबलासनासनादिगुणानामोषधीनां च वर्णनं (८. ७. १-२८); दर्भभङ्ग (शण) यवसहासोमवर्णनं (११. ८. १५); ब्राह्मणनामकौषधेर्विषहरत्वम्, अयस्कम्पौषधेर्विषदिग्धशस्त्रव्रणादिहितकरतृत्वं, पर्णाधिश्रृङ्कङ्कम्लानां शस्त्रप्राणयोषधिविषहरत्वं (४. ६. १-८); वरणाप्रक्रूयाद्योषधीनां विषहरत्वं (४. ७. १-७); नानाजातीयसर्पादीनुल्लिख्य तानुववास्तुवाद्योषधीनां विषहरत्ववर्णनं (५. १३. १-११); मधुपतृष्णीशीपालानां सर्पविशनाशकत्वं (६. १२. १-३); व्याख्याभेदेन वल्मीकमृदः सिलाच्योषधेर्वा विषनाशकत्वं (६. १००, १-३); मधुकौषधेर्नानाविधसर्पकृमिविषनिवर्तकत्वं (७. ५६. १-८); विषेणैव विषप्रतीकारः (७. ८८. १); विषदोहनविद्यया विषप्रतीकारः (८. ५. १-१६ । ८. ६. १-४); परचक्रागमे ऐन्द्रशान्तौ दर्भमणिबन्धनं (१९. २८. १. १० । १०. २९. १-९. । १९. ३०. १-५); पुष्टिकामस्यौदुम्बरमणिबन्धनं (१९. ३१. १-४४); मृत्युभयनिवृत्तये दर्भमणिबन्धनं (१९. ३२. १-२ । १९. ३३. १-५) चेत्यादयः शतश ओषधीनां निर्देशाः प्रभेदाः प्रयोगा उपयोगाश्च तत्र तत्रोपलभ्यन्ते ॥
ब्राह्मणग्रन्थेष्वपि—ऐतरेये—ऋचन शरीरोत्पत्तेः प्राणस्यचोल्लेखः, अश्विनोर्देववैद्यत्वनिर्देशः, ज्ञानेन्द्रियवर्णनम् (५. २२), ओषधीनां रोगनिवारकत्वम् (३. ४०), अञ्जनेन नेत्रामयनिवृत्तिः (१. ३), शापाद्प्युन्मादकुष्ठादीनामुद्भवः, शुनःशेपाख्याने वरुणकोपेन जलोदररोगः, छन्दोग्ये—हृदयनाडीवर्णनम् (८. १. ६), आहारपाकप्रक्रिया (६. ५), निद्रास्वप्नोल्लेखः (४. ३. ३), पामारोगवर्णनम् (४. १. ८), रोगं निरस्य षोडशाधिकशतवर्षायुष्यकारकस्योपायस्योल्लेखः (३. १६); बृहदारण्यके—अश्वाङ्गानां (१. १. १), मनुष्याङ्गानां (२. ४. ११) हृदयतन्नाडीनां वर्णनं (२. १. १९।४. २. २४. ३. २०), मनुष्यवृक्षयोस्तुलना (३. ९. २८), नेत्ररचना (२. २. ३), मृत्योल्लेखः (३. २. ११), शापाद्रोगोत्पत्तिः (३. ७. १ । ३. (९. २६); सामविधानब्राह्मणे—सर्पेभ्यो रक्षणं (२. ३. ३), भूताक्रान्तिः (२. २. २), रोगाक्रान्तिः (२. ३. ३); तैत्तिरीयारण्यके—कृमिवर्णनम् (४. ३६, १); श्रौतग्रन्थेषुआश्वलायनीये—यज्ञीयपशुषु ऋत्विक्षु च परिहरणीयानां रोगाणां निर्देशः; आपस्तम्बीये—कृमिवर्णनम् (१५. १९. ५); गृह्यग्रन्थेषु-आश्वलायनीये—सूर्योदयास्तसमययोः शयनस्य रोगहेतुत्वं (३. ७. १. २), यजमाने परिहरणीयस्य रोगस्योल्लेखः (१. २३. २०), पशुरोगनिवर्तनम् (४. ८. ४०).