भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 23, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 23

उपोद्घातः ९

शाङ्ख्यायनीये—शारीरपीडासमये वेदमन्त्रगाननिषेधः (४. ७. ३६), आग्रहायणयज्ञे भोज्यवस्तुषु भूतनिवर्तनं (३. ८), सर्वरोगनिवर्तनं (५. ६. १-२); गोभिलीये—रोगनिवर्तकमन्त्रोल्लेखः (४. ६. २), सर्पदंशोपायः (४. ९. १६); आपस्तम्बीये—रुग्णस्त्रियाः पद्मपत्रादिभिरभिमन्त्रणं (३. ९. १०), अर्धशिरः पीडायाः कृमिहेतुकत्वनिर्देशः, बालके अपस्माररोगस्य हेतुतया कुक्कुरभूतस्योल्लेखः (७. १८. १), बालके क्षेत्रियरोगपरिहारः (६. १५. ४); पारस्करीये—शिरपीडाया मर्दनेन प्रतीकारः (३-६); हिरण्यकेशीये—अग्ने रोगनाशकत्वं (१. २. २८), बालकस्य क्षेत्रियरोगनिवर्तनं (२. ३. १०); खादिरे—कृमिवर्णन (४. ४. ३); गोरोगनिवृत्तये होमधूमप्रदेशे चारणं (४. ३. १३), सर्पदंशोपायः (४. ४-१) इत्यादीशा आयुर्वेदसम्बन्धिनो विषयास्तत्र तत्र न्यूनाधिकरूपेणोपलभ्यन्ते ॥

वैदिके साहित्ये आयुर्वेदीयविषयानुपादय ब्लूमफील्ड (M. Bloomfield), हिलब्राण्ड (A. Hillebrand), केलेण्ड (Caland), डॉ. पी. कार्डीयर् (P. Cordier), जाली (J. Jolly), बोलिङ (G. M. Bolling) झीमर (Zimmer) प्रभृतिभिः पाश्चात्यैर्विपश्चिद्भिः भारतीयैरपि कैश्चन विद्वद्भिर्बहुशो निरूपितमस्ति । सर्वास्वेषु विमर्शस्योपयोगित्वेऽपि प्रासङ्गिकविस्तरभयेनेह विरम्यते ॥

कौशिकसूत्रकृता तत्तन्मन्त्राणां विनियोगस्य प्रदर्शने तन्मन्त्रमहिमानमादर्शयता चतुर्थाध्याये 'अथ भैषज्यानि' इत्युपक्रम्य तत्तद्रोगप्रतीकारोपवर्णने तत्तन्मन्त्रैरभिमन्त्र्य जलौषधादिपानहवनमार्जनादयोऽपि बहुश उपाया उपवर्णिता दृश्यन्ते । मन्त्रसंहितामादाय प्रवृत्तेऽस्मिन्मान्त्रिकविधानान्यप्यनुस्यूतानि भवन्तु नाम, परं-तकम्रोगे वातिके मांसमेदःपानं, श्लैष्मिके मधुपानं, वातपित्तजे तैलपानं, धनुर्वाताङ्गकम्पशरीरभङ्गादिवातरोगेषु घृतस्य नस्यदानं, रुधिरवहने स्त्रीरजसोऽतिप्रवर्तने शुष्कपङ्कमृत्तिकापानं, हृद्रोगे कामले च व्याधितस्य हरिद्रौदनभोजनं, श्वेतकुष्ठेयावल्लोहितं कुष्ठं गोमयेन प्रघृष्य भृङ्गराजहरिद्रेन्द्रवारुणीनीलिकापुष्पाणि पिष्ट्वा लेपनं, वातविकारे पिप्पलप्राशनं, शस्त्रावघाते रुधिरप्रवाहे व्याधिस्थले कथितलाक्षोदकसेचनं, राजयक्ष्मकुष्ठशिरोरोगसर्वाङ्गत्रावेदनासु नवनीतमिश्रकुष्ठपिष्टेन व्याधितशरीरलेपनं, शस्त्राभिघाते कथितदुग्धलाक्षापानं गण्डमालायां शङ्खं घृष्ट्वा लेपनं, जलौकां संसृज्य रुधिरप्रवाहणं, सैन्धवलवणचूर्णप्रकिरणं, व्रणे गोमूत्रेण व्रणमर्दनं, मूत्रपुरीषप्रतिरोधे भेदनीयहरीतक्यादिद्रव्यबन्धनम्, आखुकिरिपूतीकमथितजरत्प्रमन्दसावस्कानां जलेनालोड्य पानम्, अश्वाद्यारोहणं, बाणमोक्षणं, गोदोहन्यां जले एकविंशतियवात्रिधाय शिश्ने ऊर्ध्वमुखे तज्जलप्रवेशनं, लोहशलाकायाः प्रवेशनं, यवगोधूम-वल्लीपद्ममूलपाविकाकाष्ठरूपस्य आलविसोलफाण्टस्य पानमित्यादीनि भेषजान्यपि प्रतीकारोपायतया निर्दिष्टानि सन्ति । मन्त्रप्रतिष्ठापनीयेऽपि शान्त्युदके शमी-शम-काश-वंशा-शाम्य-वाका-तलाशा-पलाश-वाशा-शिंशपा-शिम्बल-सिपुन-दर्भापामार्ग-कृति-लोष्ट-वल्मीक-वपा-दूर्वाप्रान्त-व्रीहि-यवादयः शान्तौषधयो निक्षेप्तुं विधीयमानास्तदुदकस्य भैषज्यदृष्ट्याऽपि बहुबाधापहारित्वं ज्ञापयन्तीति मान्त्रिक्यां क्रियायामिव भेषजविद्यायामपि सूत्रकृतस्तदुपात्ताथर्वसंहितायां अप्यान्तरः समन्वयो विज्ञायते ॥

प्राचीनकाले शारीरधातुवैषम्यादय इव रक्षोभूतप्रेतपिशाचग्रहस्कन्दादीनां रुद्रादिदेवानां कोपावेशादयोऽपि रोगकारणतया मता आसन्, येन वैदिकमन्त्रलिङ्गादपि 'रक्षोहामीवचातनः' इत्यादिरूपेण रोगनिरसनाय तन्निदानभूतानां रक्षः-प्रभृतीनामपाकरणमप्युपायतया निर्दिष्टमुपलभ्यते । पश्चात्तनवैद्यकग्रन्थेष्वप्युन्मादापस्मारादिषु भूताद्यावेशादीनामपि निदानत्वेनोल्लेख उपलभ्यते । वैदिकावस्थायामप्येतद्दृष्टेर्विशेषेणकौशिकसूत्रादिष्वाथर्वणमन्त्रविशेषाणां तत्र तत्र रोगे तन्निदानभूतरक्षःप्रभृत्यपसारणपरत्वेन विनियोग उपदर्शितः । तत्तद्रोगकारणत्वेन निरसनीयतयाऽथर्वादिमन्त्रेषु निर्दिष्टा नानाजातीयकृम्यादयोऽपि रोगकारणीभूतरक्षोभूतादिपरा इत्यपि केषाञ्चिद्विचारोऽस्ति । ते च रोगबीजाणुकीटा रक्षोभूतादयो वेत्युभयथाऽपि सम्भवन्ति । त्रिशिरस्त्रिपादपादरक्तलोचनादिरूपेण ज्वरादिरोगाणां मूर्तयो ग्रन्थकृद्भिरुल्लिखिता दृश्यन्ते, यास्तन्निदानभूतानां रक्षःप्रभृतीनां बीजाणुकीटानां वा रूपाण्यध्यारोप्य कल्पिता अपि सम्भवन्ति । अद्यत्वे सूक्ष्मवीक्षणयन्त्रैरवेक्षणे तेषु तेषु रोगेषु विचित्रविचित्राकृतयो रोगबीजाणुकीटा उपलभ्यन्ते ।

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित) · पृष्ठ 23, कुल 942 में से · BharatKosha