काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
उपोद्घातः ९
शाङ्ख्यायनीये—शारीरपीडासमये वेदमन्त्रगाननिषेधः (४. ७. ३६), आग्रहायणयज्ञे भोज्यवस्तुषु भूतनिवर्तनं (३. ८), सर्वरोगनिवर्तनं (५. ६. १-२); गोभिलीये—रोगनिवर्तकमन्त्रोल्लेखः (४. ६. २), सर्पदंशोपायः (४. ९. १६); आपस्तम्बीये—रुग्णस्त्रियाः पद्मपत्रादिभिरभिमन्त्रणं (३. ९. १०), अर्धशिरः पीडायाः कृमिहेतुकत्वनिर्देशः, बालके अपस्माररोगस्य हेतुतया कुक्कुरभूतस्योल्लेखः (७. १८. १), बालके क्षेत्रियरोगपरिहारः (६. १५. ४); पारस्करीये—शिरपीडाया मर्दनेन प्रतीकारः (३-६); हिरण्यकेशीये—अग्ने रोगनाशकत्वं (१. २. २८), बालकस्य क्षेत्रियरोगनिवर्तनं (२. ३. १०); खादिरे—कृमिवर्णन (४. ४. ३); गोरोगनिवृत्तये होमधूमप्रदेशे चारणं (४. ३. १३), सर्पदंशोपायः (४. ४-१) इत्यादीशा आयुर्वेदसम्बन्धिनो विषयास्तत्र तत्र न्यूनाधिकरूपेणोपलभ्यन्ते ॥
वैदिके साहित्ये आयुर्वेदीयविषयानुपादय ब्लूमफील्ड (M. Bloomfield), हिलब्राण्ड (A. Hillebrand), केलेण्ड (Caland), डॉ. पी. कार्डीयर् (P. Cordier), जाली (J. Jolly), बोलिङ (G. M. Bolling) झीमर (Zimmer) प्रभृतिभिः पाश्चात्यैर्विपश्चिद्भिः भारतीयैरपि कैश्चन विद्वद्भिर्बहुशो निरूपितमस्ति । सर्वास्वेषु विमर्शस्योपयोगित्वेऽपि प्रासङ्गिकविस्तरभयेनेह विरम्यते ॥
कौशिकसूत्रकृता तत्तन्मन्त्राणां विनियोगस्य प्रदर्शने तन्मन्त्रमहिमानमादर्शयता चतुर्थाध्याये 'अथ भैषज्यानि' इत्युपक्रम्य तत्तद्रोगप्रतीकारोपवर्णने तत्तन्मन्त्रैरभिमन्त्र्य जलौषधादिपानहवनमार्जनादयोऽपि बहुश उपाया उपवर्णिता दृश्यन्ते । मन्त्रसंहितामादाय प्रवृत्तेऽस्मिन्मान्त्रिकविधानान्यप्यनुस्यूतानि भवन्तु नाम, परं-तकम्रोगे वातिके मांसमेदःपानं, श्लैष्मिके मधुपानं, वातपित्तजे तैलपानं, धनुर्वाताङ्गकम्पशरीरभङ्गादिवातरोगेषु घृतस्य नस्यदानं, रुधिरवहने स्त्रीरजसोऽतिप्रवर्तने शुष्कपङ्कमृत्तिकापानं, हृद्रोगे कामले च व्याधितस्य हरिद्रौदनभोजनं, श्वेतकुष्ठेयावल्लोहितं कुष्ठं गोमयेन प्रघृष्य भृङ्गराजहरिद्रेन्द्रवारुणीनीलिकापुष्पाणि पिष्ट्वा लेपनं, वातविकारे पिप्पलप्राशनं, शस्त्रावघाते रुधिरप्रवाहे व्याधिस्थले कथितलाक्षोदकसेचनं, राजयक्ष्मकुष्ठशिरोरोगसर्वाङ्गत्रावेदनासु नवनीतमिश्रकुष्ठपिष्टेन व्याधितशरीरलेपनं, शस्त्राभिघाते कथितदुग्धलाक्षापानं गण्डमालायां शङ्खं घृष्ट्वा लेपनं, जलौकां संसृज्य रुधिरप्रवाहणं, सैन्धवलवणचूर्णप्रकिरणं, व्रणे गोमूत्रेण व्रणमर्दनं, मूत्रपुरीषप्रतिरोधे भेदनीयहरीतक्यादिद्रव्यबन्धनम्, आखुकिरिपूतीकमथितजरत्प्रमन्दसावस्कानां जलेनालोड्य पानम्, अश्वाद्यारोहणं, बाणमोक्षणं, गोदोहन्यां जले एकविंशतियवात्रिधाय शिश्ने ऊर्ध्वमुखे तज्जलप्रवेशनं, लोहशलाकायाः प्रवेशनं, यवगोधूम-वल्लीपद्ममूलपाविकाकाष्ठरूपस्य आलविसोलफाण्टस्य पानमित्यादीनि भेषजान्यपि प्रतीकारोपायतया निर्दिष्टानि सन्ति । मन्त्रप्रतिष्ठापनीयेऽपि शान्त्युदके शमी-शम-काश-वंशा-शाम्य-वाका-तलाशा-पलाश-वाशा-शिंशपा-शिम्बल-सिपुन-दर्भापामार्ग-कृति-लोष्ट-वल्मीक-वपा-दूर्वाप्रान्त-व्रीहि-यवादयः शान्तौषधयो निक्षेप्तुं विधीयमानास्तदुदकस्य भैषज्यदृष्ट्याऽपि बहुबाधापहारित्वं ज्ञापयन्तीति मान्त्रिक्यां क्रियायामिव भेषजविद्यायामपि सूत्रकृतस्तदुपात्ताथर्वसंहितायां अप्यान्तरः समन्वयो विज्ञायते ॥
प्राचीनकाले शारीरधातुवैषम्यादय इव रक्षोभूतप्रेतपिशाचग्रहस्कन्दादीनां रुद्रादिदेवानां कोपावेशादयोऽपि रोगकारणतया मता आसन्, येन वैदिकमन्त्रलिङ्गादपि 'रक्षोहामीवचातनः' इत्यादिरूपेण रोगनिरसनाय तन्निदानभूतानां रक्षः-प्रभृतीनामपाकरणमप्युपायतया निर्दिष्टमुपलभ्यते । पश्चात्तनवैद्यकग्रन्थेष्वप्युन्मादापस्मारादिषु भूताद्यावेशादीनामपि निदानत्वेनोल्लेख उपलभ्यते । वैदिकावस्थायामप्येतद्दृष्टेर्विशेषेणकौशिकसूत्रादिष्वाथर्वणमन्त्रविशेषाणां तत्र तत्र रोगे तन्निदानभूतरक्षःप्रभृत्यपसारणपरत्वेन विनियोग उपदर्शितः । तत्तद्रोगकारणत्वेन निरसनीयतयाऽथर्वादिमन्त्रेषु निर्दिष्टा नानाजातीयकृम्यादयोऽपि रोगकारणीभूतरक्षोभूतादिपरा इत्यपि केषाञ्चिद्विचारोऽस्ति । ते च रोगबीजाणुकीटा रक्षोभूतादयो वेत्युभयथाऽपि सम्भवन्ति । त्रिशिरस्त्रिपादपादरक्तलोचनादिरूपेण ज्वरादिरोगाणां मूर्तयो ग्रन्थकृद्भिरुल्लिखिता दृश्यन्ते, यास्तन्निदानभूतानां रक्षःप्रभृतीनां बीजाणुकीटानां वा रूपाण्यध्यारोप्य कल्पिता अपि सम्भवन्ति । अद्यत्वे सूक्ष्मवीक्षणयन्त्रैरवेक्षणे तेषु तेषु रोगेषु विचित्रविचित्राकृतयो रोगबीजाणुकीटा उपलभ्यन्ते ।
१० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
एवंविधान्भीषणाकृतीन् कीटाणूनन्तर्दृशोपलब्धवद्भिः पुरातनैर्महर्ष्यादिभिस्तेषां रक्षोरूपेण वर्णनं विहितं किमु ? अद्यापि पर्वतीयादिजातिषु ज्वरादीनां भूतादिजन्यत्वमङ्गीकृत्य अपामार्गननप्राण्यन्तरसंक्रमणबलिदानादयोमान्त्रिका उपचाराः प्रायो विधीयन्ते, सफलतामुपयान्ति च। अद्यत्वे काचित्कव्यवहाररूपेण दृश्यमाना अपीदृशा उपाया न निर्मूलाः, अपि तु प्राचीनवैदिकावस्थात आरभ्यैवानुवर्तमाना विच्छिन्नविकलाङ्गेन केनापि रूपेणावशिष्यन्ते इत्यध्यवसातुं शक्यते। ईदृशो मान्त्रिकप्रक्रियासंवलितो भैषज्यविषयो न केवलं प्राचीनभारत एव, अपि तु प्राचीनमिश्रपाश्चात्यदेशेषु उत्तरअमेरिकारपर्यन्तदेशान्तरेष्वपि आसीदिति तत्तदीयपूर्ववृत्तानुसन्धानतः स्फुटीभवति ॥
आथर्वणसम्प्रदाये केवलं मान्त्रिकी भूतविद्यैव रोगनिरसनोपाय आसीदिति केषाञ्चिद्विचारो न सर्वश तः स्थिरीभवति। वैदिके समये मिथ्याहारव्यवहारा इव पापानि भूतप्रेतादयो रुद्रादिदेवकोपा अपि रोगहेतुतया, औषधविशेषाणां प्रयोगा इव तत्तद्देवतानामाराधनेन प्रसाधनानि, मन्त्रविशेषैर्भूतादीनपसारयितुं रोगिणां मार्जनजलाभिषेचनाभिमन्त्रणधूपनादीन्यपि रोगनिरसनोपायतया उपलभ्यन्तां नाम, तथाऽपि पूर्वोपदर्शितदिशा बहूनां रोगाणां क्वचन शल्यप्रक्रियायाः बहूनां शरीरावयवानामेकसहस्रसंख्यानां तत्तद्रोगनिबर्हकाणामोषधीनां च मन्त्रलिङ्गतः स्पष्टमवगमेन मन्त्रविद्यायामिव भेषजयप्रक्रियायामप्याथर्वणी प्रवृत्तिरासीदिति स्फुटीभवत्येव। तेन मन्त्रविद्या ओषधिविद्या चेत्युभये वर्त्मनी पूर्वैः परिगृहीते अवगम्येते। परमाथर्वणसूक्तमन्त्राणां केषाञ्चिच्छाब्दिकार्थलोचने भूतविद्याघसंपृक्तायुर्वेदीयविषयप्रतिपादकत्वेन दृश्यमानानामपि कौशिकसूत्रकृताऽभिचार-मन्त्रकरण्डकबन्धनभूतापसारणादिपरत्वेन विनियोजनं जलादिप्रतिपादकानां शन्नोदेवीरित्यादिमन्त्राणां शनिग्रहादिपरत्वेन गृह्यकारादिविनियोजनमिव कालक्रमागतं दृष्टिभेदं विभावयति ॥
ऋक्संहितानामल्पमात्रया दृश्यमानाय मान्त्रिकोपचारप्रक्रियाया भैषज्यविद्यायाश्चाथर्वणे आधिक्यदर्शनेन विकासः, तदनु मन्त्रलिङ्गतः केवलभैषज्यावबोधकत्वेन दृष्टानामपि मन्त्राणां मान्त्रिकप्रक्रियया कौशिकसूत्रकृता विनियोजनस्य दर्शनेन तत्सूत्रकाले मान्त्रिकप्रक्रियाया विकासविशेषः प्रावर्ततेति क्रमविकासपरम्पराऽवसीयते। किंवा अथर्वा भूतविद्यायामाचार्य आसीदिति श्रूयते। तत एवाथर्वणे वेदे भूतविद्याया मान्त्रिकप्रक्रियायाश्च विषया बहुतलया संमिलिता भवेयुः। अस्मिन् कौमारभृत्यतन्त्रे बालरोगेषु स्कन्दापस्मारग्रहपूतनादयो निदानतया धूपनपूजनादयः प्रतीकारतया इव धातुवैषम्यादिकमपि रोगहेतुतया तत्तदौषधोपयोगा अपि निबर्हणोपायतया प्रतिपाद्यमानाः पूर्वकालानुवृत्तामुभयतो दृशं निदर्शयन्ति ॥
वैदिकसाहित्ये बहुशो वैद्यकविषयोपलम्भेऽपि पूर्वोपदर्शितरीत्या ऋग्वेदे अश्विप्रभृतीनां तत्तदवदानरूपाणां भैषज्यविषयाणां केवलमैतिहासिकेन रूपेणोपलम्भो भवति। कया प्रक्रिययाऽश्विभ्यां विश्पलाया जङ्घा योजिता, ऋज्राश्वस्य चक्षुषी उन्मीलिते श्रोणस्य जानु प्रगुणीकृतमित्यादयो विधानविशेषा न ततोऽवगम्यन्ते। क्वचित् कानिचिद्दोषधानि कीर्त्यन्ते, न तत्र तेषामुपयोगप्रक्रिया निर्दिश्यते। अथर्वसंहियां यद्यपि नानारोगा, औषधानि, रोगहेतवः, कृतिप्रभृतयः, अमुकौषध्युपयोगेऽमुकरोगप्रतीकार इत्यादयो विषयविशेषा अपि क्वचन मन्त्रलिङ्गतोऽवगम्यन्ते, तथाऽपि नैतावता तदीयोपयोगप्रक्रियाविशेषा ज्ञातव्या अवबुध्यन्ते इति मन्त्रलिङ्गानि केवलं तादात्विकीमायुर्वेदविज्ञानपरिस्थितिं सूचयन्ति ॥
“यत्रौषधीः समग्मत राजानः समिताविव। विप्रः स उच्यते भिषग्रक्षोहामीव चातनः ॥
(ऋक्. १०. ९७. ६)
शतं ते राजन् भिषजः सहस्रमुर्वी गभीरा सुमतिस्तेऽस्तु ॥
(ऋग् १. २४. ९)
शतं ह्यस्य भिषजः सहस्रमृत वीरुधः ॥”
(अथर्व २. ९. ३)
उपोद्घातः ११
इत्यादिमन्त्रलिङ्गेभ्यः शतश ओषधीनां संग्रहीतारो विप्रा भिषज आसन्, भिषजोऽपि न केवलमेकद्वाः, अपितु शतशः; ओषधित्वेन ज्ञाता लतादयोऽपि न विरलाः किन्तु सहस्रश आसन्नित्यवगमनेनातिपूर्वकालेऽपि शतश एतत्प्रस्थान-यायिभिर्महर्षिभिरवलम्ब्यमानस्तदीयं विज्ञानविशेषं विशदीकुर्वन्, उपयोगप्रक्रियां कार्त्स्न्येन निदर्शयन्, अशेषैः शृङ्खलितरूपैर्भैषज्यविषयैस्तदेकप्रधानताय सन्दृब्धोऽन्य एवायुर्वेदः पृथग्ग्रन्थरूपेणावस्थितः स्यात् । यतो विज्ञेयानां विषयविशेषाणां सूचनाः, तदुपयोगेन सञ्जातलाभानामितिवृत्तानि च वेदेषु तत्र तत्र विरलविकीर्णभावेनास्माभिर्लभ्यन्ते । वेदशब्देन समष्ट्यात्मनाऽवस्थितमाद्यज्ञानं, तत्सन्निकृष्टं व्यष्टिविशेषविज्ञानमुपवेदशब्देनावबोध्यते । गान्धर्वधनुष्यस्थापत्यादि-विज्ञानवद्व्यष्ट्यात्मनाऽवस्थितमायुष्यरक्षाविज्ञानमायुर्वेदशब्दोऽवबोधयति । सोऽयं प्राचीन आयुर्वेदो ब्रह्माश्वीन्द्रसंहितारूपेण पृथगात्मनाऽवस्थितः स्यात् । येन कैश्चनाचार्यैरुपवेदरूपेण, कश्यपेन पञ्चमवेदरूपेण निर्देशनमपि साधु सिध्यति । सोऽयं प्रत्नो मूलभूत आयुर्वेदः करालकालमुखप्रविष्टतया नै पृथगुपलभ्यते, केवलं वैदिकसंहितादिषु तत्र तत्र विरलविकीर्णभावमापन्नैः कैश्चनांशैः, सम्प्रदायपरम्परया केषाञ्चिन्महर्षिप्रभृतीनां लेखन्यामवतीर्णैः कैश्चनांशैरात्मलाभमवगमयति, प्रकाशं च ददाति ।
उपलभ्यमानायुर्वेदीयप्राचीनसंहितागतान् परिदृश्यमानवैदिकसाहित्यगतांश्चायुर्वेदीयविषयान् पुरो निधाय विमर्शेऽपि रोगाणां संज्ञाः, ओषधीनां नामानि, प्रयोगप्रक्रिया, निरूपणशैली च, बहुशो वैलक्षण्येन दृश्यन्ते । आर्षसंहितागतेषु विषयेषु वैदिकबिषयेभ्यः क्रमागता विकसितावस्थाऽपि विशेषविधया दृश्यते । भाषाशास्त्रदृष्टिरपि एवंरूपां परिवृत्तिं न स्वल्पान्तराले सम्भावयति । प्राचीनत्वेन संमानितानां सूत्रादिग्रन्थानामुपद्विसहस्रवर्षपूर्वतनानां कविलेखानां बौद्धसाहित्यानां, किं बहुना काश्यपात्रेयधन्वन्तरिलेखानाम्प्याधुनिकलेखैः सह तुलनायां लेखशैल्या भाषादृशा च यावदन्तरमुपलभ्यते, ततोऽप्यतिमात्रयाऽन्तरं वैदिकसंहितागतादायुर्वेदविषयादार्षसंहितागते तद्विषये समीक्ष्यते । सोऽयमीदृशो विशेषो बहोः समयस्यान्तरालमन्तरा न सम्भवति । यस्मिन् कस्मिन्नपि साहित्ये विज्ञानविकासः क्रमिक एव दृश्यते । आयुर्वेदीयविज्ञानेऽपि वैदिकसाहित्यात् संहितातन्त्रसाहित्ये विषयविकास उपलभ्यमानो बहुकालक्रमागतं पूर्वपरम्परामवलम्बते । वैदिकसंहितासाहित्यमनुब्राह्मणोप-निषत्कल्पसूत्रादिधारासु विरलतया वहन्नप्यायुर्वेदविज्ञानप्रवाहः स्वाचार्यपरम्पराप्रवाहपरिपोषमन्तरा प्राचीनार्षसंहितातन्त्रादिषु ज्ञानोदधिं कथमनुदर्शयेत् । तेन तत्र तत्र पूर्वाचार्यैरपि निर्दिष्ठानां नामशेषाणामन्येषामनिर्दिष्टानां नाम्नाऽपि विलुप्तानां च पूर्वतराचार्याणामौपदेशिकी विज्ञानपरम्परैव अस्मिन्नायुर्वेदीयविज्ञानप्रवाहे वैदिकं साहित्यं प्राचीनसंहिताश्चान्तरा सेतु रूपेण वर्तेत । अदृश्ययाऽप्यनया मध्यसेतुभूतया परम्परया अन्ततो गत्वा एकद्वसहस्रवर्षेभ्योऽप्यन्यूनयैव भवितव्यम् । “विविधानि शास्त्राणि भिषजां प्रचरन्ति लोके” इत्युल्लिखन्नत्रेयाचार्यः स्वसमयेऽप्याचार्यान्तरशास्त्रोपलम्भं दर्शयति । तेनात्रेयादिभ्यः पूर्वमप्याचार्यान्तराणां सत्त्वं स्फुटीभवति ॥
इहेदमनुसन्धेयं भवति, वैदिके आयुर्वेदीय विज्ञाने शल्यप्रक्रियायां शारीरकादिविभागान्तरेषु वा सूक्ष्मा अपि विचारविशेषाः समुन्मिषन्ति । औषधप्रक्रियायाः पर्यालोचने धातुरत्नरसादयस्तादात्विकीं प्रक्रियामनारूढाः, वनस्पत्यादीनि साधारणान्यैवौषधानि प्रायः प्रयुज्यमानानि विज्ञायन्ते । तत्रापि पूर्वोद्दिष्टमन्त्रलिङ्गाद्यालोचनेन जङ्गिडकुष्ठरोहिण्यपामार्गप्रभृतयःप्राय एकैकश एव पदार्थास्तत्तद्रोगोपशमाय प्रयुज्यमाना आसन्नित्यवगम्यते । कौशिकसूत्रकृदपि प्रायस्तथैवैकैकशं वस्तूनां मधुतैलघृतपिप्पलंकाष्ठादीनां तत्र तत्र रोगे उपयोगं दर्शयति । आलविसोलपराण्ट-भृङ्गराजादिपुष्परसलेप-नवनीतमिश्रकुष्ठपिष्टलेप-कथितदुग्धलाक्षापानादीन् द्वित्रवस्तु योगोपचारान् कतिपयानेवोल्लिखति । तत्तद्रोगाणां तत्तद्दोषहराणां वस्तूनां च यथा-वदवगमे यथावसरं परिहारोपायाः स्वयमूहितुं शक्यन्ते इति निध्याय मूलपरिभाषारूपेण विज्ञेयान् शास्त्रार्थानुपादाय वातिकपैत्तिकश्लैष्मिकतद्धरजीवनीय-बृंहणीयतर्पणीयसंशमनीयवृष्यादिरूपेण वर्गश ओषधीर्विभज्य मूलभूतानि निहरणसाधनानि पञ्चकर्माणि चैवमादीन् प्रधानविषयान् सङ्गृह्य तत्तत्संहिताकर्तृभिः सूत्रस्थानमादितो न्यबध्यत । तावताऽपि यथावद्विज्ञातेन विशुद्धप्रतिभानवता प्रणिधानकल्पितैर्यौगौषधै रोगाः परिहर्तुं शक्यन्त इति सूत्रस्थानमात्रमपि भैषज्यपर्याप्तं पूर्वरूपमिति वक्तुं न खलु न शक्यते । अद्यत्वेऽपि ग्राम्यपर्वतीयादिव्यवहारेषु
१२ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
तत्र तत्र रोगे एकद्ववानस्पत्यौषधोपयोगस्तथैव निर्वाहश्चाभिदृश्यमानः प्राचीनां मौलिकीं प्रक्रयामनुवृत्तां निदर्शयति। अनन्तरं तत्तद्वस्तूनां गुणागुणपरीक्षानुभवे विवर्धमाने रोगेषु मिथः साङ्कर्यमवाप्तानां सर्वदोषाणामेकप्रयोगेण परिजिहीर्षया समानगुणानां विशेषगुणानां चौषधानां योगेन सामूहिकप्रयोगदृष्टिरपि प्रावर्तत। यथा यथा प्राणिनिकायस्याभिवृद्धिः, देशकालजलवाय्वन्नपानस्थानावस्थादीनां परिवृत्तिः, मिथः सन्निकर्षसङ्घर्षा दीनां चोदयः, तन्मूला बाह्या आभ्यन्तराश्च शारीरिका विकारा नानारोगात्मना प्रादुरासँस्तथा तथाऽनुक्रमेण तत्परिच्छेदस्य तन्निवृत्त्युपायदृक्कौशलस्याप्युपचयेन परिस्थितिविभेदतः स एव रोगोऽनेकधा दृश्यमानः कश्चन सङ्कीर्णेन नवरूपेण नव्या संज्ञायाऽपि व्यवह्रियमाणो बभूव। परिहरणीयतत्तद्दोषपरिपन्थिनां वस्तूनां व्यूहात्मकानि योगौषधान्यप्यनेकशतः कल्पितानि भवेयुः। ईदृशानि पूर्वैः कल्पितानि प्रणिधानोज्ज्वलेष्वन्तःकरणेषु स्वयं प्रतिभातानि योगौषधान्यप्यन्तर्निवेश्य प्रायः सूत्रस्थानलभ्यान् विषयानुपादाय विचारविशेषैश्चोपबृंह्य सूत्रस्थानविवरणात्मना किल स्थानान्तराण्यपि संयोज्य समुच्चितेन संहितारूपेण निबन्धने महर्षयः प्रवृत्ताः स्युः। एवमुत्तरोत्तरं पूर्वापरानुभवसिद्धान् रोगविशेषांस्तत्परिहारोपायविशेषांश्चानुप्रवेश्य देशकालपरिस्थितिविशेषानुसन्धानसमुन्मिषितदृष्टयो विद्वांसोऽप्यनेकानायुर्वेदग्रन्थान् निबबन्धुः। इत्थं नानाद्रव्ययोगसिद्धानामौषधानां प्रयोगपद्धतिरपि नार्वाचीना स्यात्। ष्टाइनमहाशयेन पूर्वतुरुष्कस्थानगत तूह्वाङ्ग (Tun Huang) स्थलोपलब्धं प्राचीनपुस्तकमिति हार्नलमहाशयेन निर्दिष्टे $^१$पुस्तके प्राचीननेरानभाषानुवादेन सह यो मूलसंस्कृतलेखोऽस्ति, तत्र भगवता (बुद्धेन) जीवकं सम्बोध्योपदिष्टा औषधविशेषोक्तय उपलभ्यन्ते। महावग्गादिनिर्दिष्टजीवकसाहचर्याद्बुद्धस्यास्मिन्नुपदेशे नानौषधयोगरूपाणां बहूनामौषधानामुल्लेखदर्शनेन नानाद्रव्ययोगौषधकल्पनाऽपि बुद्धसमयात् पूर्वतः प्रचलिताऽऽसीदिति ग्रन्थान्तरादप्यवगम्यते। पाश्चात्यभैषज्यपद्धतावपि निर्हरणीयदोषानुसारण विज्ञाततत्तद्गुणागुणानि वस्तूनि कार्यकाले सम्मिश्रय प्रयोगस्य सम्प्रदाये पूर्वतः प्रवर्तमाने सङ्कीर्णदोषमयानां रोगविशेषाणां निर्बर्हणाय Patent योगौषधान्यपि अद्यत्वे प्रकल्प्यन्ते। नुख्शाफार्मूलादिरूपेण कानिचित् निबन्धेषु प्रकाश्यन्ते च। पूर्वापरैः स्थानभेदैः संक्षेपविस्ताररूपेण स्वप्रमेयं यथावदवबोधयन्तीभिः संहिताभिः पश्चात्तनैर्निबन्धैश्चैवं विशदीकृतमप्येतद्विज्ञानं दिग्दर्शनमात्रं भवति। शारीरिकी प्राकृतिकी च परिस्थितिनं खलु सर्वेषां सर्वदा सर्वत्रैकरूप्यं वहति। प्रतिव्यक्तिप्रकृतिविभेदेन स एव रोगोऽप्युच्चावचैर्दोषान्तरसम्पृक्तैरपि तैस्तैर्दोषैर्विभिन्नानेकरूपतां धत्ते। यथा यथा देशकालजलवाय्वाहारविहारादिपरिस्थितिविभेदेन दोषसाङ्कर्येण नानारूपत्वमापद्य रोगा वर्धेरन्, नवनवाकृतयश्च प्रादुर्भवैयुः, तथा तथा देशकालादिविशेषाननुसन्धाय औषधविशेषाणामावापोद्वापौ मानगुरुलघुभावौ निक्षेपरचनापौर्वापर्यक्रमविशेषादिकं वा प्रकल्प्य नवनवानां प्रतीकारोपायानामनुभवविशुद्धानामौषधान्तराणामुपचयेन संरक्षणमुपबृंहणमपि प्राचीन आयुर्वेदविज्ञानकोशः समपेक्षते॥
( २ ) आचार्यपरिच्छेदो ग्रन्थपरिचयसहिताः—
आयुर्वेदस्य प्रकाशः आचार्याश्च
सृष्टेषु प्रजावर्गेषु स्वास्थ्यपरिपालनायापेक्षणीयामायुर्वेदविद्यामवधार्य स्वयम्भूरेव संहितारूपेण प्रथमतः प्रकाशया$^२$मास। सेयमश्वीन्द्राद्यनुक्रमेण आर्ष समाजवतीर्णा लोके प्रचारं प्रपेदे इति पूर्ववृत्तं वर्णयन्त्यायुर्वेदाचार्याः। अस्तु नाम स्वयम्भूक्रमं प्रकाशः, दैवो वा उपदेशः, आर्षो वा सर्ग आयुर्वेदस्य, सर्वथाऽप्येतदीय प्रादुर्भावः प्रत्नतर एव।
१. R. G. Bhandarkar Commemoration. Vol I, P. 416
२. (क) स्वयम्भूर्ब्रह्मा प्रजाः सिसृक्षुः प्रजानां परिपालनार्थमायुर्वेदमेवाग्रेऽसृजत्। (काश्यपसंहितायां पृ. ६१)
(ख) इह खल्वायुर्वेदम्ष्टाङ्गमपाङ्गमथर्ववेदस्यानुत्पाद्यैव प्रजाः श्लोकशतसहस्रमध्यायसहस्त्रं च कृतवान् स्वयम्भूः॥
(सुश्रुते सू. अ. १)
(ग) ब्रह्मणा हि यथा प्रोक्तमायुर्वेदं प्रजापतिः (चरके सू. अ. १)
उपोद्घातः | १३
आयुर्वेदीयमूलग्रन्थेभ्य इत्थं सम्प्रदायक्रमोऽवगम्यते—
ब्रह्मा
दक्षः
अश्विनौ
इन्द्रः
| (सुश्रुतसंहितालेखात्) | (काश्यपसंहितालेखात्) | (चरकसंहितालेखात्) |
|---|---|---|
| धन्वन्तरिः | कश्यपवसिष्ठात्रिभृगवः | भरद्वाजः |
| दिवोदासः | एषां पुत्राः शिष्याश्च । | आत्रेयपुनर्वसुः |
| सुश्रुतौपधेनव- | अग्निवेशभेड- | |
| वैतरणौरभ्र- | जतूकर्णपराशर- | |
| पौष्कलावतकरवीर्य- | हारीतक्षारपाणयः । | |
| गोपुररक्षितभोजादयः । |
अस्यां काश्यपसंहितायामुपदेशपरम्परानिदर्शने ‘स्वयम्भूर्ब्रह्माऽऽयुर्वेदमग्रेऽसृजद्, ततश्च तं पुण्यमायुर्वेदमश्विभ्यां कः प्रददौ, ताविन्द्राय, इन्द्र ऋषिभ्यश्चतुर्भ्यः कश्यपवसिष्ठात्रिभृगुभ्यः, ते पुत्रेभ्यः शिष्येभ्यश्च प्रददुहितार्थम्’ (पृ. ६१) इति लेखेन इन्द्रात् साक्षादेव कश्यपादिभिः पुरातनैर्महर्षिभिः प्रथमत एषा विद्या प्राप्ताऽवगम्यते । चरकोपक्रमग्रन्थे रोगैरुपद्रुतानां लोकानामुद्धारोपायस्य विवित्सया समवेतानां महर्षीणां प्रेरणया इन्द्रमुपेत्य तस्मादायुर्वेद मवाप्य प्रतिनिवृत्तो भरद्वाजो महर्षीनुपदिदेशेति निर्देशेन इन्द्रोपदिष्ट्वाद्भरद्वाजादेव महर्षीणामेतद्विद्याधिगमो लभ्यते । भरद्वाजो नाम आयुर्वेदविद्यायाः कश्चन प्राचीन आचार्यों ज्वरसमुच्चयादिषूद्धृतैस्तद्वचनैरप्यवगम्यते । महाभारतेऽपि वैद्यकाचार्यस्य भरद्वाजस्य निर्देशोऽस्ति । चरकसंहितायामुपक्रमोत्तरग्रन्थे भरद्वाजस्य द्विधोल्लेखो दृश्यते । वातकलाकलीये (च. सू. अ. १२), आत्रेयभद्रकाप्यीये (च. सू. अ. २६) च कुमारशिराभरद्वाजस्य मतं दर्शितमस्ति । स च भरद्वाजो विशेषणेन व्यावृत्तोऽन्य एवावगम्यते । एतदीयं मतमात्रेयेण प्रतिक्षिप्तं च । यज्जःपुरुषीये (च. सू. अ. २५), खुड्डीकागर्भावक्रान्तौ (च. शा. अ. ३) च अविशेषितस्य भरद्वाजस्य मतोल्लेखोऽस्ति । तत्रापि भरद्वाजमतमात्रेयेण प्रतिक्षेप्यकुक्षावेव निक्षिप्तमस्ति । उत्तरत्र (च. शा. अ. ३) प्रतिक्षिप्तेन भरद्वाजेन जिज्ञासया पृष्टे आत्रेयेण विशेषविवरणं प्रदत्तं चास्ति । नह्येवं निर्देशोऽस्यापि गुरुभावौचित्यं संगमयति । वातकलाकलीये ‘कुमारशिरा’ इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनेषेधार्थम्’ इति, खुड्डीकागर्भावक्रान्तौ ‘भरद्वाजशब्देनेह नात्रेयगुरुरुच्यते किन्त्वन्य एव भरद्वाजगोत्रः कश्चित्’ इत्युल्लिखँट्टीकाकारश्चक्रपाणिरुभयत्रनिर्दिष्टस्य भरद्वाजस्य गुरुत्वाभावं स्पष्टं दर्शयति । चक्रपाण्युक्तदिशा गोत्रवाचकेन भरद्वाजशब्देनाभिधेयानां बहूनां सम्भवेन अत्रिपरम्पराप्राप्तविद्येनाप्यात्रेयेण कस्मान्निर्द्धरद्वाजादपि एतद्विद्याया ग्रहणस्य सम्भवेऽपि भरद्वाजस्योपदेशग्रहणं संमाननंतन्मतप्रतिष्ठापनं चावबोधयन्त्यात्रेयोक्तिः क्वाप्य-त्रात्रेयसंहितायामन्तरनुपलभ्यमाना संशयमावहति । तदेवमात्रेयगुरुत्वेन मन्यमानो भरद्वाजः कतम इति नैतावता निश्चेतुं शक्यते । काश्यपसंहितायां रोगाध्याये (पृ. ३९) केवलं कृष्णभरद्वाजस्योल्लेखोऽस्ति । सोऽपि सविशेषणो विभिन्नो भारद्वाजोऽवगम्यते । आयुर्वेदाध्ययनविधाने काश्यपीये (पृ. ५४) प्रजापत्यश्वीन्द्राणां सर्वप्रस्थानमपरमाचार्यस्य परमपुरुषावतारस्य धन्वन्तरेः, स्वप्रस्थानमूलाचार्यस्य कश्यपस्य स्वाहाकारदेवतात्वेन निर्देश इव आत्रेयसंहितायामपि (अ. वि. अ. ८) प्रजापत्यश्वीन्द्रधन्वन्तरीणामेव नामनिर्देशेन सह स्वाहाकारविधानमस्ति । तत्र सूत्रकारिणामृषीणामिति सामान्यतोऽप्युल्लेखेन ततो भरद्वाजस्यापि ग्रहणं सम्भवति । परं स्वकीयप्रस्थाने इन्द्रादनन्तराचार्यभावेन स्वस्यापि गुरुत्वेन च दृष्टस्यास्य विशेषतो नाम्ना ग्रहणं समुचितं किमित्युपेक्षितं स्यात् । यथा हि काश्यपीयोक्तौ कश्यपात्रिवासिष्ठभृगुषु इन्द्रस्य साक्षादौपदेशिकः सम्बन्धो
| १४ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
दर्शितः, तथैवात्रेयसंहितायामपि रसायनपादे (च. चि. अ १) भृगुवत्रिवसिष्ठकश्यपानामङ्गिरोऽगस्त्यपुलस्त्यवामदेवासितगौतमादीनां च साक्षादेवेन्द्राद्रसायनौषधोपदेशः प्रदर्शितः । नात्रापि भरद्वाजस्योल्लेखोऽस्ति । बहुकालान्तरेण पौर्वापर्यवतामप्याचार्याणां चरकोपक्रमग्रन्थे महर्षिसमवाये सहभावनिर्देशः, उत्तरग्रन्थानुरूपलेखप्रौढेस्तत्रादर्शनमपि संशययति । इतश्च भरद्वाजादेव महर्षीणामायुर्वेदविद्यालब्धि दर्शयंश्चरकीय उपक्रमग्रन्थः किमाशयक इति विमर्शस्थानमेतत् । तदेवं सर्वतोऽनुसन्धाने कश्यपवसिष्ठात्रिभृगुमहर्षिभिरतिपुराकालादेव स्वपुत्रशिष्यसन्ततिष्वायुर्वेदविद्या प्रवर्तिता । येनात्रेयादिशब्दानां गोत्रनामतया आत्रेयपरम्परायां चरकसंहितामूलभूताचार्य आत्रेयपुनर्वसुः, अन्ये कृष्णात्रेयभिक्ष्वात्रेयादयोऽपि दृश्यन्ते । कश्यपपरम्परायामपि काश्यपवृद्धकाश्यपादय अन्येऽप्याचार्याः प्रतीयन्ते । एकाचार्यगोत्रपरम्परागतेनापि वैशिष्ट्यलाभाय आचार्यान्तराद्विद्या-ग्रहणस्याप्यौचित्येन चरकोपक्रमलेखानुसारेण स्वपूर्वपरम्पराप्राप्तविद्योनाप्यात्रेयपुनर्वसुना भरद्वाजादपि शिक्षाविशेषो गृहीतः सम्भवति, भृगुपरम्परागतेनापि जीवकेन मारीचकश्यपविद्याया ग्रहणमस्यामपि संहितायां दृश्यते । महाभारतलेखतो भरद्वाजाद्धन्वन्तरेर्विद्यालाभस्य, दिवोदासस्य भरद्वाजाश्रमप्राप्तेश्च लाभेऽपि सुश्रुतसंहितालेखतो धन्वन्तरिदिवोदासस्य इन्द्रादेवैतद्विद्यालब्धिरवगम्यते । यथातथाऽपि सर्वेषामिन्द्रस्य परमाचार्यतया साक्षात् परम्परया वा मूलोपदेष्टृत्वोल्लेखः संवादायैव जायते । त एते धन्वन्तरिमारीचकश्यपात्रेयपुनर्वसवो यथास्वं विज्ञानानि लोकोपकृतये संहितारूपेणान्तेवासिन उपादिक्षुः । तदेवं वैदिकविज्ञानपरमभूमिकायां ब्राह्मं विज्ञानबीजमुपष्टभ्य प्रादुर्भूतोऽयं चिरत्न आयुर्वेदकल्पतरूरुश्विन्द्र-कश्यपात्रिवसिष्ठभृगुप्रभृतिपरम्परया धन्वन्तर्यत्रिकश्यपैरन्यैरपि पूर्वाचार्यैः प्रयत्नेन प्रतिशाखं परिष्कृत्य पल्लवितः पुष्पितः फलितश्च कालग्रासावशिष्टैः कतिपयैरपि फलैः शिष्यपरम्पराद्वाराऽद्यापि लोकानुज्जीवयतीति सन्तोषस्यैव विषयः ॥
यद्यपि वैदिके साहित्ये आयुर्वेदीयविज्ञानस्याष्टधा विभागनिर्देशोऽष्टाङ्गानां नामोल्लेखश्च न दृश्यते, आत्रेयलेखतो ब्राह्मविज्ञानसमये हेतुं^१ लिङ्गौषधज्ञानरूपत्रिसूत्रात्मना तदवस्थानमवबुध्यत इति वैदिकं तद्विज्ञान पुरा त्रिस्कन्धात्मकमासीदित्यवगम्यते, तथाऽपि वैदिकायुर्वेदविषयाणां सङ्ग्रहणे पूर्वोपदर्शितदिशा अश्विनोरुपवर्णने जङ्घायोजनशकलीकृतशरीरसन्धान-दृष्टिश्रोत्रप्रदानकुष्ठादिनिवारणच्यवनरसायनापुत्रापुत्रोत्पादनादीनामैन्द्रस्तवनेऽप्येवमेव नानाविषयाणामुपलम्भेन, ऋग्यजुरथर्वोपनिषदादिषु नानाविधभैषज्यानामोषधिविद्याया भूतविद्याया विषपरिहारविद्यायाश्च तत्र तत्र दर्शनेन शल्यशालाक्यकायचिकित्सागद-भूतविद्यारसायनादीनामष्टविधानामेव विज्ञानविशेषाणां विषयाः पृथक्पृथग्रूपा अति तस्मिन् विज्ञाने प्रविष्टा एवासन्नित्यवगम्यते । भूतविद्यायामाचार्योऽथर्वा, महाभारतेऽप्युपलभ्यमानोऽगदतन्त्राचार्यः काश्यपः, कौमारभृत्याचार्यः कश्यपः, शालाक्याचार्या गार्ग्यगालवादयः, शल्याचार्याः शौनकादय एवमेकैकप्रस्थानाचार्यतयाऽवगम्यमानानां महर्षीणां प्राचीनतरत्वेन दर्शनमायुर्वेदविज्ञानस्याष्टप्रस्थानेषु विभक्तत्वमपि प्राचीनकालपरिदृष्टं दर्शयति । येनैकैकप्रस्थानवैशेष्यं केषाञ्चिन्महर्षिविशेषाणां विश्रुतयेऽजायत । केषुचित्तु सर्वप्रस्थानीयविज्ञानानां सामूहिकरूपेणावस्थानमपि भवेत् । ऋगपेक्षयाऽथर्वसंहिताया-मोषधिभैषज्यभूतचातनविषापहरणादिविषयाणां विकासावस्थाया निदर्शनेन एकैकांशोऽपि कालक्रमेण विज्ञानविशेषैः पुष्टिमापद्यमानो ग्रहणधारणप्रयोगसौकर्याय पृथक्पृथक्प्रस्थानरूपेण विभागप्रतिष्ठामापन्नः स्यात् । आर्षे समये आध्यात्मिकाधिदैविकाधिभौतिकरूपाणां त्रिविधानां दुःखानामेकैकशोऽपि परिहृतये अदृष्टद्वारकोपायानामिव दृष्टोपायानामपि क्रमशो विकासेनाथर्वणविकासमप्युपजीव्य शारीरभैषज्ये शस्त्रक्रियाप्राधान्यमुपादाय शल्यं, बहिन्द्रियप्रधानोत्तमाङ्गमुपादाय शालाक्यं, बलवीर्याभिवृद्धिप्राधान्यमुपादाय वाजीकरणं, वयःस्थापनादिमहाफलदीर्घप्रयोगविशेषानुपादाय रसायनम्, ऋतुगर्भबाल्यादिप्राथमिकभावस्थासम्बन्धमुपादाय कौमारभृत्यम्, एतदितरशारीरमानसभैषज्यमुपादाय कायचिकित्सा, बहिरागन्तुकविकृतिप्रशमने सर्पवृश्चिकप्रभृतिप्राण्यादिविषविप्लवमुपादाय अगदतन्त्रं, भूतग्रहस्कन्दादिदेववर्गविप्लवमुपादाय भूतविद्या, इति त्रिविधदुःखशाखाविशेषाननुसन्धाय तत्तत्प्रतीकारदृशाऽष्टौ
१. हेतुर्लिङ्गौषधज्ञानं स्वस्थातुरपरायणम् । त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं प्रजापतिः ॥
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः । यथावदचिरात्सर्वं बुबुधे तन्मना मुनिः ॥ (चरक सू. अ. १)
उपोद्घातः
१५
प्रस्थानानि विभक्तानि प्रतीयन्ते। पूर्वाचार्याणामनुसन्धाने ब्रह्मण इन्द्रस्य च सर्वप्रस्थानीयविज्ञानव्यूहे आचार्यभावो लभ्यते। महाभारतलेखत इन्द्रालब्धोपदेशो भरद्वाजः, हरिवंशलेखतो भरद्वाजात् सुश्रुतसंहितालेखत इन्द्रादेव लब्धोपदेशो धन्वन्तरिश्च सर्वप्रस्थानविज्ञानेषु सामूहिकज्ञानवानवगम्यते। एकैकशो विषयस्य विकासेन बहुलीभावेऽद्यत्वे एकैकाङ्गभैषज्य-विशेषविज्ञानवशादेकैकविभागभिषग्भाववत्तत्र तत्र विशेषवैदुष्यसम्पत्तये शिष्याणां ग्रहणधारणसौकर्याय च महाभारतलेखतो भरद्वाजेन, हरिवंशलेख$^१$तो धन्वन्तरिणा आयुर्वेदीयविज्ञानमष्टसु प्रस्थानेषु विभज्य विकसितमेकैकप्रस्थानं पृथक्पृथग्भावेन शिष्येभ्य उपदिष्टं प्रचारमापादितं चेत्यवगमेन तदुपक्रममष्टौ प्रस्थानानि पृथक्पृथक्प्रवाहरूपेण लोके प्रसृतानि प्रतीयन्ते। कायचिकित्साप्रस्थानीयायामात्रेयसंहितायां कौमारभृत्यप्रस्थानीयां काश्यपसंहितायामपि साधारणाचार्यैः प्रजापतीन्द्रादिभिः सह धन्वन्तरेर्हौम्यदेवतात्वेन निर्देशनं, नानाप्रस्थानेषु धान्वन्तरघृतादेरुपादानमपि धन्वन्तरेरष्टाङ्गविभागाचार्यत्वं व्यनक्ति। न केवलं मूलधन्वन्तरिः, अपितु तत्सम्प्रदायं लब्धवान् द्वितीयो धन्वन्तरिर्दिवोदासोऽपि अष्टस्वङ्गेषु कतममुपदिशामीति सुश्रुतं पृष्ट्वा शल्यं प्रधानीकृत्योपदिशतु भवानिति तेनाभ्यर्थितः शल्यप्रधानं विज्ञानं तस्मै उपदिदेशेति सुश्रुतसंहितायामुपक्रमभागे लेखेन, पश्चादष्टाङ्गवित्त्वस्य कण्ठ$^२$तोऽपि निर्देशेन च अष्टाङ्गविद्याचार्य आसीदिति व्यक्तीभवति। अष्टाङ्गविधौ भरद्वाजादिन्द्राद्वा लब्धोपदेशेनात्रेयपुनर्वसुनोपदिष्टैरग्निवेशादिभिः षड्भिः पृथक्पृथक्तन्त्राणां प्रणयनस्योल्लेखेन, धन्वन्तरिणां दिवोदासेन शल्यप्राधान्यमादायोपदिष्टेन सुश्रुतेन सुश्रुतसंहिताया निबन्धनस्योल्लेखेन च तयोः क्वचन प्रस्थानान्तरीयविषयाणामप्युपलम्भेऽपि तेषां प्रसङ्गेन लेशत एव तत्रानुस्यूततया 'प्राधान्यतो व्यपदेशा भवन्ति' इति न्यायेन भरद्वाजस्याष्टाङ्गसम्प्रदायेष्वेकतमोऽयमात्रेयपुनर्वसोः कायचिकित्साप्राधानः सम्प्रदायः, धन्वन्तरेर्दिवोदासस्य वाऽष्टाङ्गसम्प्रदायेष्वेकतमोऽयं सुश्रुतस्य शल्यप्रधानः सम्प्रदाय इति सम्प्रदायद्वयं चिरादवशिष्टमद्याप्यास्ते। कौमारभृत्यप्रस्थाने आत्रेयादपि पूर्वस्य मारीचकश्यपसम्प्रदायस्याप्यन्यस्येदानीमुपलम्भेन सम्प्रदायत्रयं पुरो भवति। चरकसुश्रुतसंहितयोर्लेशतोऽन्तर्गतस्य कौमारभृत्यविषयस्य स्वतन्त्रप्रस्थानभावेन संहितात्वान्त्रात्मना पृथगेवोपलम्भात् सुश्रुतोत्तरतन्त्रे संक्षिप्तरूपेण सन्निवेशितानां शालाक्यादिविषयान्तराणामपि एवमेव सर्वाङ्गपूर्णाः संहितादयस्तत्तदाचार्याश्नानेके भवेयुरिति निश्चेतुं शक्यते। प्रस्थानान्तराणि कालवशेन हन्त इदानीं विलुप्तानि इत्यन्यदेतत्, परं महाभा$^३$रतहरिवंशसुश्रुतादिषूल्लिखितोऽयमष्टाङ्गविभागः प्राचीन एव। तदेवं कायचिकित्सायां भरद्वाजसम्प्रदायः, शल्यप्रस्थाने धन्वन्तरिसम्प्रदायश्चेति द्वेधा विभक्तोऽसौ पुनरष्टधा प्रववृत्त इति कल्पना नात्मलाभाय।
तदेवमार्षेऽपि समये कालक्रमेणाष्टाङ्गेष्वेकैकोऽपि विभागो विकासमुपगच्छंस्तैस्तैराचार्यैरेकैकशोऽपि सविशेषं न्यरूप्यत, येन तत्र तत्र विभागे ते ते प्रधानाचार्यपदमलञ्चक्रुः। $^४$सुश्रुते-विदेहनिमेः शालाक्यतन्त्रकृत्त्वेन, $^५$सुश्रुतौपधेनवौरभ्रपौष्कलावतादीनां शल्यतन्त्रकृत्त्वेन, शौनक$^६$कृतवीर्यपाराशर्यमार्कण्डेयसुभूतिगौतमानां पूर्वाचार्यत्वेन निर्देशः, $^७$चरकसंहितायामग्निवेशादीनां
१. तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा। काशिराजो महाराजः सर्वरोगप्रणाशनः॥
आयुर्वेदं भरद्वाजात् प्राप्येदं भिषजां क्रियाम्। तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत्॥ (हरिवंशे. अ. २९)
२. अष्टाङ्गवेदविद्वांसं दिवोदासं महौजसम्। विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति। (सु. उ. तं. अ. ६६)
३. महाभारते सभापर्वणि-आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत (११/१७)।
एवं पूर्वनिर्दिष्टयोर्महाभारतहरिवंशलेखयोः।
४. सुश्रुते—"शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः।"। (सु. उ. अ. १४)॥
५. सुश्रुते—औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम्। शेषाणां शल्यतन्त्राणां नामान्येतानि निर्दिशेत् (सु. सू. अ. ४)।
६. सुश्रुते—शरीरनिर्मितिविषये शौनकमतोल्लेखः (सु. शा. अ. ३)॥
७. चरके—अग्निवेशश्च भेडश्च जतूकर्णः पराशरः। हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः॥
तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत्। अथ भेदादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च॥ (च.सू.अ. १)॥
१६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
ष्णाणां चिकित्सातन्त्रकर्तृतया निर्देशः, काङ्क्षाय¹नवायोर्विदहिरण्याक्षकौशिकमैत्रेयकुशसाङ्कृत्यायनकुमारशिरोभरद्वाजवडिशधामार्गवमारीचिकाप्याकाशीपतिवामकपारीक्षिन्मौद्गल्यशरलौमकौशिकभद्रकाप्यधन्वन्वर्त्यादीनां मतोल्लेखः, ²अङ्गिरोजमदग्निकश्यपकाश्यपादीनां बहूनामृषीणां नामोद्देशः, अस्मिन् वृद्धजीवकीयतन्त्रेऽपि सूत्रस्थानरोगाध्याय (पृ. ३९) सिद्धिस्थानराजपुत्रीयाध्याय-वमनविरेचनीयाध्यायग्रन्थेषु तत्तन्मतोद्देश भार्गववायोर्विदकाङ्कायनकृष्णभरद्वाजादरुवाहहिरण्याक्षवैदेहनिमिगार्ग्यमाठरात्रेयपुनर्वसुपाराशर्यभेडकौत्साख्यानामाचार्यान्तराणामुल्लेखश्चोपलभ्यमानो बहूनायुर्वेदीयान् पूर्वाचार्याननुस्मारयति ॥
एषु कतिपयानां पराशरभेडकाङ्कायनहारीतक्षारपाणिजातूकूर्णादीनामाश्विनभारद्वाजभोजभानुपुत्रकपिलवलभालुकिखरनाद-विश्वामित्रादीनामन्येषां चाचार्याणां मधुकोशचरकसुश्रुतव्याख्यादिषु ताडपत्रीयप्राचीनज्वरसमुच्चयज्वरचिकित्सितादिषु चोद्धृतानि वचनान्यपि कतिपयानि लभ्यन्ते, तेनैषां ग्रन्थसत्त्वं स्पष्टमवबुध्यते । येषामुद्धृतानि वचनान्यद्य यावन्नोपलब्धानि तादृशानामपि तत्र तत्र तन्त्रकर्तृत्वेन सूत्रकारित्वेन निर्देशनान्मतोपादानाच्च तेषामपि ग्रन्थसत्वमनुमीयते । हेमाद्रेर्लक्षणप्रकाशोद्धृते³ शालिहोत्रोक्ताश्वशास्त्रेऽप्यश्वाभिषेकमन्त्रश्लोकेषु आयुर्वेदस्य कर्तार इति बहूनामृषीणां नामानि कीर्तितानि दृश्यन्ते ॥
अतश्च दैवाद्युगात् प्रभृत्यर्वाचीनसमयपर्यन्तं देवमहर्षिप्रभृतयो बहव आयुर्वेदाचार्या बभूवुः । अष्टाङ्गस्यायुर्वेदस्य एकैकोऽपि भागस्तत्तदाचार्यैर्ग्रन्थप्रणयनेनोपदेशेन च परमां पुष्टिमापादित इति सङ्कलने महत्तम आयुर्वेदीयो ग्रन्थराशिः सम्भवेत् । परं कालमहिम्ना शास्त्रान्तराणामिव आयुर्वेदरत्नाकरस्यापि हन्त ! बहून्यमूल्यरत्नानि विलोपमुपगतानि । एतदीयप्राचीनविलुप्तग्रन्थविषयके आलोचने श्रीयुतमदीयाप्ततमविद्वद्वरगण⁴नाथसेनमहोदयैः गिरीन्द्रना⁵थमुखोपाध्यायप्रभृतिभारतीयविद्वद्भिः पाश्चात्यविद्वद्भिरपि बहु निरूपितमेवेति नात्र पिष्टपेषणमर्हति ।
आत्रेयसुश्रुतसंहिते
बहुशश्चिरन्तानां ग्रन्थरत्नानां विलोपेन विषादमनुभावयतोऽस्यायुर्वेदधेर्महिमानमविलोपितुमवशिष्टमात्रेयधन्वन्तरिसहितयोर्द्वयं चरकसुश्रुतसंहितानामभ्यां चिरात्सिद्धितरमुपलभ्यते । अनयोर्मूर्धन्यभावगौरवस्य सुप्रथिततया सूर्याचन्द्रमसोरालोकान्तरमिव न परिचयाय प्रकाशोऽपेक्ष्यते ॥
अष्टाङ्गहृदयकर्तुर्वाग्भटस्य समये आचार्यान्तराणामपि आयुर्वेदीयाः संहितादयः स्युर्नाम, तथाऽपि—
१. सूत्रस्थाने वातकलाकलीय (१२) यज्जः पुरुषीय (२५) आत्रेयभद्रकाप्यीया (२६) ध्यायेषु ।
२. चरकोपक्रमग्रन्थे (च. सू. अ. १) ॥
३. हेमाद्रेर्लक्षणप्रकाशस्य १५२५ (वैक्रम) संवल्लिखितं प्राचीनं जीर्णपुस्तकमेकं मत्सङ्ग्रहेऽस्ति । तत्र गजप्रकरणे पालकाप्यादिवचनानीवाश्वप्रकरणे शालिहोत्रवचनानि बहुश उद्धृतानि सन्ति, तत्रैवं श्लोकोद्धारोऽस्ति—
वसिष्ठो वामदेवश्च च्यवनो भारविस्तथा । विश्वामित्रो जमदग्निर्भरद्वाजश्च वीर्यवान् ॥
असितो देवलश्चैव कौशिकश्च महाव्रतः । सावर्णिंगालवश्चैव मार्कण्डेयस्तु वीर्यवान् ॥
गौतमश्च .... भागश्च आगरुप (?) काश्यपस्तथा । आत्रेयः शाण्डिल्यश्च तथा नारदपर्वतौ ॥
काण्वगो नहुषश्चैव शालिहोत्रश्च वीर्यवान् । अग्निवेशो मातलिंश्च जतुकर्णः पराशरः ॥
हारीतः क्षारपाणिश्च निमिश्च वदतां वरः । अदायिकश्च भगवान् श्वेतकेतुर्भृगुस्तथा ॥
जनकश्चैव राजर्षिस्तथैव हि विनग्रजित् । विश्वेदेवाः समरुतो भगवाँश्च बृहस्पतिः ॥
इन्द्रश्च देवराजश्च सर्वलोकचिकित्सकाः । एते चान्ये च बहव ऋषयः संश्रितव्रताः ॥
आयुर्वेदस्य कर्तारः सुस्नातं तु दिशन्तु ते ॥ (प. १५९)
४. प्रत्यक्षशारीरभूमिकायाम् ।
५. History of Indian Medicine.
उपोद्घातः
१७
यदि चरकमधीते तद्ध्रुवं सुश्रुतादिप्रणिगदितगदानां नाममात्रेऽपि बाह्यः ।।
अथ चरकविहीनः प्रक्रियायामखिन्नः किमिव खलु करोतु व्याधितानां वराकः ।।
(अष्टाङ्गहृदय. उ. अ. ४०)
इति केवलं चरकाध्ययने सौश्रुतोक्तरोगविशेषाणां नाम्नाऽप्यज्ञानं भवेत्, सुश्रुतमात्राध्ययने कथं वा प्रतीकारप्रक्रियाविशेषज्ञानमिति चरकसुश्रुतयोर्द्वयोरप्यवश्यमुपादेयत्वमित्यायुर्वेदीयज्ञानाकररूपेण संमाननीयदृशा उपवर्णनेन मध्यकाले वाग्भटसमयेऽप्येतावेव ग्रन्थौ सर्वोपर्यास्तामित्यवगम्यते । सहस्रवर्षपूर्वलिपिमये ज्वरसमुच्चयपुस्तकेऽपि चरकसुश्रुतवचनानि बहुश उपात्तानि, चतुर्थशताब्दीलिखिते नावनीतकपुस्तकेऽपि चरकोक्तानि वचनानि संवदन्ति, सुश्रुतस्य नाम्नाऽप्युल्लेखोऽस्ति । बाणभट्टीये हर्षचरिते पौनर्वसववैद्यकुमारस्य निर्देशेन आत्रेयपुनर्वसुसम्प्रदायस्य तदात्वेऽपि प्रचार उपलभ्यते । यदा प्रभृत्यनयोरुद्भवस्तदादिविचारगौरवेण गुणातिशयमहिम्ना चरकसुश्रुतसंहितयोर्द्वयं लोके प्रचरद्रूपतया समयेन भरताद्वहिरपि स्वालोकं प्रासारयत्, अद्यापि वैद्यवर्गाणां हृदयसर्वस्वायत एव । सप्तमाष्टम$^१$नवमशताब्दीषु प्रगतिपथाभिमुखे आरव्यदेशे पारसीकदेशे च भारतीयभैषज्यविद्यायाः समादरेण चरकसुश्रुतसंहिते अनूदिते । आरव्यभाषायामनूदितश्चरकः सरकनाम्ना, सुश्रुतः सस्रदनाम्ना ज्ञायते । 'अबूस्रीन' (Abusina) अबूरसी, (Abu Rasi) अबूूसिराबि, (Abusirabi) नामकानामार्ब्यवैद्यकग्रन्थानां लेटिनभाषानुवादेष्वपि चरकनाम पुनः पुनरुपात्त श्रूयते । अल$^२$बेरूनी (Alberuni) नामकस्य पर्यटकस्य पुस्तकालये चरकानुवाद आसीदित्यपि तदीयाङ्ग्लभाषानुवादे लभ्यते । अल$^३$मनसूरो (Almansuro 753-774 A. D.) बहूनायुर्वेदग्रन्थाँश्चरकस्य सर्पचिकित्साप्रकरणं सुश्रुतं चान्ववादयत् । तदीयवैद्यो रजस् (Rhares) नामा चरकं बहुमानयति स्म । सिरसीननामकस्य पाश्चात्यस्य पूर्$^४$र्वजा अपि भारतीयमायुर्वेदं चरकसुश्रुते चावेदिषुरित्यप्युपवर्ण्यते पुरावृत्तलेखकेन । अशोकनृपपौत्रसमये बौद्धधर्मेण साकं भारतीय आयुर्वेदः सिंहलमप्यनुप्राविशत् । भारतीयायुर्वेदो विशेषरूपेण बह्वीभिष्टीकाभिर्युतो वाग्भटस्तिब्बतप्रदेशे स्वप्रभावं प्रकाश्य ततो मङ्गोलपर्यन्तमपि प्रचचार । भारते विलुप्ता अप्यनेका वाग्भटस्य टीका अद्यापि तिब्बतप्रदेशेऽनूदिता लभ्यन्ते ।।
भेडसंहिता
अद्यत्वे भेडसंहितानाम पद्यलेखबहुला संक्षिप्तलेखाऽन्याऽपि संहिता कलिकातायां संमुद्य प्रकाशिताऽस्ति । आर्षच्छायानुरूपरचनादर्शनेन साऽपि प्राचीनाऽऽर्षी संहिता प्रतीयते । परमुपक्रमोपसंहारभागयोर्मध्ये मध्येऽपि बहुशो विच्छिन्नविकलाङ्गाऽशुद्धिबहुला च दृश्यते । सहस्रवर्षपूर्वलेखितं ज्वरसमुच्चयस्य ताडपत्रपुस्तकमेकमुपलब्धमस्ति । यत्राश्विनभारद्वाजादीनामिव भेडस्यापि केवलं ज्वरप्राकरणिकानि बहूनि वचनान्युद्धृतानि दृश्यन्ते । तेषु द्वित्रसंख्यका एव श्लोका उपलब्धमुद्रितभेडसंहितायां संवादं लभन्ते, तदुद्धृतानि श्लोकान्तराणि तु न प्राप्यन्ते । प्राचीनैतद्ग्रन्थोद्धृतानां तावतां श्लोकानामात्र संवादेन सेयं भेडसंहिता न खलु न प्राचीनेति वक्तुं शक्यते, परमेकस्मिन्नेव ज्वरप्रकरणे उद्धृता अप्यन्ये श्लोकाः, एवं तन्त्रसारनामके सङ्ग्रहान्तरग्रन्थे भेडनाम्ना उद्धृताः प्रकरणान्तरीयाः श्लोकाः, एवं टीकाकृद्भिस्तत्र तत्र भेडनाम्नोद्धृताः श्लोका अप्यस्या भेडसंहितायां प्रायो न दृश्यन्ते । अस्मिन् वृद्धजीवकीये बस्तिकर्मसमयनिर्देशप्रसङ्गे “षड्वर्षप्रभृतीनां तु भेड” (सिद्धस्थान. अ. १) इति षड्वर्षोत्तरं बस्तिकर्मवादो भेडमतत्वेनोल्लिखितोऽस्ति । उपलब्धभेडसंहितायां 'बालानामथ वृद्धानां युवमध्यमयोस्तथा । स्वस्थानामातुराणां च बस्तिकर्म प्रशस्यते' इति बस्तिकर्मणः
१. H. H. Wilson.
२. Pr. Sachu.
३. Hindu Superiority by Har Bilas Sarada.
४. किताबे अलफेरिस्त एण्टिक्विटी आँफ् हिन्दु मेडिसिन ।।
| १८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
सर्वसाधारणयेनोपयोगोल्लेखोपलम्भनं न संवादाय जायते। एवं तत्र ततोपलब्धमानानां बहूनां वचनानामत्रानुपलम्भेन सेयं भेडसंहिता बहुष्ववयवेषु विशेषतो विच्छिन्ना संशयं चादधानाऽवगम्यते। वाग्भटेनापि एवमेव विच्छिन्नाङ्गोपलम्भेन वा चरकसुश्रुतसंहितयोरिवास्यां विषयनिरूपणस्य नातिविशदतया वा—
‘‘ऋषिप्रणीते भक्तिश्चेन्मुक्त्वा चरकसुश्रुतौ। भेडाद्याः किं न पठ्यन्ते तस्माद्ग्राह्यं सुभाषितम्।।’’
(अष्टाङ्गहृदये उ. तं. अ. ४०)।
इति भेडविषये कटाक्षितं दृश्यते॥
हारीतसंहिता
अद्यत्वे संमुद्य प्रकाशिता प्राय एतदनुरूपैव द्वित्रशतवर्षपूर्वलिखिताऽपि हारीतसंहिता मिलति। सा तु प्राचीनार्षतन्त्रच्छायाराहित्येन साधारणसंग्रहप्रायतया दृश्यमाना न प्राचीना न वाऽऽर्षीसंमन्तुं शक्यते। प्राचीने ज्वरसमुच्चये बहुशो हारीतनाम्नोद्धृतानि श्लोकवचनानि दृश्यन्ते, ग्रन्थान्तरेष्वपि तत्र तत्रोद्धृतानि हारीतवचनानि दृश्यन्ते, परं तानि वचनानि नास्मिन्नुपलब्धहारीतसंहितापुस्तके लभ्यन्त इति विसंवादोऽप्यन्यस्या एव प्राचीनहारीतसंहितायाः पूर्वसत्त्वमनुमापयति। प्राचीनहारीतग्रन्थलोपमनुसन्धाय तन्नामाविलुप्तये दयालुना केनापि पश्चाद्भवेन विदुषा हारीतनाम्नैतद्ग्रन्थरचनासौजन्यमाविष्कृतं संभाव्यते॥
नवोपलब्धेयं काश्यपसंहिता
चिरात्प्रसिद्धयोश्चरकसुश्रुतसंहितयोरचिरोपलब्धाया भेडसंहितायाश्चोपलब्ध्यनुक्रमेण चतुर्थतां वहत्यपि प्राचीनार्षलेखक्रियया विषयगाम्भीर्येण सारपूर्णतया चात्रेयसुश्रुतसंहितयोः समकक्षं निबन्धनमनुभावयन्ती कौमारभृत्यप्रस्थानीयेयं प्राचीना काश्यपसंहिता वृद्धजीवकतन्त्रात्मना परिणतां प्रतिकूलेन दैवेन ब...कालविलोपं प्राप्य दिष्ट्या यत्र क्वचानन्तर्नीलीयावस्थितेन जिर्णशीर्णेनैकेन प्राचीनताडपत्रपुस्तकात्मनोपलब्धा प्राणशेषा विच्छिन्नविकलेन शरीरेणात्मानमिदानीं प्रादुष्करोति। करालकालकवलितावयवाया अपि शेषैरप्यवयवैर्निजं गाम्भीर्यगौरवं दर्शयन्त्याश्चिरेण नाम्नाऽपि विलुप्तायाः प्रत्नाया अस्या आर्षसंहिताया लाभो महाँल्लाभ इव विदुषां तोषायैव जायेत॥
पुरा नेपालदेशमुपगतैः श्रीयुतविद्वद्वरमहामहोपाध्यायहरप्रसादशास्त्रिमहोदयैः— ‘‘नेपाले मया ३८ पत्रात्मिका कश्यपभार्गवसंवादरूपा वैद्यकविषयिण्यपूर्णा प्राचीना काश्यपसंहिता लब्धा, यत्रादौ भेषज्योपक्रमणीयमष्टमपत्रतो ज्वरनिदानं निरूपितमस्ति। चरकसुश्रुतकश्यपाश्विनात्रेयभेडपराशरहारीतजातूकर्णादीनां वचनान्यप्युद्धृतानि सन्ति। भेषज्योपक्रमणीयनामसत्त्वेऽप्यौषधविषयोल्ले खो नास्ति’’ इति विवरणेन सह काश्यपसंहिताया उपलम्भवृत्तं Report on the Search of Sanskrit Manuscripts (1895-to 1900) पत्रं प्रकाशितम्, तद्विवरणं Julius Jolly महाशयेन Medicine पुस्तकेऽप्युल्लिखितं दृश्यते। तदीयविवरणानुरूपं पुस्तकं नेपालराजकीयपुस्तकालये तैरेव निर्माय प्रकाशिते तदीयपुस्तकसूचीपत्रेऽपि न दृश्यते, बहिरपि सयत्नं पर्यालोचने तादृशं काश्यपसंहितापुस्तकं नासाद्यत। परं ज्वरनिदानादिविषये नानार्षवचनसंग्रहरूपः प्राचीनस्ताडपत्रीयो ज्वरसमुच्चयो नाम वैद्यकग्रन्थो नेपालेऽन्यत्राप्युपलभ्यते, अस्मत्सकाशेऽप्यस्ति। यत्र ज्वरविषये बहुशः काश्यपवचनानि, तदुक्तविवरणानुरूप्येण चरकसुश्रुतकश्यपाश्विनभेदादिवचनान्यपि संगृहीतानि दृश्यन्ते। काश्यपवचनोपन्यासे ‘‘शृणु भार्गव तत्त्वार्थं सन्निपातविशेषणम्’’ इति काश्यपसंहिता-खिलभागलभ्यवचनोद्धारदर्शनेन तद्देशे भार्गवकश्यपसंवादरूपत्वमपि संवदति। तदीयविवरणे आदौ भेषज्योपक्रमणीयोल्लेखेन, ज्वरसमुच्चये तदभावेन, काश्यपसंहितायाः खिलभागे तृतीयाध्यायस्य भेषज्योपक्रमणीयनामतया च अष्टपत्रपर्यन्तं खिलभागीयकाश्यपसंहिताया भेषज्योपक्रमणीयाध्यायोऽपि तत्र संपृक्तः किलेति प्रतिभाति। अस्यां प्रकाश्यमानायां काश्यपसंहितायां तु चरकसुश्रुतादीनां
उपोद्घातः १९
वचनोद्धारो नास्ति। प्राचीनतमायामस्यामर्वाग्भवानां चरकादीनां वाक्यानामुद्धारेण नापि भवितव्यम्। न चात्र ज्वरप्रकरणमेव, नाप्यौषधानुपदेशः, तेन तद्दृष्टिपथमुपेतो ग्रन्थः सर्वांशतया नैषा काश्यपसंहिता भवेत्, अपि तु एतदीयभैषज्योपक्रमणीयाध्यायैकतिपयपत्रमिलितस्तदुक्तविवरणसंवादी उपलभ्यमानो ज्वरसमुच्चयः, किं वा एतादृशमेव प्राचीनसंग्रहात्मकं ग्रन्थान्तरं स्यादिति सम्भाव्यते॥
उपलब्धैतत्ताडपत्रपुस्तकस्याकृतिः २१-१/२ × २-१/४, प्रतिपृष्ठं पङ्क्तयः ६, सर्वादिमः पत्राङ्कः २९, अन्तिमश्च २६४, अन्तरान्तराऽपि बहुशो विलुप्तानि पत्राणि। उपलब्धैतत्पुस्तकस्याद्यन्तयोर्मध्ये मध्ये च खण्डिततयाऽवशिष्टपत्रोपलब्धये बहुप्रयतित, परं लुप्तानि पत्राणि प्रतीकान्तरं चानवाप्यैतावत्येव विश्रमितव्यमभूत्। लुप्तपत्राणि मुद्रितारम्भपत्रपादटिप्पण्यां निर्दिष्टानि। ग्रन्थपर्यालोचनायामादौ दशद्वादशाध्याया विच्छिन्नाः, अन्तेऽपि खिलभागस्य ८० अध्यायेषु २६ अध्यायपर्यन्तमेव सत्त्वेन ततः पश्चात्तनतो भागोऽपि विच्छिन्नः। वर्तमानेष्वपि पत्रेषु बहुशः पत्राण्यंशतः शकलीभूतानि, येन तत्र तत्र विलुप्ताः पङ्क्तयः शब्दा अक्षरादयश्च बिन्दुमालया मुद्रणे सूचिताः सन्ति। एतदीयाः लिपिः प्राचीना। तत्रापि बहुभागेषु लिपीनामेकजातीयत्वेऽपि लेखभेददर्शनेन द्वाभ्यां लेखकाभ्यामेकस्मिन् समये खण्डशो विलिख्य समापितमिदं मूलपुस्तकं प्रतीयते। उपक्रमोपसंहारभागयोर्विलोपेन ततो विज्ञेया विशेषा न किमप्यवबोद्धुम्पार्यन्त। समाप्तिभागस्यानुपलब्ध्या ततो विज्ञेयो लेखसमयोऽपि नोपलभ्यते। परमेतदीयलिप्याकृतेः, अक्षरैर्निर्दिष्टानां पत्राङ्कानां, क्वचनाध्यायश्लोकाङ्कानां, ताडपत्रायामविस्तारयोश्चानुसन्धानेन सप्ताष्टशतवर्षपूर्वतनोऽयं पुस्तकलेख इत्यनुमातुं शक्यते। परमस्मिन्नादर्शपुस्तकेऽपि तदीयादर्शपुस्तकगताक्षराणां विलोपेन किल क्वचन विनैवाक्षरमवशेषितस्य स्थलस्य दर्शनेनैतदीयादर्शमूलपुस्तकमप्येतादृगेव जराजीर्णं प्राचीनं सम्भाव्यते। पुस्तकाकृतिपरिज्ञानाय पृष्ठद्वयस्य प्रतिच्छायाऽप्यत्र सन्निवेशिताऽस्ति॥
कश्यपस्य विमर्शः
प्राचीनाचार्यवैद्यकग्रन्थेषु सुश्रुतसंहिता चरकसंहिता नवोपलभ्येयं काश्यपसंहितेति यदिदं महनीयमार्षं ग्रन्थत्रयमिदानीमस्माकं पुरः समुपतिष्ठते, तत्र सुश्रुतसंहितायां धन्वन्तरिः, चरकसंहितायां पुनर्वसुरात्रेय इवास्यां काश्यपसंहितायां कश्यपो मूलभूत उपदेशक इत्यवगम्यते॥
कोऽयमाचार्यः कश्यप इति जिज्ञासायामस्यां संहितायामुपक्रमोपसंहारभागयोः खण्डिततया ततो विशेषतो विज्ञेयस्यापरिज्ञानेऽपि एतदीयपरिचयायात्रैव संहिताकल्पाध्याये इत्थमुल्लिखितं दृश्यते—
“दक्षयज्ञे वधत्रासाद्देवर्षीणां पलायताम्। रोगाः सर्वे समुत्पन्नाः सन्तापाद्देहचेतसोः ।।
प्रागुत्पत्तिस्तथाऽन्येषां रोगाणां परिकीर्तिता। कृतत्रेतान्तरत्वेन प्रादुर्भूता यथा नृणाम् ।।
ततो हितार्थं लोकानां कश्यपेन महर्षिणा। पितामहन्नियोगाच्च दृष्ट्वा च ज्ञानचक्षुषा ।।
तपसा निर्मितं तन्त्रमृषयः प्रतिपेदिरे। जीवको निर्गततमा ऋचीकतनयः शुचिः ।।
जगृहेऽग्रे महातन्त्रं सञ्चिक्षेप पुनः स तत्। नाभ्यनन्दन्त तत्सर्वे मुनयो बालभाषितम् ।।
ततः समक्षं सर्वेषामृषीणां जीवकः शुचिः। गङ्गाह्रदे कनखले निमग्नः पञ्चवार्षिकः ।।
बलीपलितविग्रस्त उन्ममज्ज मुहूर्त्तकात्। ततस्तदद्भुतं दृष्ट्वा मुनयो विस्मयं गताः ।।
वृद्धजीवक इत्येव नाम चक्रुः शिशोरपि। प्रत्यगृह्णन्त तन्त्रं च भिषक्श्रेष्ठं च चक्रिरे ।।
ततः कलियुगे तन्त्रं नष्टमेतद्यदृच्छया। अनाया¹सेन यक्षेण धारितं लोकभूतये ।।
वृद्धजीवकवंश्येन ततो वात्स्येन धीमता। अनायासं प्रसाद्याथ लब्धं तन्त्रमिदं महत् ।।
१. अनायासेन यक्षेण, अनायासं प्रसाद्यार्थ-इति पूर्वापरसंगमनेन अनायास इति यक्षस्य नामोल्लेख इत्यवगम्यते ।
२०
काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
ऋग्यजुःसामवेदांस्त्रीनधीत्याङ्गानि सर्वशः। शिवकश्यपयक्षांश्च प्रसाद्य तपसा धिया ।।
संस्कृतं तत्पुनस्तन्त्रं वृद्धजीवकनिर्मितम्। धर्मकीर्तिसुखार्थाय प्रजानामभिवृद्धये ।।
स्थानेष्वष्टसु शाखायां यद्यन्नोक्तं प्रयोजनम्। तत्तद्भूयः प्रवक्ष्यामि खिलेषु निखिलेन ते।।"
(इति)
काश्यपसंहिताया उपलब्धप्राचीनताडपुस्तकस्य पत्राणां प्रतिच्छवि. । पृष्ठ २४ (संस्कृत उपोद्धात)
उपोद्घातः २१
इतश्च दक्षयज्ञे समुपजातादुपप्लवादुत्पन्नैः प्राचीनैश्च नानारोगैः पीडिताँल्लोकानभिसमीक्ष्य तदुद्दिधीर्षया पितामहन्नियोगेन महर्षिः कश्यप आर्षतपोविज्ञानबलेनैतन्महातन्त्रं निर्माय ऋषीनुपदिदेश। सर्वेभ्यः प्रागिदं तन्त्रं गृहीत्वा ऋचीकपुत्रो जीवको नाम बालमुनिर्विस्तृतस्यास्य संक्षिप्तं रचनान्तरमकरोत्। बालजल्पितमिति मुनयस्तन्नाङ्गीचक्रुः, तेन पञ्चवार्षिको बालो जीवकः सर्वेषामृषीणां पुरतः कनखले गङ्गाह्नदे निमज्ज्य बलीपलितव्याप्तवृद्धरूपेण क्षणादुन्ममज्ज। तेनाद्भुतेन विस्मिता मुनयः शिशोरपि वृद्धाकृतेस्तस्य वृद्धजीवक इति नाम विधाय तं भिषगुत्तममनुमान्य तदीयं तन्त्रं स्वीचक्रुः। ततः कलिकालवशेन लुप्तप्रचारमेतत्तन्त्रं दैवादनायासनाम्ना केनचिद्यक्षजातीयेन प्राप्य लोककल्याणाय रक्षितम्। तदनु वृद्धजीवकस्यैव वंशोद्भवो वात्स्यो नामाधीतवेदवेदाङ्गः शिवकश्यपभक्तो विद्वान् अनायासयक्षं प्रसाद्य ततस्तत्तन्त्रमधिगत्य बुद्धिवैभवेन श्रमेण च कीर्तिधर्मप्रजासुखाभिवृद्धये प्रतिसंस्कृत्य प्रकाशयामास। अष्टसु स्थानेष्वनुक्तं विषयान्तरं खिलरूपेण संयोजितमित्येतदीयमिति वृत्तं लभ्यते॥
आर्षेऽपि समये मन्त्रब्राह्मणादिषु कश्यपकाश्यपशब्दाभ्यामभिधीयमाना अनेके महर्षयः, ग्रन्थान्तरेष्वप्यनेके तन्नामानो विद्वांस उल्लिख्यमाना दृश्यन्ते। तेषु कतमोऽस्याः कौमारभृत्यसंहिताया मूलाचार्यः, यस्योपदेशो वृद्धजीवकमनुसङ्क्रान्त इति परिच्छेद्याय विवेचनीयं भवति। तत्र, अत्रिकश्यपादीनां गोत्रप्रवर्तकमूलाचार्यत्वेनोपलम्भात् कश्यपशब्देन मूलकश्यपस्य, काश्यपशब्देन तद्गोत्रोद्भवानां सामान्यतोऽवगमो भवति। गोत्रप्रवरनिर्देशाचार्याणां लेखानुसन्धाने बोधायनेन मूलगोत्रप्रवर्तकस्यैकस्यैव कश्यपस्योल्लेखेऽपि, प्रवरेषु काश्यपशब्देन व्यवहरणेऽपि, ‘कश्यपान् व्याख्यास्यामः’ इत्युपक्रम्य तद्गोत्रीयानवान्तरगोत्रप्रवर्तकान् विभागशो निर्दिश्य, अन्ते ‘इत्येते निध्रुवाः कश्यपाः’ इत्युपसंहृत्य च काश्यपगोत्रोद्भवा अवान्तरगोत्रप्रवर्तकाः काश्यपशब्देन व्यवहर्तुं योग्या अपि कश्यपशब्देन व्यवहृता दृश्यन्ते। आ¹पस्तम्बाश्वलायनकात्यायनादीनामप्येवमेवोल्लेखा उपलभ्यन्ते। तत्र बहुव्यक्तिनिर्देशपरत्वेन गोत्रप्रत्य²यलोपे कश्यपा इति व्यवहारसंभवेऽपि, शतप³थवंशब्राह्मणे ‘हरितः कश्यपः, शिल्पः कश्यपः, नैध्रुविः कश्यपः’ इति हरितादीनां मिथो विभिन्नानामेकैकव्यक्तीनामपि कश्यपशब्देन निर्देशोऽस्ति। तेन प्राक्काले काश्यपानां काश्यपशब्देनेव विशेषव्यक्तीनां कश्यपशब्देनापि प्रायिको व्यवहारसंप्रदायः प्रतीयते। तेन गोत्रप्रवरनिर्दिष्टशतां बोधायनादीनां लेखतो मूलकश्यपस्येव तत्परम्परागतस्याऽवान्तरकश्यपस्यापि कश्यपशब्देनावबोधो जायते। परं कश्यपपरम्परायां बोधायनादिभिरन्यस्य मारीचस्यानिर्देशेन आर्षसर्गे कश्यपस्य मरीचिपुत्रत्वेनान्यत्रोपलम्भाद्बोधायनादिलेखतो मूलकश्यप एव मरीचिपुत्रतया मारीच इति वक्तव्यमेव। ⁴मात्स्ये गोत्रप्रवरनिर्देशे मरीचेः पुत्रं कश्यपं मूलगोत्रपवर्तकं निर्दिश्य तत्सन्ततिष्ववान्तरोगत्रप्रवर्तकानामुद्देशे कश्यपा मारीचा अपि पुनः पृथग्भावेन निर्दिष्टा दृश्यन्ते। गोत्रप्रवरविषयसङ्ग्रहकारः कमला⁵करोऽपि मात्स्योक्तकश्यपविभागमुल्लिखन् ‘अथ कश्यपाः’ इत्युपक्रम्य कश्यपपरम्परागतमन्यमेक मारीचं
१. अथ कश्यपानां त्र्यार्षेयः काश्यपावत्सारनैध्रुवेति। (आपस्तम्बप्रवरकाण्डे)
कश्यपानां काश्यपावत्सारासितेति। (आश्वलायनप्रवरकाण्डे)
कश्यपान् व्याख्यास्यामः। (कात्यायनलौगाक्षिप्रवरकाण्डे)
२. अनृष्यानन्तर्ये विदादिभ्योऽञ् ४/१/१०४। यञञोश्च २/४/९४ (पाणिनिसूत्रे)
३. हरितात् कश्यपाद्धरितः कश्यपः शिल्पात् कश्यपाच्छिल्प कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविः। (शतपथवंशब्राह्मणे)
४. मरीचेः कश्यपः पुत्रः कश्यपस्य महामुने।
गोत्रकारानृषीन् वक्ष्ये तेषां नामानि मे शृणु।
..............................
..............................
कष्टायनाश्च हारीता आजिहायनहास्तिकाः।
वैकणैयाः कश्यपाश्च सासिसा हारितायनाः॥ (मात्स्ये)
५. अथ कश्यपाः ... काष्ठायनः मारीचः आजिहायनः .... इति मात्स्योक्ताः। (प्रवरदर्पणे)
| २२ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
गोत्रप्रवर्तकमृषिमेकवचनान्तेन शब्देन निर्दिशति। कश्यपपरम्परागतत्वेनास्य मारीचस्यापि कश्यपत्वं युज्यते च। तेन कश्यपपरम्परागतो द्वितीयोऽपि मारीचः कश्यप आसीदित्यवगम्यते। चरकोपक्रमग्रन्थे समवेतानां महर्षीणामुद्देशे कश्यपं प्रथमतः पृथङ्निर्दिश्य मारीचिकाश्यपाविति द्विवचनान्तपदेन मारीचेः काश्यपस्य च पृथक्तयोल्लेखेन कश्यपः काश्यपो मारीचिश्चेति त्रयो विभिन्ना अवगम्यन्ते॥$^१$
अस्यां काश्यपसंहितायां पूर्वापरशब्दानुसन्धाने प्रत्यध्यायमुपक्रमोपसंहारयोः 'इति ह स्माह कश्यपः' इति, क्वचनान्तराऽपि 'इत्याह कश्यपः' (खिलस्थान अ. १०), इति, कश्यपः (खिलस्थान अ. १०), 'कश्यपोऽब्रवीत्' (सिद्धस्थान अ. ३) इति, एवमन्यत्रापि बहुशः कश्यप$^२$शब्देनाचार्यस्योल्लेखो दृश्यते। क्वचन मारीच$^३$शब्देनापि निर्देशोऽस्ति। पूर्वापरग्रन्थैकवाक्यत्वानुसन्धाने कश्यपएव मारीचत्वेन, मारीच एव कश्यपत्वेन व्यवहृतो दृश्यमान एतदाचार्यं मारीचं कश्यपं बोधयति। स च सर्वत्रैकवचनान्तेन मारीचशब्देन कश्यपशब्देन च व्यवहृततया एकव्यक्तिरूप इति स्पष्टं प्रतीयते। आत्रेयसंहितायां वातकलाकलीये वार्योविदेन सह पक्षप्रतिपक्षभावेन दर्शितसंवादस्य मारीचेरात्रेयेण प्रदर्शनाद्द्वार्योविदसहभावी स मारीचो गम्यते। अस्यामपि संहितायाम्—
इति वार्योविदायेंदं महीपाय महनृषिः। शशंस सर्वमखिलं बालानामथ भेषजम्॥
(खिलस्था अ. १३)
इत्येतत्संहिताचार्यस्य मारीचस्य वार्योविदसहभावः प्रश्र्यते। आत्रेयसंहितायां पश्चाच्छारीरनिर्वृत्तिविषये विमर्शे $^४$‘विप्रतिपत्तिवादास्त्वत्र बहुविधाः सूत्रकृतामृषीणां सन्ति’ इति पूर्वाचार्यमतनिर्देशोपक्रमे पाठविभेदेन क्वचन पुस्तके मारीचिकश्यपस्य क्वचन पुस्तके कश्यपस्यात्रेयेणोल्लेखात्, ‘तत्र कश्यपः सर्वाङ्गनिर्वृत्तिः’ इति पाठविशेषे कश्यपस्य सर्वाङ्गनिर्वृत्तिवादस्य चरमपक्षतयाऽऽत्रेयेण प्रदर्शनात्, अस्यां काश्यपसंहितायामपि—
१. अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः। काङ्कायनः कैकशेश्यो धौम्यो मारीचिकाश्यपौ॥ (चरकसंहितायां सू. अ. १)
२. उपास्यमानमृषिभिः कश्यपं वृद्धजीवकः। (पृ. ३३)
प्रजापति समासीनमृषिभिः पुण्यकर्मभिः। पप्रच्छ विनाद्विद्वान् कश्यपं वृद्धजीवकः॥ (चिकित्सास्था.)
हुताग्निहोत्रमासीनं कश्यपं लोकपूजितम्। वृद्धो विशेषमन्विच्छन् पप्रच्छ विनये स्थितः॥ (कल्पस्थान.वि.क.अ.)
ततो हितार्थं लोकानां कश्यपेन महर्षिणा। तपसा निर्मितं तन्त्रमृषयः प्रतिपेदिरे॥ (कल्पस्था. सं.क.अ.)
महर्षि कश्यपं वृद्धं वेदवेदाङ्गपारगम्। (खिलस्थान. अ. २)
कश्यपं लोककर्तारं भार्गवः परिपृच्छति। (खिलस्थान. अ. ३)
३. मारीचमासीनमृर्षिं पुराणं हुताग्निहोत्रं ज्वलनार्कंतुल्यम्। (कल्पस्था. भो. क. अ.)
मारीचमृषिमासीनं प्राह स्थविरजीवकः। (कल्पस्था. ष. क. अ.)
४. मुद्रितचरकपुस्तकेऽत्र विप्रतिपत्तिवादोल्लखे ‘परोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः, युगपत्सर्वाङ्गनिर्वृत्तिरिति धन्वन्तरिः’ इति पाठदर्शनेन सुश्रुतलेखाद्धन्वन्तरेरेप्यतत्सिद्धान्तदर्शनेन च सर्वाङ्गनिर्वृत्तिवादो धन्वन्तरेः, अचिन्त्यत्ववादः कश्यपस्येत्यायाति। परमस्तु नाम धन्वन्तरेरपि स एव सिद्धान्तः, किन्तु एकस्मिल्लिखिते चरकपुस्तके ‘कश्यपः सर्वाङ्गनिर्वृत्तिः’ इति नाम्ननः पूर्वनिर्देशेन सह कश्यपस्य सर्वाङ्गनिर्वृत्तिवादं दर्शयन् पाठ उपलभ्यते। श्रीयुतगिरीन्द्रनाथमुखोपाध्यायैरपि History of Indian Medicine I, P, १७९ पुस्तके काश्यपनिरूपणे स एव पाठो गृहीतश्च। वार्योविदसभाविनो मारीच-कश्यपस्यैतांसंहिताचार्यतयाऽऽत्रेयसंहितायामपि तत्संवादी कश्यपः स एव निर्दिष्ट इत्यवधारणेन अत्र ‘सर्वेन्द्रियाणि गर्भस्य’ इत्यादिवाक्येन (पृ. ७०) सर्वाङ्गनिर्वृत्तिवादस्य सिद्धान्ततया दर्शितत्वेन अचिन्त्यत्ववादस्यात्रानुपलम्भेन विरुद्धसिद्धान्तान्तरस्याभावौचित्येन च कश्यपस्य सर्वाङ्गनिर्वृत्तिवादं दर्शयन्नेव पाठः सङ्गतो दृश्यते; पूर्वापरपदपाठविपर्यसो विचारणीयः॥
उपोद्घातः २३
सर्वेन्द्रियाणि गर्भस्य सर्वाङ्गावयवास्तथा । तृतीये मासि युगपन्निर्वर्तन्ते यथाक्रमम् ।।
(पृ. ७०)
इति स्वाचार्यस्य मारीचकश्यपस्य सिद्धान्तरूपेण सर्वाङ्गनिवृत्तिवादस्य संवादोपलम्भेन चात्रेयसंहितायां मारीचित्वेन कश्यपत्वेन चात्रेयेण निर्दिष्टस्य पूर्वाचार्यस्यैक्यानुसन्धानेनात्रेय पुनर्वसुनाऽपि समंमानं निर्दिष्टः पूर्वाचार्यो वैद्यविद्याचार्यस्य राजर्षेर्वार्योविदस्य सहभावी मारीचः कश्यप एवास्याः संहिताया उपदेष्टेति तत्संवादेनापि दृढीभवति । एतत्संहितायां बोधायनादिलेखे च मारीचशब्देन व्यवहारोऽस्ति । मरीचिशब्दादपत्यार्थेऽणि स शब्दः सिद्ध्यति । आत्रेयसंहितायां 'धौम्यो मारीचिकाश्यपौ, मारीचिरुवाच, मारीचिः कश्यपः' इतीकारान्तपाठदर्शनेऽपि मरीचिशब्दस्य बाह्वादिगणेऽपि पाठेन वार्योविदसहभावेन च इञ्प्रत्यये मारीचिशब्दस्यापि मारीचशब्दपर्यायत्वमेवायाति । अत इञ् (४/१/९५) इति सूत्रेण मारीचशब्दान्मारीचिशब्दसाधनेऽपि एकान्तरमात्रमुपादाय मारीचेन मारीचिना च सह वार्योविदसाहचर्यं सम्भवति ।।
एवं च सति पूर्वोपदर्शितदिशा मारीचकश्यपनाम्ना व्यवहर्तुं शक्ययोरुभयोर्लभिन्नास्यां संहितायां शिष्योपक्रमणीयाध्याये इन्द्रादवाप्तविद्यैः कश्यपात्र्यादिभिः पुत्रशिष्यसन्ततिद्वैरातद्विद्यायाः प्रचारस्योक्त्या बोधायनाद्युक्तो मरीचिपुत्रो मूलकश्यप एतदाचार्य इत्यपि सम्भवति; कृतत्रेतान्तरे बहुरोगोत्पत्त्या लोकबाधां शमयितुं कश्यपनेषा संहिता निर्मायि, यत्संक्षेपात्मकं वृद्धजीवकतन्त्रं कलियुगप्राप्तौ विलुप्तं पश्चाद्वात्स्येन लब्ध्वा संस्कृतमिति संहिताकल्पाध्यायलेखेन, आत्रेयलेखतः काङ्कायनदिसहभाविनो मारीचिकश्यपस्योपलम्भेन च कश्यपपरम्परागतो मात्स्योक्तो द्वितीयो मारीच एतदाचार्य इत्यपि संभवतीत्येतावताऽनयोरयमेवेति निर्धारयितुं दुष्करं भवति । मात्स्याद्युक्तो द्वितीयो मारीचकश्यप एव वा भवतु, स मूलकश्यपपरम्परायां कथित इति नवाधारयितुं शक्यते, तथाऽपि अवान्तरगोत्रेऽपि मन्त्रद्रष्टृणामेव प्रवर्तकत्वाभ्युपगमेन तस्यापि प्राचीनत्वमेवायाति । संहिताकल्पाध्याये कलौ विलुप्तस्य वृद्धजीवकतन्त्रस्य वात्स्येन यक्षादवाप्य संस्कृतत्वस्योल्लेखेन ततोऽपि पूर्वतनस्य वृद्धजीवकतन्त्रस्यापि मूलभूतायाः काश्यपसंहितायास्ततोऽपि सुतरां प्राक्काल इति संहिताकारः कश्यप उपर्येवारोहति । पाणिनीयसम्प्रदाये विदादिगणप्रविष्टे कश्यपशब्दे बहुत्वे बोध्ये एव गोत्रप्रत्ययलुको विधानेन तन्नियममनुरोधिनो वंशब्राह्मणलेखस्यानुसन्धाने एकस्यापि व्यक्तिविशेषस्य कश्यपशब्देन प्राग्व्यवहारस्योपलम्भेनात्र काश्यपस्यापि कश्यपशब्देन निर्देशः पाणिनेः प्राक्तनं व्यवहारमभिव्यनक्ति ।।
अस्यां काश्यपसंहितायां धन्वन्तरेर्मतोपादानेन, तत्सम्प्रदायानुयायिनो दिवोदासस्य सुश्रुतस्य च नामानुल्लेखेन, महाभा^१रते गुरुदक्षिणाप्रदेयाश्वानां प्राप्त्यै काशीपति दिवोदासमुपेयुषे गालवाय हिमवन्मूले वायव्यदिशि मारीचिकाश्यपाश्रमस्य निर्देशनस्योपलम्भेन च धन्वन्तरिमनु तच्चचुत्सन्ततेर्दिवोदासादनतिपूर्वं किं वा तत्समकाले हिमवन्मूले कृताश्रमोऽसौ मारीचकश्यप इत्यायाति, यन्नैतत्संहितोक्त गङ्गा^२द्वारनिवासित्वमपि समन्विति ।।
अवान्तरगोत्रप्रवर्तकस्य मारीचकश्यपस्यैतत्संहिताचार्यत्वस्वीकारेऽपि चरकोपक्रमग्रन्थे मारीचेः काश्यपाच्च पृथक्कश्यपस्य प्राचीनस्योपलम्भेनास्यां संहितायामपि इन्द्रान्तेवासिनः कश्यपात् सन्तत्यादिष्वायुर्वेदविद्यानुवृत्तेरुल्लेखेन च अत्रिभृग्वादिसहचरान्मूलकश्यपादेवेयं विद्या मारीचकश्यपेऽप्यनुवृत्तेति बोद्धुं शक्यते, येन तत्परम्परागतेन मारीचेनेयं संहिता निर्मायि । अतश्च वमनविरेचनीयाध्याये (सि. स्या.) वृद्धकाश्यपमतं प्रदर्श्य 'अथ कश्यपोऽब्रवीत्' इति स्वमतप्रदर्शनं पश्चाद्भवस्य मारीचकश्यपस्यैव युज्यते, न खलु मूलकश्यपस्य । आचार्यान्तरमतनिर्देशोत्तरं सनामोल्लेखं स्वमतप्रतिपादनस्य प्राचीना शैली कौटिलियार्थशास्त्रादिष्वात्रेयसंहितायामपि दृश्यते । 'इति ह स्माह कश्यपः' इति वाक्यसम्पुटितस्याध्यायस्याभ्यन्तरेऽपि आचार्यान्तरमतनिर्देशं विनाऽपि क्वचन 'इति कश्यपः इत्याह कश्यपः (खि. स्थान. १० अ. ५८-६६ श्लो.)' इति वाक्यं
१. महाभारते उद्योगपर्वणि ११० अध्याये ।
२. हुताग्निहोत्रमासीनं गङ्गाद्वारे प्रजापतिम् । (ल. क. अ.)
३ का.सं.
| २४ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
यदत्रोपलभ्यते, तन्नवोद्भावितं तमर्थं सूचयितुं ग्रन्थकृत एव स्वनामोल्लेखनमित्यपि सम्भवति, मारीचकश्यपस्य संहितायां 'कश्यपाय स्वाहा' इति (पृ. ५७) स्वाहाकारदेवतात्वेन कश्यपोल्लेखे प्राचीनकश्यपरत्वस्यावश्यकत्वतया मूलकश्यपपरम्परात एवैतत् सन्ततौ विधानुवृत्त्यातद्विषये पूर्वाचार्यकश्यपोपदेशमवबोधयितुं तत्स्मरणमित्यपि सम्भवति ॥
आदिमः परम्परागतो वा भवतु कश्यपः, नैतावन्मात्रेण स प्राचीनतयोऽवगम्यते, वैदिकसाहित्यालोचनेऽपि मन्त्रद्रष्टृतयोल्लिखितो दृश्यते । कात्यायनीये ऋक्सर्वानुक्रमसूत्रे कश्यपेन काश्यपैश्च दृष्टेषु बहुषु सूक्तेषु दर्शितेषु जातवेदस्यादिसूक्तं¹सहस्रं कश्यपार्षं निर्दिष्टं, तद्व्याख्यायां षड्गुरुशिष्य²: 'अयं मरीचिपुत्रः कश्यपः' इति तं परिचाययति । बृहद्देवताया³मपि एतत्सूक्तसहस्रस्य कश्यपदृष्टत्वं कीर्त्यते । सायनाचार्योऽपि जातवेदमन्त्रे मारीचिकश्यपमृषिं निर्दिशति । ⁴बभ्रुसूक्ते तु सूत्रकृदपि मारीचकश्यपार्षत्वं कण्ठत उल्लिखति । आथर्वणसर्वानुक्रमसूत्रेऽपि पृत्ना⁵ जितमिति जातवेदस्यसूक्तद्रष्टामारीचिः काश्यपः ? (मारीचः कश्यपः उल्लिख्यते ।।
अत्रेदं मे प्रतिभाति-ऋग्वेदे नवममण्डलेऽन्यत्र च काश्यपावत्सारेण काश्यपनिध्रुविना मारीचकश्यपेन च दृष्टान्यनेकसूक्तानि सन्ति । यानि सायनेनापि तथैव विवृतानि । तेषु दिव्योोषधिः सोमोऽनेकधा स्तूयते । जातवेदस्यमन्त्रेऽग्नेः स्तवनेऽपि सौमिको विषयस्तत्राप्यनुस्यूतोऽस्ति । जातवेदस्यादिकं च सूक्तसहस्रं कश्यपार्षमिति सर्वानुक्रमसूत्रकृदादयो निर्दिशन्ति । उपलभ्यमान ऋग्वेदे सहस्रमितनां मारीचकश्यपार्षसूक्तानां न खलु संगमनं सम्भवति । जातवेदस्य-स्थले त्वेकमेवेदमैकर्चं सूक्तं दृश्यते । जातवेदस्यस्य सयोवृषेति सूक्तस्य चान्तरा एकोनसहस्रसूक्तानां सत्त्वस्य सर्वानुक्रम⁶सूत्रे बृहद्देव⁷तायां षड्गुरुशिष्योद्धृतशौनकशाकपण्यादिनिर्देशे ज स्पष्टं प्रतीत्या तेषां विलोपः स्फुटीभवति । खिलरूपेण वर्तमानानामेषां सूक्तानामाम्नायाच्च्युतिरितिषड्गुरु⁸शिष्येण स्पष्टमुक्तम् । विलुप्तमन्त्रानुसन्धाने सर्वानुक्रमटीकाकृत् षड्गुरुशिष्यस्त्वत्रैकर्चद्व्यृचत्र्यूचप्रभृतीनि सहस्रर्चपर्यन्तानि सूक्ता⁹नीति प्रथमतौ निर्दिश्य, तत्परिगणने एकर्चसूक्तस्यैवात्रोपलम्भेन एकोनशतपञ्चाधिक¹⁰पञ्चलक्षाणि ऋचोऽत्र विलुप्ता इति गणितमर्यादया दर्शयति । परम्ऋग्वेदे एकैकमन्त्रवृद्ध्यादिप्रक्रियया
१. जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसहस्रमेतत्कश्यपार्षम् । (ऋक्सर्वानुक्रमे मं. १ सू. ९९)
२. एतत्सूक्तसहस्रं कश्यपार्षमिति । आर्षं दर्शनं यत्तत्कश्यपार्षम् ।
अयं स कश्यपो मरीचिपुत्र इति वक्ष्यते मारीचः कश्यप इति । (वेदार्थदीपिकायाम् पृ. ९१)
३. जातवेदस्यं सूक्तसहस्रमेक ऐन्द्रात्पूर्वं कश्यपार्षं वदन्ति । जातवेदसे सूक्तमाद्यं तु तेषामेकभूयस्त्वं मन्यते शाकपूणिः ।। (बृहद्देवतायाम् पृ. ९२)
४. बभ्रुदर्श मारीचः कश्यपो वा द्वैपदम् । (ऋक्सर्वानुक्रमे मं. ८ सू. २९)
५. पृत्नाजितमिति मरीचिः काश्यप उभे जगत्यौ जातवेदसम् (७/६३) इत्यथर्वसर्वानुक्रमसूत्रे 'मरीचिः काश्यपः' इति पाठदर्शनेऽपि वशानुक्रमे कस्यपस्य मारीचत्वेनोपलम्भात् काश्यपस्य मारीचेरनुपलम्भात्, ऋक्सर्वानुक्रमेजातवेदस्ये मारीचकश्यपार्षेयत्वेनास्मिन्नपि जातवेदस्ये तथात्वौचित्याच्च लेखादिकृतो वर्णविपर्यासः किमु ?
६. जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसस्रमेतत्कश्यपार्षम् । (सर्वानुक्रमसूत्रे) ।
७. जातवेदस्यं सूक्तसहस्रमेके ..... जातवेदसे सूक्तमाद्यं तु तेषामेकभूयस्त्वं मन्यते शाकपूणिः । (बृहद्देवतायाम्)
८. खिलसूक्तानि चैतानि त्वाद्यैर्वाचमधीमहे । शौनकेन स्वयं प्रोक्तमृष्वनुक्रमणे त्विदम् ।।
पूर्वात्पूर्वसहस्रस्य सूक्तानामेकभूयसाम् । जातवेदस इत्याद्यं कश्यपार्षस्य शुश्रुम ।।
आम्नायोक्तेरेव च्युतत्वेऽपि खिलस्य कश्यपर्षेरनेकसूक्तदर्शनेन माहात्म्यज्ञानार्थोऽयमुपदेशः प्रासङ्गिकः । (वेदार्थदीपिकायाम् पृ. ९१)
९. जातवेदस इत्येकर्चमादियैषां तान्येतदादीनि सूक्तानि एकभूयांस्येकर्चर्बहुतराणि द्व्यृचं त्र्यूचं चतुरृचं पञ्चर्चमित्यादि सहस्रर्चान्तान्यत्र सन्ति ....... एतावत्सूक्तसहस्रं कश्यपार्षम् । (वेदार्थदीपिकायाम्. पृ. ९२)
१०. सयोवृषीयान्ता वेदमध्यास्त्वखिलमध्यगाः । ऋचस्तु मङ्गलक्षाः स्युः सैकोनशतपञ्चकम् ।। (वेदार्थदीपिकायाम् पृ. ९२)
उपोद्घातः २५
सूक्तेषु मन्त्रविन्यासरीतेः क्वाप्यदर्शनेन, सूत्रे बृहद्देवतायां चास्मिन् सूक्तसहस्रे एकर्चबाहुल्यस्योक्ततया च तावत्संख्यत्वं नोपपद्यते। स संख्यानिर्देशः सङ्गतोऽस्तु न वा, तथाऽप्यस्मिन् सूक्तसहस्रे एकर्चबाहुल्योक्त्या एकर्चानां बहुसंख्यत्वेऽपि सूक्तान्तराणां बहूचानामपि तत्रानुप्रवेशसम्भवेन सहस्रशो मन्त्रा आसन्निति तु सिद्ध्यत्येव। कश्यपार्षेषूपलभ्यमानेषु काश्यपार्षेषु चान्येषु सूक्तेषु दिव्यपरमौषधेः सोमस्याभिणुतिदर्शनेन विलुप्तेष्वन्येषु सहस्रशो मन्त्रेष्वप्येवमेव प्राय ओषध्यादीनां वर्णनं सम्भवति। कश्यपस्यायुर्वेदविद्याचार्यत्वस्य, तत्परम्परायां तदनुवृत्तेश्च काश्यपसंहितायामुल्लेखेन कश्यपसंहिताया महाकृतेर्वृद्धजीवकेन पश्चात् संक्षेपणस्याप्युल्लेखेन च इदमेव विलुप्तं सूक्तसहस्रं काश्यपसंहितात्मकमसीत् किल ?। आयुर्वेदीयविषयान्तरं प्रतिपादयन् स भागः कश्यपेन ऋग्वेदेऽनुप्रवेशितः खिलरूपतया समयेन ततो विच्युतः पश्चादिलोपमुपगतोऽपि संभवति। पश्चान्निर्देश्यमाणे काश्यपसंहितानाम्नोपलभ्यमाने संहितान्तरे—
ऋग्वेदस्योपवेदाङ्गं काश्यपं रचितं पुरा। लक्षग्रन्थं महातेजः अमेयं मम दीयताम् ? ।।
इति ऋग्वेदोपवेदरूपेण लक्षग्रन्थात्मकं काश्यपं दर्शनमुच्यमानमपि इदमेव विलुप्तं काश्यपसंहितारूपसूक्तसहस्रं लक्ष्यीकरोति किमु ? खिलरूपेणावस्थितानां स्वदृष्टसहस्रसूक्तानामीदृशानां परदृष्टानां सूक्तानां च संहितामुपादाय कश्यपाचार्येणायुर्वेदस्य पञ्चमवेदस्थानीयत्वं शिष्योपक्रमणीयाध्याये (पृ. ६२) उपवर्णितं किमु ? इत्यपि तर्कः समुदेति। तामेव खिलरूपेणावस्थितामायुर्वेदीयविषयावबोधिनीं कश्यपस्य महासंहितामुपादाय तदीयविषयानन्तर्निधाय वृद्धजीवकेन संक्षिप्य तन्त्रात्मना विहितं न किमु ? यथा तथा वा भवतु, उपलभ्यमानेयं काश्यपसंहिता वेदानुस्यूतमूलमहातरोरेव संक्षिप्तः स्वरूपविशेषः पर्यवस्यति।।
तदेवमेतत्संहितायाःसंहिताकल्पाध्यायलेखेनाऽस्मिन् ग्रन्थेऽन्तराऽन्तरा प्रविष्टैः पदविशेषैरप्येतत्संहिताचार्यः कश्यपो नामाऽऽहिताग्निर्वेदवेदाङ्गपारदृश्वा प्रजापतिस्थानीयो गङ्गाद्वारनिवासी महर्षिर्मारीचः कश्यप इति स्पष्टीभवति। ततश्च चरकसंहितामूलाचार्यस्यात्रेयस्य पुनर्वसुशब्देनेवैतत्संहिताचार्यस्य कश्यपस्य मारीचशब्देन विशेषतः परिच्छेदः ।।
कौमारभृत्यप्रस्थानीयाया अस्याः संहिताया लेखादपि मारीचः कश्यपो वृद्धकाश्यपश्चेति द्वावाचार्यौ गम्येते। येन मारीचकश्यपोपदेशरूपायामस्यां संहितायां वमनविरेचनीयप्रकरणे परमतश्रेण्यां वृद्धकाश्यपमतं पूर्वं निर्दिश्यपश्चात् 'अथ कश्यपोऽब्रवीत्' इति स्वसिद्धान्तरूपेण कश्यपमतप्रदर्शनस्य स्पष्टतया मारीचशब्देन व्यवह्रियमाणः कश्यपएवास्याः संहिताया उपदेष्टा, वृद्धकाश्यपस्तवाचार्यान्तर एवेति स्पष्टमवगम्यते। प्रत्यध्यायम् 'इति ह स्माह कश्यपः' इति निर्देशो महर्षि कश्यपमित्यादिरूपेण बहुशोऽत्र निर्देशोऽपीदमेवोपोह्ललयति। अस्यापि कश्यपस्य महर्षि कश्यपं वृद्धमिति क्वचन (खिलस्थान. २ अ.) वृद्धत्वोल्लेखास्त ज्ञानवृद्धत्वं वयोवृद्धत्वं वाऽभिप्रैति। खिलभागपुष्पिकायामेकस्यां (खिल. १३ अ.) वृद्धकाश्यपीयायां संहितायामिति लेखस्तु आपातपतितः संभाव्यते, किं वा चरकसंहितायां पश्चाद्भागे कृष्णात्रेयादिमतोल्लेखवदत्रापि वृद्धजीवकीयभावमापन्ने खिलभागे आचार्यान्तरस्य वृद्धकाश्यपस्य मतमादाय निर्देशनेन वृद्धकाश्यपीयायामिति लेखमपि सम्भवति।।
१. हुताग्निहोत्रमासीनं गङ्गाद्वारे प्रजापतिम्। पप्रच्छ स्थविरः काले प्रजानां हितकाम्यया ।। (ल. कल्पः)
प्रजापतिं समासीनमृषिभिः पुण्यकर्मभिः। पप्रच्छ विनयाद्विद्वान् कश्यपं वृद्धजीवकः ।। (ज्व. चि. अ.)
मारीचमासीनमृषिं पुराणं हुताग्निहोत्रं ज्वलनार्कतुल्यम्। तपोदमाचारनिधिं महान्तं पप्रच्छ शिष्यः स्थविरोऽनुकूलम् ।।
(भोजनकल्पः)
पितामह्नियोगाच्च दृष्ट्वा च ज्ञानचक्षुषा। तपसा निर्मितं तन्त्रमृषयः प्रतिपेदिरे ।। (संहिताकल्पः)
महर्षि कश्यपं वृद्धं वेदवेदाङ्गपारम् ।। (खिलस्थान)
| २६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
महाभारते १तक्षकदंशोपाख्याने शप्तं राजानं परीक्षितं दष्टु गच्छतस्तक्षकस्य राज्ञो दंशप्रतिकारायागच्छतो महर्षेः काश्यपस्य च पथि समागमेन संवाद उपलभ्यते। सोऽयं काश्यपशब्दितो मारीचशब्देनाऽविशेषितो महर्षिर्विषहरविद्याविचक्षणः कश्यपपरम्परागतो भिन्न इवावगम्यते॥
डल्लनेन सुश्रुतव्याख्यायां काश्यपनाम्ना, माधवनिदानव्याख्यायां मधुकोशे वृद्धकाश्यपनाम्ना श्लोकावुद्धृतौ दृश्येते। तयोः श्लोकयोरगदतन्त्रीयविषयावबोधेन तावेतौ काश्यपवृद्धकाश्यपौ अगदतन्त्राचार्यौ भिन्नौ प्रतिभातः॥
'तृषिमृषिकृषेः काश्यपस्य' (१/२/२५), 'नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्' (८/४/६७) इति सूत्रकृता पाणिनिना प्राचीनवैयाकरणेषु स्मृतः काश्यपोऽपि प्रस्थानान्तरविद्वानन्य एवावगम्यते। शिल्पाचार्यत्वेन कश्यपस्य निर्देशस्तैत्तिरीयसंहितायां दृश्यते॥
काश्यप५संहितानामैकाऽन्या संहिता उमामहेश्वरप्रश्नप्रतिवचनरूपेण निबद्धा चिकित्साविषयिणी लघ्वी तञ्जोरपुस्तकालये (No 10780) विद्यते। यदीयपूर्वार्धभागस्य श्रीयुतवैद्यवरयादवजीमहाभागन्मयाऽप्युपलब्धः प्रतिलेखः। अत्र पूर्वार्धे नानावातरोंगा ज्वरा ग्रहण्यतीसाराशांसि, एषां निदानानि, पापानि, तच्छमनौषधोपायाः, निदानपापापहानि रुद्रशिवविष्णुवाराधनादिविधानानि च संक्षेपेण दर्शितानि। तत्र पूर्वार्धस्याऽन्तभागे 'बालरोगस्य' इत्युपक्रम्य—
“सर्वाङ्गं मूर्ध्नि कक्षे द्वे श्रोणी द्वे पादबाहुकम्। पिटकं दर्दुरं कण्डू तिमिरं कृमिसंकुलम् ।। पूयं रक्तं स्त्रवति च वेदनं शुष्कमङ्गजम् । विदाहं शोषमत्यन्तबालकं पिच्छिपिच्छिलाम् ।। एते गुणविकाराश्च पैत्तरूपं समुद्भवम् । तत्पैत्तनाडीनाशार्थं रास्नादिलेह्यकं तथा ।। मासं मासत्रयं नित्यं बालपैत्तविनाशकम्। अश्वगन्धिधृतं सेवेद्विडङ्गादिघृतं तथा ।। वाकुचीघृतविख्यातं बालकं पिच्छिलं हरेत् ।। इति पार्वतीपरमेश्वरसंवादे काश्यपसंहितायां पूर्वार्धं समाप्तम्” इत्यवसानमस्ति।।
इत्थंरूपाया अस्याः संहिताया लेखो न प्रौढो, नापि सुसंस्कृतः, नाप्यतिप्राचीनश्रेणीमधिरोढुमर्हति। बालभैषज्यं च नात्र प्राधान्येन वर्णितम्, अन्ते केवलमुपरिनिर्दिष्टश्लोका एतद्विषयका दृश्यन्ते। वृद्धजीवकीयतन्त्रगतलेखेन सह नांशतोऽपि
१. राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत । गच्छाग्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् ।।
(महाभारते आस्तीकपर्वणि. अ. ४६)
२. ननु काश्यपेन मुनिना शिरादिष्वग्निकर्म प्रतिषिद्धं, तथा च तद्वचनं—
न शिरास्नायुसन्ध्यस्थिमर्मस्वपि कथञ्चन । दंशस्योत्कर्तनं कार्यं दाहो वा भिषजाऽग्निना ।।
(निबन्धसङ्ग्रहे सू. अ. १)
३. वृद्धकाश्यपः—संयोगजं च द्विविधं तृतीयां मिश्रमुच्यते। गरः स्यादविषं तत्र सविषं कृत्रिमं स्मृतम् ।। (मधुकोशे)
४. यत्ते शिल्पं कश्यप रोचनावदिन्द्रियावत्पुष्कलं चित्रभानु । यस्मिन्सूर्या अर्पिता सप्त साकं तस्मिन् राजनमधिविश्रयैनम् ।।
(तैत्तिरीयसंहितायाम्)
५. अस्या आरम्भग्रन्थ एवम्—कैलासशिखरे रम्ये पार्वतीपरमेश्वरौ । अन्योन्यसुखलीलायामेकान्तसुखगोष्ठिषु ।।
पार्वती पतिमालोक्य कृताञ्जलिरभाषत ।
किं पापं किंवधं (१) रोगं (:) किंविधं नरकं पथ (वद) ।
शङ्कर उवाच—
नानापापवर्णनान्ते—
ऋग्वेदस्योपवेदाङ्गं काश्यपं रचितं पुरा। लक्षग्रन्थं महातेजः अमेयं मम दीयताम् ।। इत्यादि।
उपोद्घातः २७
विषयविशेषे रचनायां भैषज्येऽपि संवादः साम्यं छायानुविधानमपि। तान्त्रिकप्रक्रियानुसारिणी विभिन्नैवेयमेतन्नाम्ना निर्दिष्टा संहिता। एतदीय उपदेष्टा काश्यपशब्दितोऽपि विभिन्न एवावगम्यते॥
काश्यपसंहिता¹ नाम्ना मद्रासप्रदेशे मुद्रितोऽगदतन्त्रविषयकविभिन्नोऽन्यो ग्रन्थोऽप्येक उपलभ्यते। तत्र गारुडीविद्या, विषहरा भैषज्यप्रयोगाः, मान्त्रिकप्रयोगाः, विषवत्यो जातयस्तत्प्रभेदाः, दंशादिविशेषाश्च वर्णिताः। एतदीयो लेखो डल्लनमधुकोशोद्धृतयोरगदतन्त्रविषयकयोः श्लोकयोर्लेशतोऽपि समकक्षतां प्रौढतां नार्हति। न चात्र तौ श्लोकौ। तेनागदतन्त्रीयस्यान्यस्यैवार्वाचीनकाश्यपस्य प्राचीनगदाचार्यकाश्यपसांप्रदायिकोपदेशानुसारिणोऽन्यस्यैव वा कस्यचिल्लेख इत्यनुमीयते। एतदीयच्छायागन्धोऽपि नास्यां कौमारभृत्यप्रस्थानीयायां संहितायाम्॥
तदेवं कश्यपकाश्यपशब्दयोर्विभिन्नतया दर्शनेन एषामुपरिनिर्दिष्टानां काश्यपानां प्राचीनत्वेन दृश्यमानानामपि विषयविसंवादेन, काश्यपसंहितानाम्ना लभ्यमानयोरुपरिनिर्दिष्टयोर्ग्रन्थयोर्वाचीनग्रन्थान्तरत्वेन, एषां काश्यपानां मारीचत्वेनाऽविशेषेणेन च कौमारभृत्याचार्यो मारीचकश्यपो नाम विभिन्नः प्राचीन आचार्यः, तन्मूला चेयं नवोपलब्धा प्राचीना संहिता विभिन्नैवेति निर्धार्यते। कश्यपोपदिष्टत्वेऽपि तदीय त्वावबोधिना प्रत्ययेन सह प्रयुज्यमानया समानाधिकरणसमासे पुंवद्भावे च काश्यपी संहिता इत्यर्थमादाय काश्यपसंहितेत्यस्या नाम समुचितमेव॥
अष्टाङ्गहृदये बालामयप्रतिषेधाध्याये वृद्धक²श्यपनाम्ना कश्यप³नाम्ना द्वावौषधयोगावुल्लिखितौ दृश्येते। वृद्धकश्यपस्य कश्यपस्य च विभिन्नतया निर्देशनास्यां कश्यपस्य संहितायां वृद्धकश्यपोक्तविषयासंवादेऽपि कश्यपनाम्ना निर्दिष्टो बालानां ग्रहहरो दशाङ्गधूपो धूपप्रकरणे (कल्पस्थाने) किञ्चिद्वस्तुविशेषे पाठविभेदेनोपलभ्यते। बालानां यक्षरक्षःप्रभृतिबाधाहरतया अभयघृतनाम्ना कश्यपेन (पृ. ६) निर्दिष्टं घृतं वाग्भटे⁴नापि (पृ. ४५५) निर्दिष्टं दृश्यते। यावद्रस्तूनां रक्षोघ्नत्वादेश्च संवादेन तदेवेति निश्चीयते॥
खोटाङप्रदेशभूगर्भान्निष्कासितो वावरमनुस्क्रिप्टाख्ययाप्रसिद्धो नावनीतकं नाम प्राचीनौ वैद्य⁵कग्रन्थः। यस्य भूर्जपत्रीयप्राचीनलिपिमात्रानुसन्धानेनापि तृतीयचतुर्थशताब्दीलिखितमिदं पुस्तकमिति निर्धार्यते विवेचकैः। ग्रन्थरचना तु सुतरां ततोऽपि प्राचीना। अत्रात्रेयक्षारपाणिजातुकर्णपराशरभेडहारीतसुश्रुतकाशपजीवकानां नामान्यप्युपात्तानि दृश्यन्ते। प्राचीनानामेषामाचार्याणां संहितोक्तयोगौषधानामात्र सङ्गृहीततया अष्टाङ्गहृदयोक्तयोगस्यैकस्याप्यनुल्लेखेन कश्यप-काश्यपात्रेयसुश्रुतभेदादिभ्य उत्तरं वाग्भटात् पूर्वं तन्निबन्धनमनुमातुं शक्यते। एतदीये चतुर्दशाध्याये कौमारभृत्यरूपे काश्यपनाम्ना जीवकनाम्ना च तदीयोपदेशतो भावानुवादेन कानिचिद्योगौषधानि निर्दिष्टान्युपलभ्यन्ते। कौमारभृत्यप्रकरणेऽस्मिञ्जीवकेन
१. अस्या आरम्भः—काश्यपं तं महात्मानमादित्यसमतेजसम्। अभिवाद्याभिसङ्गम्य गौतमः पर्यपृच्छत॥
गौतमः—त्वं हि वेदविदां श्रेष्ठो ज्ञानानां परमो निधिः। प्रजापतेरात्मभवो भूतभव्यविदुत्तमः॥
समाप्तिः—अभिषेकात् परं मन्त्री यन्त्रधारणमाचरेत्। पूर्ववद्दक्षिणां दद्यात् पूर्ववत्फलमाप्नुयात्॥
एवं प्रकारं यः कुर्यात्तस्य सिद्धिर्भवेद्ध्रुवम्।
इति काश्यपीये गरुडपञ्चाक्षरीकल्पे अभिषेकयन्त्रधारणविधिर्नाम त्रयोदशोऽध्याय इति॥
२. समङ्गाधातकीलोध्रकुटन्नटबलाह्वयैः। महासहाक्षुद्रसहाक्षुद्रबिल्वशलाटुभिः॥
सकार्पासफलैस्तोये साधितैः साधितं घृतम्। क्षीरमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान्॥
विविधानानामयानेतद्वृद्धकश्यपनिर्मितम्॥ (अष्टाङ्गहृदये पृ. ४५८)
३. वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली। पाठा प्रतिविषा व्योषं दशाङ्गः कश्यपोदितः॥ (अष्टाङ्गहृदये पृ. ४६२)
४. ब्राह्मीसिद्धार्थकवचासारिवाकुष्ठसैन्धवैः। सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद् घृतम्॥
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्॥ (अष्टाङ्गहृदये उत्तरस्थाने अ. १)
५. एष ग्रन्थो युरोपप्रदेशे लाहोरप्रदेशेऽपि मुद्रितोऽस्ति।
| २८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
सह निर्दिष्टः काश्यपः सोऽयमेवैतत्संहिताचार्यो भवितुमर्हति। स्वार्थेऽणि तद्गोत्रीयबोधने वा कश्यपस्य काश्यप शब्देनापि व्यवहार्तुं शक्यता कश्यपपदस्थाने काश्यपपदमापातितं स्यात्। तत्रैवं दृश्यते —
आसवेन सुजातेन बालानां दापयेद्भिषक्। सुखं भवति तेनास्य काश्यपस्य वचो यथा ॥११०॥
तेन कोष्ठगतो वायुः क्षिप्रमेव प्रमुच्यते। शिरोरोगेषु शमनं वमनं चैव शाम्यति ॥१११॥
कृमिर्गुदगतो यस्य गुटिकायाः प्रलेपयेत्। तेनास्य सौख्यं भवति काश्यपस्य वचो यथा ॥११२॥
शर्कराक्षौद्रसंयुक्तां पाययीत चिकित्सकः। सुखीभवति तां पीत्वा काश्यपस्य वचो यथा ॥११३॥
इति किञ्चन गुटिकौषधमुपादाय कश्यपोक्त्यनुवादरूपेण योगविशेषः प्रतिपाद्यते। नावनीतके तत्पूर्वश्लोकानां विलुप्ततया किंरूपमिदं गुटिकौषधमिति न ज्ञायते। काश्यपसंहितायां तत्र तत्र (खिलस्था. १७, १८ अ.) गुटिकौषधानां रचना उपयोगश्च दृश्यते। तेष्वेवान्यतममुपादाय स्वानुभवसिद्धेनानुपानविशेषेण साकमत्र निर्दिष्टं विभाव्यते ॥
प्राचीने रावणीये बालतन्त्रे काश्यपस्य वृद्धकाश्यपस्य च नामोल्लेखोऽस्ति। कौमारतन्त्रऽस्मिन्नाचार्यभावेन वृद्धकाश्यपेन सह निर्दिष्टः काश्यपोऽप्ययमेव कौमारभृत्याचार्यः कश्यप इति ज्ञायते ॥
ज्वरसमुच्चयो नाम ज्वरविषये प्राचीनार्षमूलवचनानामेकत्रसंग्रहरूपः प्राचीनॊ ग्रन्थः। यदीयं ताडपुस्तकं लिप्यनुमानेन सप्ताष्टशतवर्षपूर्वतनमेकं, द्वितीयं च ४४ नेपाली (A. D. 924) संवत्सरे लिखितं मत्सकाशेऽस्ति। पुस्तकलखेससमयेनाप्येवं प्राचीने रचनासमयेन तु ततोऽपि प्राचीनेऽस्मिन् ग्रन्थे बहुशः श्लोकाः कश्यपनाम्नोद्धृताः सन्ति, अपि तेषां श्लोकानामस्र्यां संहितायां पूर्णतया संवादाेऽस्ति। स संवादः पश्चान्निद्रेक्ष्यते। तेन तदुपात्तः काश्यपोऽप्येतत्संहिताचार्यः कश्यप एव, तदुद्धृताः श्लोका अप्येतत्संहितागता एवेति सविशेषं निश्चीयते ॥
सुश्रुतव्याख्यायां निबन्ध<sup>१</sup>संग्रहे अष्टाङ्गहृद<sup>२</sup>यटीकायां चरकचक्रपाणिटीकायां कश्यपनाम्नोद्धृता द्वित्राः श्लोका अन्येऽप्युपलभ्यन्ते। परमस्याः संहिताया बहुशो भागेषु त्रुटिततयाऽत्रानुपलभ्यमानास्ते श्लोकास्त्रुटितभागपतिताः स्युः ॥
पीयूषधारायां गर्भाधा<sup>३</sup>नप्रकरणे—'उक्तं च कश्यपसंहितायां, वर्षाद्वादशकादूर्ध्वमित्युपक्रम्य—
अन्तःपुष्पं भवत्येव पनसोदुम्बरादिवत्। अतस्तु तत्र कुर्वीत तत्सङ्गं बुद्धिमन्नरः ॥
इति श्लोकोद्धारो दृश्यते। अस्य श्लोकस्य ज्योतिर्विषयके ग्रन्थे उद्धारदर्शनेन ज्योतिषविषयिण्या अन्यस्याः कश्यपसंहिताया अपि भवितुं संभवाेऽस्ति। काश्यपसंहितायां जातिसूत्रीयाध्याये (पृ. ७९) उपक्रान्तस्य गर्भाधानादिसम्बद्धस्य विषयस्यांशतोऽवशिष्टस्यांशातस्त्रुटिततया अस्मिंश्चश्लोके आर्षरचनया गर्भाधानविषयप्रतिपादनेन चैतत्काश्यपसंहितायामयं श्लोकस्तत्र त्रुटितभागे पतितोऽपि सम्भवति। तथात्वे तत्र पीयूषधारोद्दिष्टा कश्यपसंहिता इयमेव भवितुमर्हति ॥
जीवकस्य विमर्शः
पूर्वोद्दिष्टसंहिताकल्पाध्यायोक्त्या (कल्पस्थाने) कश्यपोपदिष्टा महातन्त्ररूपा संहिता कनखलस्थेन ऋचीकपुत्रेण वृद्धजीवकनाम्ना प्रसिद्धेन महर्षिणाऽधिगत्य संक्षिप्य तन्त्ररूपेण प्रकाशिता इत्यवगम्यते ॥
१. कश्यपोक्तं श्लोकमाह गयदासः—
अरजस्कां यदा नारीं श्लेष्मरेता व्रजेदृतौ। अन्यसक्ता भवेत्स्त्रीतिर्जायते कुम्भिलस्तदा ॥ (सुश्रुतटीकायां निबन्धसंग्रहे)
२. कश्यपः— भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे जलम्। तेन प्रावृषवर्षाख्यौ ऋतू तेषां प्रकल्पितौ ॥
गङ्गाया उत्तरे कूले हिमवद्विमसंकुले। भूयः शीतमत्तस्तेषां हेमन्तशिशिरावृतू ॥
(हेमाद्रेरष्टाङ्गटीकायां चक्रपाणेश्चरकटीकायाञ्च)
३. मुहूर्त्तचिन्तामणेः संस्कारप्रकरणे प्रथमश्लोकव्याख्यायाम्।