काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 497, कुल 942 में से
संदर्भ में पढ़ेंज्वरचिकित्सिताध्यायः ? ] चिकित्सास्थानम् १३९
प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशः ।। जो ज्वर बहुत से प्रबल कारणों से उत्पन्न हुआ हो, जिसमें बहुत से लक्षण हों तथा जो शीघ्र इन्द्रियशक्ति को नष्ट करने वाला हो वह असाध्य होता है । अष्टविध ज्वरों के लक्षण १. वातज्वर—चरक नि. अ. १ में कहा है—तस्येमानि लिङ्गानि भवन्ति, तद्यथा-विषमारम्भविसर्गित्वम्, ऊष्मणो वैषम्यं, तीव्रतनुभावानवस्थानानि ज्वरस्य, जरणान्ते दिवसान्ते निशान्ते धर्मान्ते वा ज्वराभ्यागमनमभिवृद्धिर्वा ज्वरस्य, विशेषेण परुषारुणवर्णत्वं नख नयनवदनमूत्रपुरीषत्वचामत्यर्थं क्लृप्तीभावश्च, अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामङ्गावयवानां, तद्यथा—पादयोः सुप्तता, पिण्डिकयोरुद्वेष्टनं, जानुनो केवलानां सन्धीनां विश्लेषणं, ऊर्वोः सादः, कटीपार्श्वपृष्ठस्कन्धबाह्वंसोरसां च भङ्गरुग्णमृदितमुथितचटितावपीडितावन्नुनत्वमिव, हन्वोश्चाप्रसिद्धिः स्वनश्च कर्णयोः, शङ्खयोर्निस्तोदः, कषायास्यताऽऽस्यवैरस्यं वा, मुखतालुकण्ठशोषः, पिपासा, हृदयग्रहः, शुष्कच्छर्दिः, शुष्ककासः, क्षवथूद्गारविनिग्रहः, अन्नरसखेदः, प्रसेकारोचकाविपाकाः, विषादविजृम्भा-विनामवेपथुश्रमभ्रमप्रलापजागरणारोमहर्षदन्तहर्षस्तथोष्णाभिप्रायता, निनिदानोक्तानानुपशयो विपरीतोपशयश्चेति वातज्वरलिङ्गानि ।
२. पित्तज्वर—युगपदेव केवले शरीरे ज्वराभ्यागमनमभिवृद्धिर्वा भुक्तस्य विदाहकाले मध्यन्दिनेऽर्धरात्रे शरदि वा विशेषेण, कटुकास्यता, घ्राणमुखकण्ठौष्ठतालुपाकः, तृष्णा, भ्रमो मदो मूर्च्छा, पित्तच्छर्दनम्, अतीसारः, अन्नद्वेषः, सदनं, स्वेदः, प्रलापो रक्तकोठाभिनिर्वृत्तिः शरीरे, हरितहारिद्रत्वं नखनयनवदनमूत्रपुरीषत्वचाम्, अत्यर्थमूष्मणस्तीव्रभावोऽतिमात्रं दाहः शीताभिप्रायता, निदानोक्तानामनुपशयो विपरीतोपशयश्चेति पित्तज्वरलिङ्गानि भवन्ति ।
३. श्लेष्म ज्वर—युगपदेव केवले शरीरे ज्वराभ्यागमनमभिवृद्धिर्वा भुक्तमात्रे पूर्वरात्रे वसन्तकाले वा विशेषेण, गुरुगात्रत्वं, अनन्नाभिलाषः, श्लेष्मप्रसेको, मुखस्य च माधुर्यं, हल्लासो, हृदयोपलेपः, स्तिमितत्वं, छर्दिः, मृद्वग्निता, निद्राधिक्यं, स्तम्भः, तन्द्रा, श्वासः, कासः, प्रतिश्यायः, शैत्यं, शैत्यं च नखनयनवदनमूत्रपुरीषत्वचामत्यर्थं, शीतपिडकाश्च भृशमङ्गेभ्य उत्तिष्ठन्ति, उष्णाभिप्रायता, निदानोक्तानामनुपशयो विपरीतोपशयश्चेति श्लेष्मज्वरलिङ्गानि भवन्ति ।
४. वातपित्त—ज्वर चरक चि. अ. ३ में कहा है—शिरोरुक् पर्वाणां भेदो दाहो रोम्णां प्रहर्षणम् । कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचिः ।। स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः ।।
५. वातकफ ज्वर—शीतको गौरवं तन्द्रा स्तैमित्यं पर्वाणां च रुक् । शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम् ।। सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ।।
६. कफपित्त ज्वर—मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः । मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्त्तनम् ।। तिक्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः ।।
७. सन्निपात ज्वर—क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा । सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने ।। सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः । तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः ।। परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम् । ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च ।। शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा । स्वेदमूत्रपुरीषाणां चिराद्दर्शन-मल्पशः ।। कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् । कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् । मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च । चिरात्पाकश्च दोषाणां सन्निपातज्वराकृतिः ।।
८. आगन्तु ज्वर—चरक चि. अ. ३ में कहा है—आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः । अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः ।। ते पूर्वे केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः । हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः ।। आगन्तु ज्वर पूर्व स्वतन्त्र होते हैं तथा पीछे से इनमें वातादि दोष भी प्रकुपित हो जाते हैं ।
आमज्वर के लक्षण—अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च । हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च ।। ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्त्तनम् । लालाप्रसेको हल्लासो क्षुन्नाशो विरसं मुखम् । स्तब्धसुप्तगुरुत्वं च गात्राणां बहुमूत्रता । न विङ्जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम् ।। आमज्वर में उपर्युक्त अरुचि, अपचन आदि लक्षण होते हैं । उसकी चिकित्सा निम्न प्रकार से की जाती है ।
चिकित्सा—आमज्वर में दोषों को पचाना ही मुख्य उद्देश्य होता है । इसीलिये चरक में कहा है—"ज्वरे लङ्घनमेवादौ" । लङ्घन कराने से आमरस की उत्पत्ति नहीं होती है इसलिये दोषों का पाचन भी शीघ्र होकर ज्वर से मुक्ति हो जाती है । इसीलिये अष्टाङ्गसंग्रह में कहा है—आमाशयस्थोहत्वाऽग्निं सामो मार्गान् पिधापयत् । विदधातिज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ।। आमदोषों में दोषों का पाचन किये बिना कभी वमन नहीं कराना चाहिये ।
जीर्णज्वर की चिकित्सा—जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम् । पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम् ।। तथा—