भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 35, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 35

उपोद्घातः २१

इतश्च दक्षयज्ञे समुपजातादुपप्लवादुत्पन्नैः प्राचीनैश्च नानारोगैः पीडिताँल्लोकानभिसमीक्ष्य तदुद्दिधीर्षया पितामहन्नियोगेन महर्षिः कश्यप आर्षतपोविज्ञानबलेनैतन्महातन्त्रं निर्माय ऋषीनुपदिदेश। सर्वेभ्यः प्रागिदं तन्त्रं गृहीत्वा ऋचीकपुत्रो जीवको नाम बालमुनिर्विस्तृतस्यास्य संक्षिप्तं रचनान्तरमकरोत्। बालजल्पितमिति मुनयस्तन्नाङ्गीचक्रुः, तेन पञ्चवार्षिको बालो जीवकः सर्वेषामृषीणां पुरतः कनखले गङ्गाह्नदे निमज्ज्य बलीपलितव्याप्तवृद्धरूपेण क्षणादुन्ममज्ज। तेनाद्भुतेन विस्मिता मुनयः शिशोरपि वृद्धाकृतेस्तस्य वृद्धजीवक इति नाम विधाय तं भिषगुत्तममनुमान्य तदीयं तन्त्रं स्वीचक्रुः। ततः कलिकालवशेन लुप्तप्रचारमेतत्तन्त्रं दैवादनायासनाम्ना केनचिद्यक्षजातीयेन प्राप्य लोककल्याणाय रक्षितम्। तदनु वृद्धजीवकस्यैव वंशोद्भवो वात्स्यो नामाधीतवेदवेदाङ्गः शिवकश्यपभक्तो विद्वान् अनायासयक्षं प्रसाद्य ततस्तत्तन्त्रमधिगत्य बुद्धिवैभवेन श्रमेण च कीर्तिधर्मप्रजासुखाभिवृद्धये प्रतिसंस्कृत्य प्रकाशयामास। अष्टसु स्थानेष्वनुक्तं विषयान्तरं खिलरूपेण संयोजितमित्येतदीयमिति वृत्तं लभ्यते॥

आर्षेऽपि समये मन्त्रब्राह्मणादिषु कश्यपकाश्यपशब्दाभ्यामभिधीयमाना अनेके महर्षयः, ग्रन्थान्तरेष्वप्यनेके तन्नामानो विद्वांस उल्लिख्यमाना दृश्यन्ते। तेषु कतमोऽस्याः कौमारभृत्यसंहिताया मूलाचार्यः, यस्योपदेशो वृद्धजीवकमनुसङ्क्रान्त इति परिच्छेद्याय विवेचनीयं भवति। तत्र, अत्रिकश्यपादीनां गोत्रप्रवर्तकमूलाचार्यत्वेनोपलम्भात् कश्यपशब्देन मूलकश्यपस्य, काश्यपशब्देन तद्गोत्रोद्भवानां सामान्यतोऽवगमो भवति। गोत्रप्रवरनिर्देशाचार्याणां लेखानुसन्धाने बोधायनेन मूलगोत्रप्रवर्तकस्यैकस्यैव कश्यपस्योल्लेखेऽपि, प्रवरेषु काश्यपशब्देन व्यवहरणेऽपि, ‘कश्यपान् व्याख्यास्यामः’ इत्युपक्रम्य तद्गोत्रीयानवान्तरगोत्रप्रवर्तकान् विभागशो निर्दिश्य, अन्ते ‘इत्येते निध्रुवाः कश्यपाः’ इत्युपसंहृत्य च काश्यपगोत्रोद्भवा अवान्तरगोत्रप्रवर्तकाः काश्यपशब्देन व्यवहर्तुं योग्या अपि कश्यपशब्देन व्यवहृता दृश्यन्ते। आ¹पस्तम्बाश्वलायनकात्यायनादीनामप्येवमेवोल्लेखा उपलभ्यन्ते। तत्र बहुव्यक्तिनिर्देशपरत्वेन गोत्रप्रत्य²यलोपे कश्यपा इति व्यवहारसंभवेऽपि, शतप³थवंशब्राह्मणे ‘हरितः कश्यपः, शिल्पः कश्यपः, नैध्रुविः कश्यपः’ इति हरितादीनां मिथो विभिन्नानामेकैकव्यक्तीनामपि कश्यपशब्देन निर्देशोऽस्ति। तेन प्राक्काले काश्यपानां काश्यपशब्देनेव विशेषव्यक्तीनां कश्यपशब्देनापि प्रायिको व्यवहारसंप्रदायः प्रतीयते। तेन गोत्रप्रवरनिर्दिष्टशतां बोधायनादीनां लेखतो मूलकश्यपस्येव तत्परम्परागतस्याऽवान्तरकश्यपस्यापि कश्यपशब्देनावबोधो जायते। परं कश्यपपरम्परायां बोधायनादिभिरन्यस्य मारीचस्यानिर्देशेन आर्षसर्गे कश्यपस्य मरीचिपुत्रत्वेनान्यत्रोपलम्भाद्बोधायनादिलेखतो मूलकश्यप एव मरीचिपुत्रतया मारीच इति वक्तव्यमेव। ⁴मात्स्ये गोत्रप्रवरनिर्देशे मरीचेः पुत्रं कश्यपं मूलगोत्रपवर्तकं निर्दिश्य तत्सन्ततिष्ववान्तरोगत्रप्रवर्तकानामुद्देशे कश्यपा मारीचा अपि पुनः पृथग्भावेन निर्दिष्टा दृश्यन्ते। गोत्रप्रवरविषयसङ्ग्रहकारः कमला⁵करोऽपि मात्स्योक्तकश्यपविभागमुल्लिखन् ‘अथ कश्यपाः’ इत्युपक्रम्य कश्यपपरम्परागतमन्यमेक मारीचं


१. अथ कश्यपानां त्र्यार्षेयः काश्यपावत्सारनैध्रुवेति। (आपस्तम्बप्रवरकाण्डे)
कश्यपानां काश्यपावत्सारासितेति। (आश्वलायनप्रवरकाण्डे)
कश्यपान् व्याख्यास्यामः। (कात्यायनलौगाक्षिप्रवरकाण्डे)
२. अनृष्यानन्तर्ये विदादिभ्योऽञ् ४/१/१०४। यञञोश्च २/४/९४ (पाणिनिसूत्रे)
३. हरितात् कश्यपाद्धरितः कश्यपः शिल्पात् कश्यपाच्छिल्प कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविः। (शतपथवंशब्राह्मणे)
४. मरीचेः कश्यपः पुत्रः कश्यपस्य महामुने।
गोत्रकारानृषीन् वक्ष्ये तेषां नामानि मे शृणु।
..............................
..............................
कष्टायनाश्च हारीता आजिहायनहास्तिकाः।
वैकणैयाः कश्यपाश्च सासिसा हारितायनाः॥ (मात्स्ये)
५. अथ कश्यपाः ... काष्ठायनः मारीचः आजिहायनः .... इति मात्स्योक्ताः। (प्रवरदर्पणे)