भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 38, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 38
२४काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

यदत्रोपलभ्यते, तन्नवोद्भावितं तमर्थं सूचयितुं ग्रन्थकृत एव स्वनामोल्लेखनमित्यपि सम्भवति, मारीचकश्यपस्य संहितायां 'कश्यपाय स्वाहा' इति (पृ. ५७) स्वाहाकारदेवतात्वेन कश्यपोल्लेखे प्राचीनकश्यपरत्वस्यावश्यकत्वतया मूलकश्यपपरम्परात एवैतत् सन्ततौ विधानुवृत्त्यातद्विषये पूर्वाचार्यकश्यपोपदेशमवबोधयितुं तत्स्मरणमित्यपि सम्भवति ॥

आदिमः परम्परागतो वा भवतु कश्यपः, नैतावन्मात्रेण स प्राचीनतयोऽवगम्यते, वैदिकसाहित्यालोचनेऽपि मन्त्रद्रष्टृतयोल्लिखितो दृश्यते । कात्यायनीये ऋक्सर्वानुक्रमसूत्रे कश्यपेन काश्यपैश्च दृष्टेषु बहुषु सूक्तेषु दर्शितेषु जातवेदस्यादिसूक्तं¹सहस्रं कश्यपार्षं निर्दिष्टं, तद्व्याख्यायां षड्गुरुशिष्य²: 'अयं मरीचिपुत्रः कश्यपः' इति तं परिचाययति । बृहद्देवताया³मपि एतत्सूक्तसहस्रस्य कश्यपदृष्टत्वं कीर्त्यते । सायनाचार्योऽपि जातवेदमन्त्रे मारीचिकश्यपमृषिं निर्दिशति । ⁴बभ्रुसूक्ते तु सूत्रकृदपि मारीचकश्यपार्षत्वं कण्ठत उल्लिखति । आथर्वणसर्वानुक्रमसूत्रेऽपि पृत्ना⁵ जितमिति जातवेदस्यसूक्तद्रष्टामारीचिः काश्यपः ? (मारीचः कश्यपः उल्लिख्यते ।।

अत्रेदं मे प्रतिभाति-ऋग्वेदे नवममण्डलेऽन्यत्र च काश्यपावत्सारेण काश्यपनिध्रुविना मारीचकश्यपेन च दृष्टान्यनेकसूक्तानि सन्ति । यानि सायनेनापि तथैव विवृतानि । तेषु दिव्योोषधिः सोमोऽनेकधा स्तूयते । जातवेदस्यमन्त्रेऽग्नेः स्तवनेऽपि सौमिको विषयस्तत्राप्यनुस्यूतोऽस्ति । जातवेदस्यादिकं च सूक्तसहस्रं कश्यपार्षमिति सर्वानुक्रमसूत्रकृदादयो निर्दिशन्ति । उपलभ्यमान ऋग्वेदे सहस्रमितनां मारीचकश्यपार्षसूक्तानां न खलु संगमनं सम्भवति । जातवेदस्य-स्थले त्वेकमेवेदमैकर्चं सूक्तं दृश्यते । जातवेदस्यस्य सयोवृषेति सूक्तस्य चान्तरा एकोनसहस्रसूक्तानां सत्त्वस्य सर्वानुक्रम⁶सूत्रे बृहद्देव⁷तायां षड्गुरुशिष्योद्धृतशौनकशाकपण्यादिनिर्देशे ज स्पष्टं प्रतीत्या तेषां विलोपः स्फुटीभवति । खिलरूपेण वर्तमानानामेषां सूक्तानामाम्नायाच्च्युतिरितिषड्गुरु⁸शिष्येण स्पष्टमुक्तम् । विलुप्तमन्त्रानुसन्धाने सर्वानुक्रमटीकाकृत् षड्गुरुशिष्यस्त्वत्रैकर्चद्व्यृचत्र्यूचप्रभृतीनि सहस्रर्चपर्यन्तानि सूक्ता⁹नीति प्रथमतौ निर्दिश्य, तत्परिगणने एकर्चसूक्तस्यैवात्रोपलम्भेन एकोनशतपञ्चाधिक¹⁰पञ्चलक्षाणि ऋचोऽत्र विलुप्ता इति गणितमर्यादया दर्शयति । परम्ऋग्वेदे एकैकमन्त्रवृद्ध्यादिप्रक्रियया


१. जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसहस्रमेतत्कश्यपार्षम् । (ऋक्सर्वानुक्रमे मं. १ सू. ९९)
२. एतत्सूक्तसहस्रं कश्यपार्षमिति । आर्षं दर्शनं यत्तत्कश्यपार्षम् ।
अयं स कश्यपो मरीचिपुत्र इति वक्ष्यते मारीचः कश्यप इति । (वेदार्थदीपिकायाम् पृ. ९१)
३. जातवेदस्यं सूक्तसहस्रमेक ऐन्द्रात्पूर्वं कश्यपार्षं वदन्ति । जातवेदसे सूक्तमाद्यं तु तेषामेकभूयस्त्वं मन्यते शाकपूणिः ।। (बृहद्देवतायाम् पृ. ९२)
४. बभ्रुदर्श मारीचः कश्यपो वा द्वैपदम् । (ऋक्सर्वानुक्रमे मं. ८ सू. २९)
५. पृत्नाजितमिति मरीचिः काश्यप उभे जगत्यौ जातवेदसम् (७/६३) इत्यथर्वसर्वानुक्रमसूत्रे 'मरीचिः काश्यपः' इति पाठदर्शनेऽपि वशानुक्रमे कस्यपस्य मारीचत्वेनोपलम्भात् काश्यपस्य मारीचेरनुपलम्भात्, ऋक्सर्वानुक्रमेजातवेदस्ये मारीचकश्यपार्षेयत्वेनास्मिन्नपि जातवेदस्ये तथात्वौचित्याच्च लेखादिकृतो वर्णविपर्यासः किमु ?
६. जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसस्रमेतत्कश्यपार्षम् । (सर्वानुक्रमसूत्रे) ।
७. जातवेदस्यं सूक्तसहस्रमेके ..... जातवेदसे सूक्तमाद्यं तु तेषामेकभूयस्त्वं मन्यते शाकपूणिः । (बृहद्देवतायाम्)
८. खिलसूक्तानि चैतानि त्वाद्यैर्वाचमधीमहे । शौनकेन स्वयं प्रोक्तमृष्वनुक्रमणे त्विदम् ।।
पूर्वात्पूर्वसहस्रस्य सूक्तानामेकभूयसाम् । जातवेदस इत्याद्यं कश्यपार्षस्य शुश्रुम ।।
आम्नायोक्तेरेव च्युतत्वेऽपि खिलस्य कश्यपर्षेरनेकसूक्तदर्शनेन माहात्म्यज्ञानार्थोऽयमुपदेशः प्रासङ्गिकः । (वेदार्थदीपिकायाम् पृ. ९१)
९. जातवेदस इत्येकर्चमादियैषां तान्येतदादीनि सूक्तानि एकभूयांस्येकर्चर्बहुतराणि द्व्यृचं त्र्यूचं चतुरृचं पञ्चर्चमित्यादि सहस्रर्चान्तान्यत्र सन्ति ....... एतावत्सूक्तसहस्रं कश्यपार्षम् । (वेदार्थदीपिकायाम्. पृ. ९२)
१०. सयोवृषीयान्ता वेदमध्यास्त्वखिलमध्यगाः । ऋचस्तु मङ्गलक्षाः स्युः सैकोनशतपञ्चकम् ।। (वेदार्थदीपिकायाम् पृ. ९२)